सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २२९ )
एकादशः सर्गः ।

मस्तु ते” इति । तदेतदाह-विदितशापयेति ॥ कौशिकादाख्यातुः ॥ “आख्यातोपयोगे” इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि ॥ “खिलमप्रहतं स्थानम्” इति हलायुधः ॥ तौ रामलक्ष्मणौ । स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ ॥ “कोटिरस्याटनिः” इत्यमरः ॥ लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये ॥ “ज्या मौर्वीमातृभूमिषु” इति विश्वः ॥ तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ ॥ नयतिर्द्विकर्मकः ॥

  ज्यानिनादम[]थ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
  ता[]डका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥

 ज्येति ॥ अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः । बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा ॥ “बहुलः कृष्णपक्षे च” इति विश्वः ॥ चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका । निबिडा सान्द्रा बलाकिनी बलाकावती ॥ "व्रीह्यादिभ्यश्च” इतीनिः ॥ कालिकेव घनावलीव ॥ “कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ” इति विश्वः ॥ प्रादुरास प्रादुर्बभूव ॥

  तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्व[]नोग्रया ।
  अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥

 तीव्रेति ॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवाः । तया प्रेतचीवरवसा ॥ वसतेराच्छादनार्थात्क्विप् ॥ स्वनेन सिंहनादेनोग्रया तया ताडकया । पितृकानने श्मशान उत्थोत्पन्ना ॥ “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः । तया वात्ययेव वातसमूहेनेव ॥ “पाशादिभ्यो यः” इति यः ॥ भरताग्रजो रामोऽभ्यभाव्यभिभूतः ॥ कर्मणि लुङ् ॥ तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥

  उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
  तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥

 उद्यतेति ॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् ॥ इणो धातोः शतरि “उगितश्च” इति ङीप् ॥ श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम् ॥ इति विशेषणद्वयेनाप्याततायित्वं सूचितम् ॥ अत एव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा ॥ “जुगुप्साकरुणे घृणे” इत्यमरः ॥ पत्रिणेषुणा सह ॥ “पत्री रोप इषुर्द्वयोः” इत्यमरः ॥ मुमोच मुक्तवान् ॥ आततायिवधे मनुः- “आततायिनमायान्तं हन्यादेवाविचारयन् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् । नाततायिवधे दोषो हन्तुर्भवति कश्चन” इति ॥


  1. अनुगृह्णती.
  2. ताटका.
  3. उग्रगन्धया.