पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६-११]
१४९
पार्वत्याः कनककलशतोयेन स्नानम्

 बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
 करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ ८॥

 बभाविति ॥ किंचेति चार्थः । बाला नवेन दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये, शुक्लपक्षादावित्यर्थः । भानो: करेण किरणेन संधुक्ष्यमाणोपचीयमाना। 'सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति' इत्यादिवचनात् । शशाङ्करेखेव बभौ ॥ ८ ॥

 तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् ।
 वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥९॥

 तामिति ॥ लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् , कृतस्नैग्ध्यामित्यर्थः । 'अथ जायकम् । कालेयकं च कालानुसार्यं च' इत्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुःस्तम्भगृहं तदभिमुखं व्यनेषुः, स्नानगृहं निन्युरित्यर्थः ॥ ९॥

 विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे ।
 आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ १० ॥

 विन्यस्तेति ॥ विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्मिंस्तस्मिन्नाबद्धानां मुक्ताफलानां भक्तिभी रचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूवुः । अष्टसु लौहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' (पा.६।३।१२५) इति दीर्घः । 'अष्टापदं स्यात्कनकम्' इति विश्वः ॥१०॥

 सा मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रा ।
 निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥११॥


पाठा०-१ लेखा. २ अभिमुखीमनैषुः. ३ शिले च तस्मिन्. ४ आविद्ध, ५ शुद्धोद्गमनीय. ६ निवृत्त.

टिप्प०--1 तानि तु-'सुवर्णं रजतं ताम्र्ं सीसकं कांतिकं तथा । वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टाविमानि तु ॥' इत्यादिनोक्तानि ।