सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ सङ्क्षिप्तविवृतिः॥


॥ प्रथमोऽङ्कः॥

 अथ काव्यकाननसञ्चरणपञ्चाननः समस्तकविवृन्दशेखरत्वेनोपबृंहितकीर्तिः तत्रभवान् कालिदासः त्रोटकप्रणयनकौतुकी काव्यस्यास्य प्रथमं स्वाभीष्टदेवताभावनामयीं सकलजनाशीर्वादपटीयसीं नान्दीं प्रणिनाय । अनन्तरं पारिपार्श्विकसूत्रधारौ विशुद्धमनस्कान् कुतूहलपुरस्कृतान् सामाजिकान् सरसभाषणमुग्धान् भूयोऽपि रसेन भावयितुं बद्धपरिकरौ सन्ततरससञ्चारचारु नवमिदं त्रोटकं विक्रमोर्वशीयम् अत्रभवतः प्रणेतुः कवेः प्रज्ञानिकषपाषाणमिति श्रावयित्वा, श्रुत्वा च परित्राणविषयकं देवाङ्गनानामाक्रन्दनं, प्रदर्श्य च नारायणस्योरुसम्भवायाः उर्वश्याः केशिना हरणम् असूचयतां सत्यसन्धस्य सूर्योपस्थाननिवृत्तस्य प्रतिष्ठानाधीशस्य पुरूरवसो राज्ञः प्रवेशम् । राजा चाप्सरसः समाश्वास्य तासां दुःखहेतुं जिज्ञासमानः प्राह कस्मात्ताः परित्रातव्या इति । अप्सरसां प्रमुखया रम्भया विज्ञापितदानवावलेपः मनःसागरेन्दुलेखायाः कुबेरभवनान्निवर्तमानायाः चित्रलेखासनाथाया उर्वश्याः निवेदितबन्दिग्राहो राजा ऐशानीं दिशं गतं परिज्ञाय जाल्मं, समाश्वास्य चेतराः अप्सरसः विषादमोचनाय सम्प्रार्थ्य च तासां मुखेभ्यः "सदृशमिदं सोमवंशोद्भवस्येति" प्रशंसां समुपगम्य, हेमकूटे प्रतिपालनसङ्केतं च निश्चित्य सूतेन ऐशानीं दिशं प्रेरितं रथमलङ्कुर्वाणः रथवेगं निरूप्य स्वविजयमाशंसमानः त्वरितगतिर्मघवतोऽपकारिणं दानवं अन्विष्य दण्डयितुं प्रतस्थे । ततः प्रयाते तु सारथिसनाथे राजनि, सहजन्या दर्शनपथातोतं परिज्ञाय परोपकारिणं महीपतिं, मेनकां यथानिर्दिष्टसङ्केतस्थले प्रचलितुं प्रार्थयामास । ततः सर्वाः नाट्येनाधिरुह्य हेमकूटशिखरं, अविज्ञातराजप्रभावा रम्भा मेनकां "अपि नाम राजा अस्माकं हृदयशल्यमिव समुत्पन्नम् उर्वशीहरणक्लेशमुद्धरेत्" इति पृच्छन्ती निःसंशयमिदं स्यात् इति लब्धप्रत्युत्तरा अपि, दानवानां दुर्जयत्वं शङ्कमाना सङ्गरे सत्यसङ्गरस्यास्य महेन्द्रसहायकत्वेन प्रतिवोध्यमाना एव प्रदर्शितोल्लसितकेतनतद्रथा एतावतैव कालेन विजयित्वं समीक्ष्य परम् विस्मयं वहन्ती, सूचिते तु सुनिमित्ते सह सखीभिः समुत्सुकलोचनाभ्यां विलोकयन्ती राजदर्शनावसरं प्रतिपालयन्ती बभूव ।

 अनन्तरं विचित्रविक्रमो राजा विक्रमः भव्यनिमीलितनयनया चित्रलेखया दत्तावलम्बनयोर्वश्या सार्धं प्रविशति ।

 अत्रान्तराले स भूपालः वज्रिणो वीर्यं प्रशंसन् सुरारिजन्यं भयमपगतमिति समाश्वासयन् तत्रभवतीमुर्वशीं पराजितपङ्कजे सुकुमारे मारदीपने लोचने उन्मीलयितुमभ्यर्थयत् । उच्छ्वासमात्रसम्भावितजीवितामप्युर्वशीमद्यापि संज्ञामलभमानां