पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
[ सर्गः ६
कुमारसंभवे

अथवा भृद्भरणम् संपदादित्वात्किप् । परैर्भ्रद्यस्यास्तया परभृतेति व्यासेन व्याख्ये- यम् । पदमञ्जरीकारस्तु-परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखे- वाभ्याशेऽन्तिके बभौ । 'सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्ति- काभ्याभ्यग्रा अप्यभितोऽव्यम् ॥' इत्यमरः ॥२॥

  स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
  ऋषीञ्ज्योतिर्मयान्सप्त सम्मार स्मरशासनः ॥३॥

 स इति ॥ स प्रकृतः । शास्तीति शासनः । बहुलग्रहणास्कर्तरि ल्युट् । स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय, तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य, तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजो- रूपान्सप्तर्षीमङ्गिरःप्रभृतीन्सस्मार स्मृतवान् ॥ ३॥

  ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
  सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ४ ॥

 त इति । ते तप एव धनं येषां त तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजः- पुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारु- न्धतीकाः सन्तः । 'नद्यतश्च' (पा. ५।४।१५३) इति कप् । सपदि प्रभोरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः ॥ ४ ॥

 इतः परं षभिः श्लोकैस्तानेव मुनीन्वर्णयति-

  आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु ।
  व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥ ५॥

 आप्लुता इति ॥ उत्किरन्ति विक्षिपन्तीत्युत्किराः । 'इगुपध-' (पा. ३।१।- १३५) इत्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरंगा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः ॥५॥


पाठा०-१ कुसुमोत्कर. २ आकाशगङ्गास्रोतःसु. टिप्प०-1 तथा चाक्तं पाराशरसंहितायाम्-'कलया चरन्ति राशिघु दिवि ये

सप्तर्षयो मरीच्याद्याः। सूर्यादयश्च ये ते खचराः सर्वे ग्रहाः प्रोक्ताः' इति ।