सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८० )
रघुवंशे

  अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
  प्रवर्तयामास किलानुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥५१॥

 अत्रेति॥ अत्र वनेऽनुसूयात्रिपत्नी । सप्त च ते ऋषयश्च सप्तर्षयः ॥ “दिक्संख्ये संज्ञायाम्" इति तत्पुरुषसमासः ॥ तेषां हस्तैरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालां हरशिरःस्रजं त्रिस्रोतसं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास । किलेत्यैतिह्ये ॥

  वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः।
  निवातनि[]ष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥५२॥

 वीरेति ॥वीरासनैर्जयसाधनैः । ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः । तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति ॥वीरासने वसिष्ठः-"एकपादमथैकस्मिन्विन्यस्योररुणि संस्थितम् । इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्" इति ॥

  त्वया पुरस्तादुपयाचितो यः सोऽयं वटःश्याम इति प्र[]तीतः।
  राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति॥५३॥

 त्वयेति ॥ त्वया पुरस्तात्पूर्वं य उपयाचितः प्रार्थितः ॥ तथा च रामायणे -"न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष पालयेन्मे व्रतं पतिः' इति ॥श्याम इति प्रतीतः स वटोऽयं फलितः सन् । सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव । विभाति ॥ "क्वचित्-" इत्यादिभिश्चतुर्भिः श्लोकः प्रयागे गङ्गायमुनासंगमं वर्णयति

  कचित्प्रभालेपिभिरीन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा।
  अन्यत्र माला सितपङ्कजानामिन्दीवरैरु[]त्खचितान्तरेव ॥ ५४ ॥


 ५३-५४ श्लोकयोर्मध्य इमे श्लोका दृश्यन्ते-

    तमिस्रया शुक्लनिवेशभिन्ना कुन्दलगिम्दीवरमालयेव ।
    कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरोरेरिव कण्ठभासा ।।
    द-र्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा दिशेव ।
    गवाक्षकालागरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥
    तुषारसंघातशिला हिमाद्रेर्ज्यात्यञ्जनप्रस्तरशोभयेव ।
    पतत्रिणां मानसगोचराणां श्रेणीव कादम्बविहंगपङ्क्त्या।


  1. निष्कम्पितया.
  2. प्रकाशः.
  3. उद्ग्रन्थितान्तरा.