पात्रीकृतेति ॥ गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा ॥ “योग्यभाजनयोः पात्रम् इत्यमरः ॥ पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः । तत्सरूप इत्यर्थः ॥ आकृतिः कथिता रूपे सामान्यवपुषोरपि" इति विश्वः॥ पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्रः पुत्राख्यो राजा । यद्वा पुत्रशब्द आवर्तनीयः । पुत्रः पुत्राख्यः पुत्रः सुतः । तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् । अग्रगण्यं चकारेत्यर्थः॥
वंशेति ॥ स्पृश्यन्त इति स्पर्शा विषयाः । तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः। अतएव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन् । स्वर्गं जिगमिषुरित्यर्थः । स ब्रह्मिष्ठो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य त्रिषु पुष्करेषु तीर्थविशेषेषु ॥ “दिक्संख्ये संज्ञायाम्” इति समासः ॥ उपस्पृशन्स्नानं कुर्वंस्त्रिदशत्वं देवभूयमाप॥
तस्येति ॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ ॥ "पुष्ययुक्ता पौर्णमासी पौषी" इत्यमरः ॥ “नक्षत्रेण युक्तः कालः" इत्यण्प्रत्ययः । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत । द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनाः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा।
तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः॥३३
महीमिति ॥ महेच्छो महाशयः ॥ " महेच्छस्तु महाशयः" इत्यमरः ॥ जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा । शिष्यभूतः सन्नित्यर्थः । सयोगाद्योगिनस्तस्माज्जैमिनेर्योगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत । क्लृपे: संपद्यमाने चतुर्थी वक्तव्या ॥ मुक्त इत्यर्थः ।।