ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुर[१]म्लानमुखप्रसादाः ।। ७५॥
तत इति ॥ ततः । नद्यां स्नान्ति कौशलेनेति नदीष्णाः । तान् ॥ “सुपि" इति योगविभागात्कप्रत्ययः । “निनदीभ्यां स्नातेः कौशले इति षत्वम् ॥ सर्वानानयिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश । त आनायिनः सरयूं विगाह्य विलोड्य वन्थ्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ॥
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥७६ ॥
कृत इति ॥ हे देव, प्रयत्नः कृतः । पयसि मग्नं त आभरणोत्तमं न च लब्धम् । किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदेन कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम् । नूनमिति वितर्के ।।
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥७७॥
तत इति ॥ ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान्स कुशस्तीरगतः सन्धनुराततज्यमधिज्यं कृत्वा भुजंगस्य कुमुदस्य नाशाय गारुत्मतं गुरुत्मद्देवताकमस्त्रं समाददे॥
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहस्तः ।
रोधांसि नि[२]घ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८ ॥
तस्मिन्निति ॥ तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः संघट्टितास्तरंगा एव हस्ता यस्य स रोधांसि निघ्नन्पातयन् । अवपाते गजग्रहणगर्ते मग्नः पतितः॥ "अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना" इति यादवः ।। वन्यः करीव । परुषं घोरं ररास दध्वान ॥
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः॥७९॥
तस्मादिति ॥ मथ्यमानात्समुद्रादिव । उद्वृत्तक्राक्षुभितग्राहात्तस्माद्ह्रदात् । लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव । कन्यां पुरस्कृत्य भुजंगराजः कुमुदः सहसोन्ममज्ज ॥
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् ।
सौपर्णमस्त्रं प्रतिसंजहार प्रह्वेष्वनिर्बन्धरुषो हि हि सन्तः॥८०॥