पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८४-२]
११९
निजरूपमास्थितं शिवमवलोक्य पार्वत्यानन्दः

वदति सति । सा देव्याय सपदि । 'स्त्राग्झटित्यञ्जसाह्नाय द्राङ्प्राङ्क्षु सपदि द्रुतम्' इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज, फलप्रास्या क्लेशं विसस्मारेत्यर्थः । तथा हि-क्लेशः फलेन फलसिया पुनर्नवतां विधत्ते पूर्ववदे- बाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः ॥ ८६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
तपःफलोदयो नाम पञ्चमः सर्गः।

षष्ठः सर्गः ।


  अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।
  दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥१॥

 अथेति ॥ अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरूपं यस्येति, विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । सखी संदिदेशातिससर्ज । क्रियामात्रप्रयोगेऽपि संप्रदानत्वा- चतुर्थी। किमिति ? भूभृतां नाथो हिमवान्मे मम दाता सन् प्रमाणीक्रियतामिति, दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः ॥१॥

  तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।
  चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ॥२॥

 तयेति ॥ तया सख्या, सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला, परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरा परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी। 'मुख'शब्देनाभि- भाषणव्यापारो लक्ष्यते, तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् 'जातेरस्त्री-' (पा. ४११।६३) इति ङीप्प्रत्ययो न भवति। 'तया' इस्युपमेयस्य व्यस्तत्वादुपमानवाचि 'परभृता' शब्दस्य समासः सोढव्यः।