द्वितीयोऽङ्कः।
(ततः प्रविशति विदूषकः)
विदूषकः-अविद अविद भोः, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेsकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]
ततः इति-इदानीं विदूषकद्वाराग्रिमकथासूचनार्थं विदूषकप्रवेशं तावदाह । ततः पूर्वाङ्के ससूतस्य राज्ञः निष्क्रमानन्तरं विदूषको रङ्गभुवम् प्रविशति । विदूषकलक्षणं तु-"वयस्यकश्चाटुपटुः स एव च विदूषकः । अन्तःपुरचरो राज्ञां नर्मामात्यः प्रकीर्तितः" इति सागरः। दर्पणे च-“कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥ स्वकर्म मधुरभोजनम् ।" इयं पताका, प्रासङ्गिकवृत्तस्याख्यासमाप्तिव्याप्तत्वात् ॥
विदूषकः-अविदेति-अविद अविद भोः ज्ञायतां ज्ञायतामिति । यथा निमन्त्रणिकः भोजनार्थं निमन्त्रणदाता यजमानः परमान्नेन क्षीरेण स्फुटन् द्रवीभूतचेतो भवन् तद्भक्षणाय आत्मनः स्वीयां जिह्वां रसनां धारयतुं निरोद्धुं न शक्नोति तथैवाहमपि राजरहस्येन राज्ञः विक्रमस्योर्वशीविषयकरतिरूपरहस्येन स्फुटन् विघटितात्मा भवन् जनाकीर्णे जनसमूहे अकीर्तनेन तदप्रकाशयितुं जिह्वां धारयितुं निग्रहीतुं न शक्नोमि न पारयामि । अर्थात् राजरहस्यम् मम जिह्वातः स्वयमेव स्फुटदिव बहिर्निष्कान्तुमिच्छति । अत्रोपमालङ्कारः । जिह्वां धारयितुमित्यत्र श्लेषश्च । एकत्र भोक्तुमन्यत्र प्रकाशयितुमित्यर्थद्वयशालित्वात् । अनयोपमया विदूषकस्यात्यन्तभोजनप्रियत्वं रसनालोलुपत्वं च सूच्यते, हृदयगाम्भीर्याभाववत्त्वं च व्यज्यते । तद्यावत् अतएव यावता समयेन स राजा विक्रमः धर्मासनगतः न्यायासनतः राजकर्म समाप्य इत अस्मिन्नेवोद्देशे समायाति तावता समयेन विरलजनसम्पाते कतिपयैः पुरुषैर्व्याप्ते देवच्छन्दकप्रासादे तदाख्यराजप्रासादम् आरुह्य तत्र स्थास्ये राजागमनप्रतीक्षां करोमीत्यर्थः । [परिक्रम्य किञ्चिदितस्ततः परिभ्रम्य पाणिभ्यां हस्ताभ्याम् मुखं पिधायाच्छाद्य स्थितः उपविष्टः ।]