५
मोचयितुमशक्येति भणन्तीदानीम् कुत्रानिर्दिष्टकारणं गच्छसीति किमिति पृच्छसीति प्रियसख्या लब्धोत्तरा "राजर्षेः सकाशं प्रस्थिता किमिति" पुनरपि तद्धृदयभावान्वेषणपरा बभूव । उर्वशी च मदनेन नियोजिता, पूर्वप्रेषितहृदया अहं तत्रैव प्रचलितास्मीति प्राह । मार्ग सुलभञ्चादेशयितुं प्रार्थयन्ती दानवैरलङ्घनीयां शिखाबन्धिनीं विद्यां स्मारिता सा भगवतीभागीरथीयमुनयोः सङ्गमेन पावनीकृतमवनीतलं भूषयन्ती प्रतिष्टानाभरणं राजर्षिभवनममुपगते स्व इति विज्ञापिता सस्पृहैः विलोचनैः स्निग्धमालोकयन्ती स्थानान्तरगतः स्वर्ग एवेति मन्यमाना 'कुत्र खलु स आपन्नानुकम्पी भवेदिति- प्रियसखीं मन्त्रयते। सा च वनीं माघवनीमिव प्रमदोद्यानवाटिकामवतरन्ती राजानं दृष्ट्वा सोल्लास प्रथमोदितो भगवांश्चन्द्रः कौमुदीमिव त्वामवेक्षमाणः सवयस्यो नितरां राजतेतराम् इति निवेदयन्ती भृशं तां सुखयते ।
उर्वशी तत्रभवती राजानं प्रथमदर्शनादपि सविशेषं प्रियदर्शनं मन्वाना तत्रान्तरे वनान्तराले तिरस्करिणीप्रतिच्छन्ना सवयस्यो महाराजः रहसि किं मन्त्रयत इति सजातकुतूहला सह चित्रलेखया तूष्णीं तिष्ठति । विदूषकश्च दुर्लभप्रणयिजनसमागमोपायं विचिन्त्य शून्यहृदयं राजानं विज्ञापयति यच्च स्वप्नसमागमकारिण्या निद्राया आश्रयः अथवा आलेख्यं लिखित्वावलोकनमिति । राजा चोभयमेवासम्भावि मनुते यतो विद्धमिदं हृदयं मदीयं पुष्पधनुषः इषुभिरतो निद्रां न लभयिष्यते आलेख्ये वा सुवदनायाः पूर्णतया लेखनात्पूर्वमेव मे - नयनयोर्गतिं बाष्पपरम्परावरुद्धां करिष्यति । परिच्छन्ना चोर्वशी चित्रलेखया श्रुतं त्वया यत् त्वत्कारणमेवेयमवस्थेति विज्ञापिता चेतसि प्रत्ययं न मे इति वदन्ती पुनरुपालम्भाङ्गीकरणबद्धकौतुका तूष्णीमास । राजा च सनिश्वासं सा मम हृद्गतां कठिनां रुजं न वेद किम् अथवा संवेद्यापि मामवमन्यते इत्यादौ प्रियामधिक्षिपति। पश्चाच्च पञ्चबाणो मम तस्मिन् जने समागममनोरथमवकेशिनं विधाय कृतित्वमभ्येत्विति काममुपालभते। एवं श्रुत्वा उर्वशी 'हा धिक् मामप्येवं मन्यते महाराज' इति जातनिर्वेदा स्वात्मानं दर्शयितुं अशक्नुवाना सखीं प्रभावलभ्यं भूर्जपत्रमधिलिख्य क्षेप्तुं प्रेरयामास । उर्वशीहस्ताक्षरानुगृहीते पतिते तु तस्मिन् पत्रे भीतो विदूषकः भुजङ्गनिर्मोक इति मत्वा आक्रन्दते। राजा च तद् भूर्जपत्रमिति परिज्ञाय गृहीत्वा वाचयति श्रावयति च वयस्यम् “यथा महाराजेन मतं तत्तथा न, मह्यमपि नन्दनवनवातः शिखीव शरीरदाहकः सन्तीति" स्वमदनावस्थां प्रकाशितवतीति । तदा च किं महाराजो भणिष्यतीति समुपस्थितकौतुकोर्वशी तिष्ठति । विदूषकश्च बुभुक्षिताय मह्यं प्रातराशो यथा सुखयति तथैव ते मनो विनोदयितुमयं लेखः प्राप्त इति समाश्वासयति । राजा सर्वथैव तस्याः सम्मेलनाभावे तदीयहस्तविन्यासेनैव समागमं साक्षादिव मत्वा स्वात्मानं सान्त्वयति । विदूषकश्च अपि नामेदं सम्भवि यत्तत्रभवती उर्वशी ईदृशं प्रीतिपुरःसरं लिखित्वा विसंवदिष्यतीति, न कदापीति पुनरपि मधुरालापैः वयस्योचितैः समाश्वासयति । उर्वशी च चित्रलेखां राजानं प्रति स्वानुमतं भणितुं नोदयति, चित्रलेखा च