चेटी-देवी भणादि जधा -अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [ देवी भणति यथा-आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]
विदूषकः-णिउणिए ! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम् ? [ निपुणिके ! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम् ? ]
चेटी-जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता।]
विदूषकः-(स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्सभेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम् ) किं तत्तभोदा उव्वसीणामधेएण आमन्तिदा ? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता ?]
चेटी-देवी यथा इत्थं भणति आज्ञापयति-आर्यस्य भवतः मम उपरि अदाक्षिण्यम् अननुकूलता प्रातिकूल्यं वा । किं तददाक्षिण्यमित्याह-अनुचितवेदनां निरर्थकमेव पीडितां माम् दुःखितां नावलोकयति आर्यः इति । पीडिताया अपि मम चिन्तां न कुर्वन्ति भवन्तः इत्यर्थः । इत्येव प्रातिकूल्यम् ।
विदूषकः-निपुणिके ! तत्रभवत्याः देव्याः किमपि प्रतिकूलमनभिलषितं प्रियवयस्येन राज्ञा कृतम् किम् ? । येन राज्ञी दुःखिता भवेत् तादृशं कृतम् किम् राज्ञा इति भावः।
चेटी-यन्निमित्तं यस्याः कृते भर्ता राजा उत्कण्ठितः तस्याः स्त्रियो नाना भर्त्रा नृपेण देवी आलपिता समाहूता। राजा यामभिलषति, तस्या नाम्ना तेन देवी आकारिता, संबुद्धा वा । अयं तावद्राज्ञः गोत्रस्खलितं नामापराधः ।
विदूषकः-[स्वगतमात्मन्येव ] तत्रभवता मान्येन प्रियवयस्येन राज्ञा स्वयमेव रहस्यभेदः कृतः गोपनीयं वृत्तान्तमुद्घाटितम् , प्रकाशितम् वा । यदा तेनैवेत्थं समाचरितम् तदा कथमहं ब्राह्मणः सन् जिह्वां धारयितुं वशीकर्तुं समर्थोऽस्मि प्रभवामि । इहापि 'जिह्वां धारयितु' मित्यत्र श्लेषः। विदूषकस्य विप्रत्वात् भोजनप्रियत्वात् च जिह्वानिग्रहः दुर्धर एव । यथा रसवतीमवलोक्य विदूषकस्य