पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
[ सर्गः ७
कुमारसंभवे

 अङ्कादिति ॥ सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्गं ययौ। मण्डनान्मण्डनान्तरं मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छदित्यर्थः। तच्च स्नेहनिबन्धनमेवेत्याह-संवन्धिभिः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः ॥५॥

 मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
 तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६॥

 मैत्र इति ॥ अथ मैत्रे मित्रदैवत्ये मुहूर्ते, उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । 'आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च' इति बृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । 'फल्गुनीप्रोष्ठपदानां च नक्षत्रे' (पा.१।२।६०) इत्यकस्मिन्नपि बहुवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम्। 'प्रतिकर्म प्रसाधनम्' इत्यमरः। चक्रुः । कीदृश्यः ? याः पतिपुत्रवत्यः, जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः ॥ ६ ॥

प्रतिकर्मप्रकारमेव प्रपञ्चयति-

 सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
 निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार ।। ७ ।।

 सेति ॥ सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिंस्तत्तथोक्तम्। 'कौशेयं कृमिकोशोत्थम्' इत्यमरः । उपात्तबाणं गृहीतशरम् । 'शरः क्षत्रियया ग्राह्यः' (३।४४) इति मनुस्मरणात् । अङ्गनेपथ्यमभ्यङ्गवेशमलंचकार, अलंकारमप्यलंचकारेत्यर्थः ॥ ७ ॥


पाठा०-१ रागम्. टिप्प०-1 विवाह उत्तर फल्गुन्याः शुभदत्वमुक्तम्-'रोहिण्यैन्दवरेवतीश्वसनभं मूलानुराधामघाहस्ताश्चोत्तरभत्रयं शुभदं वैवाहिके कर्मणि ।' 'विवाहे शुभदाऽत्यन्तं तस्मादुत्तरफल्गुनी' इत्यादिश्लोकैः । 2 अनेन हिमवतः क्षत्रियत्वं स्फुटं प्रतिपादितम् , शिवस्तु

ब्राह्मण एवेति श्रुत्यादिषु प्रसिद्धिरिति क्षात्र-ब्राह्मसंमिश्रोऽयं विवाह इत्यवसेयम् ।