विभूषणेति ॥ विशांपतिर्मनुजपतिः कुशः ॥ “द्वौ विशौ वैश्यमनुजौ" इत्यमरः ॥ विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः॥कर्मण्यण् ॥ विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसंजहार ॥ तथाहि । सन्तः प्रह्वेषु नम्रेष्वनिर्बन्धरुषोऽनियतकोपा हि ॥
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषाम[१]ङ्कुशमस्त्रविद्वान् ।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ।।८१।।
त्रैलोक्येति ॥ अस्त्रं विद्वानस्त्रविद्वान् ॥ “न लोक-" इत्यादिना षष्ठीसमासनिषेधः ॥ "द्वितीया श्रिता-" इत्यत्र गम्यादीनामुपसंख्यानाद्द्वितीयेति योगविभागाद्वा समासः ॥ गारुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् ॥ चतुर्वर्णादित्वात्स्वार्थे ष्यञ्प्रत्ययः ॥ त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मूर्ध्ना अभिवन्ध्य प्रणम्य बभाषे॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतैर्विघातम् ॥८२॥
अवैमीति ॥ त्वाम्। ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः ॥ “स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्” इति शाश्वतः ॥ स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । “आत्मा वै पुत्रनामासि” इति श्रुतेरित्यर्थः ॥ स जानन्नहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः "धृ प्रीतौ" इति धातोः स्त्रियां क्तिन् ॥ विघातं कथं नामाचरेयम् । असंभावितमित्यर्थः॥
करेति॥कराभिघातेनोत्थित ऊर्ध्वं गतः कन्दुको यस्याः सा कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थः । इयं बालातिकुतूहलेनात्यन्तकौतुकेनान्तरिक्षाज्ज्योतिर्नक्षत्रमिव ॥ "ज्योतिर्भद्योतदृष्टिषु" इत्यमरः ॥ ह्रदात्पतत्वदीयं जैत्राभरणमालोक्यादत्तागृह्णात् ॥
तदेतदाजानुविलम्बिना ते ज्या[४]घातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ८४ ॥