उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥
उन्मुख इति ॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्स- मुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुर्निमित्तसूचनमेतत् ॥ तदुक्तं शकुनार्णवे- “आसममृत्योनिकटे चरन्ति गृध्रादयो मूर्न्धि गृहोर्ध्वभागे" इति ॥ रक्षसां बलमपश्यत् ॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७॥
तत्रेति ॥ स रामस्तत्र रक्षसां वले यौ मखद्विषामधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् ॥ “वेध्यं लक्ष्यं शरव्यं च" इति हलायुधः॥ इतरानाकरोत्॥ तथाहि । महोरगविसर्पिविक्रमो गरुडो गरुत्मानराजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तत इत्यर्थः॥ “अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ" इत्यमरः॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ता[१]डकासुतम् ॥ २८ ॥
स इति ॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्दैवतं यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान् ॥कर्तरि लिट् ॥ तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम् । पाण्डुपत्रमिव । परिणतपर्णमिवतयर्थः । अपातयत्पातितवान् ।
य इति ॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार । क्षुरप्रैः शकलीकृतं खण्डीकृतं तं मुबाहुं कृती कुशलो रामः॥" कृती च कुशलः समौ" इत्यमरः॥आश्रमादहिः पत्रिणां पक्षिणाम् ॥ पत्रिणी शरपक्षिणी" इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रम वा[४]ग्यतस्य निरवर्तयन्कियाः॥३०॥
इतीति ॥ इत्यपास्तमखविनयोस्तयो राघवयोः । संयुगे रणे साधुः सांयुगीनस्तम्॥ “प्रतिजनादिभ्यः खञ" इति खञ्प्रत्ययः।। “सांयुगीनोरणे साधुः" इत्य-