मरः॥ विक्रममभिनन्ध । ऋत्विजो याज्ञिकाः । वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ॥
तौ प्रणामचलकाकपक्षकौ भ्रातराव[१]वभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥
ताविति ॥ अवभृथे दीक्षान्त आप्नुतः स्नातो मुनिः॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः॥ प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशसंस्पृष्टवान् । संतोषादिति भावः।
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ३२॥
तमिति ॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् ॥ वशी स मुनिमिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं विभ्रतौ राघवावपि निनाय नीतवान् ॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥
तैरिति॥गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी॥पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः॥ अहल्येति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥
प्रत्यपद्यतेति॥ शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती यत् । स किल्बिषच्छिदां पापहारिणाम् ॥ "पापं किल्विषकल्मषम्" इत्यमरः॥रामपादरजसामनुग्रहः किल प्रसादः। किलेति श्रूयते ॥
राघवेति ॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम् । मूर्तिमन्तमित्यर्थः ॥ वाहिताग्न्यादित्वात्साधुः॥ धर्ममिव । सपर्ययाभ्यगात्प्रत्युद्गतवान् ॥