सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २२८ )
रघुवंशे

  पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
  उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ १० ॥

 पूर्वेति ॥ वाहनोचितः सानुजो राघवः । पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव ॥ वहेर्धातोः कर्मणि शानच् ॥ “उह्यमानः” इत्यत्र दीर्घादिरपपाठः । दीर्घप्राप्त्यभावात् ॥ पादचारमपि न व्यभावयन्न ज्ञातवान् ॥

  तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
  वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥

 ताविति ॥ तौ राघवौ । कर्मभूतौ । सरांसि । कर्तॄणि । रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः । सुखयन्तीति सुखानि ॥ पचाद्यच् ॥ श्रुतीनां सुखानि । तैः कूजितैः । वायवः सुरभिपुष्परेणुभिः । जलदाश्छायया च । सिषेविर इति सर्वत्र संबध्यते ॥

  नाम्भसां क[]मलशोभिनां तथा शाखिनां च[] न परिश्रमच्छिदाम् ।
  दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥

 नेति ॥ तप एषामस्तीति तपस्विनः ॥ “तपःसहस्राभ्यां विनीनीः” इति विनिप्रत्ययः ॥ लघुनेष्टेन ॥ “त्रिष्विष्टेऽल्पे लघुः” इत्यमरः ॥ तयोरुभयोः । कर्मभूतयोः । दर्शनेन यथा प्रीतिमापुः । तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥

  स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
  विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥

 स्थाण्विति ॥ स आत्तकार्मुकः । दशरथस्यापत्यं पुमान्दाशरथी रामः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ स्थाणुर्हरः ॥ “स्थाणुः कोले हरे स्थिरे” इति विश्वः ॥ तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन ॥ “विग्रहः समरे काये” इति विश्वः ॥ प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः ॥ देहेन मदनसुन्दर इति भावः ॥

  तौ सकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
  निन्यतुः स्थ[]लनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥

 ताविति ॥ अत्र रामायणवचनम्--“अगस्त्यः परमः क्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूप-


  1. विकचपद्मशोभिनाम्।
  2. न च.
  3. स्थलनिवेशताटनी; स्थलनिवेशिताटिनी.