पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
द्वितीयोऽङ्कः।

 चेटी -अज्ज ! का सा उव्वसी ? [आर्य! का सा उर्वशी ?]

 विदूषकः-अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि वम्हणं असिदव्वविमुहं दिढं पीडेदि । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]

 चेटी-(स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एदं णिवेदेमि । [ उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि । ] ( इति प्रस्थिता)

 विदूषकः-णिउणिए ! विण्णावेहि मम वअणेण कासिराअदुहिदरम्-परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [ निपुणिके ! विज्ञापय मम वचनेन काशिराजदुहितरम्- परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]


रसनाया नियमनं कठिनमेवमेव राजरहस्यगोपनार्थमपि तस्य जिह्वायाः नियन्त्रणमसम्भवप्रायमेवेत्यर्थः ॥ [प्रकाशम्-चेटीं प्रति ] किं तत्रभवता राज्ञा देवी उर्वशीनामधेयेन आमन्त्रिता आहूता । किमयं 'अयि उर्वशि'-इति देवीम् आकारितवान् ? इति पृच्छति ।

 चेटी-आर्य्य ! का सा उर्वशी ? उर्वशीविषयकं सर्वं विचारयति ।

 विदूषकः-उर्वशीति तन्नामधेया काचन अप्सरा देवाङ्गना अस्ति । तस्या अप्सरसः दर्शनेनोन्मादितः व्याकुलः अनवस्थितः न केवलं तां देवीमेवायासयति पीडयति किन्तु मामपि ब्राह्मणमशितव्यविमुखं भोजनपराङ्मुखं कुर्वन् दृढं परं पीडयति सन्त्रासयति ।

 चेटी-(स्वगतम् ) मया भर्तुः राज्ञः रहस्यदुर्गस्य रहस्यमेव दुर्गम् तस्य भेदः उत्पादितः कृतः । ज्ञातं मया राजरहस्यम् तद्वा एतत्सर्वम् देव्यै निवेदयामि विज्ञापयामि । रहस्यदुर्गमिति-रूपकालङ्कृतिः । अनेन रहस्यस्य दुर्बोध्यत्वम् व्यज्यते । दुर्गस्य दुःखेन गन्तुं योग्यमिति व्युत्पत्तेः । इति विचार्य प्रस्थिता।

 विदूषकः-निपुणिके ! मम वचनेन काशिराजदुहितरम् देवीं विज्ञापय सादरं निवेदय, एतस्या मृगतृष्णिकायाः असन्तोष्यतृष्णायाः राजानं निवर्तयितुम् परिश्रान्तोऽस्मि । एतस्मात् विचारात् तं प्रत्यावर्तयितुं यतमानोऽहम् श्रान्तोऽस्मि । नाऽयं विचारं परिवर्तयतीति भावः। किन्तु यदि भवत्याः मुखकमलं प्रेक्षिष्यते ततः