अनयदिति॥ एकोऽन्यतरः । अज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्ष्णिग्राहादीन्प्रभुशक्तिसंपदा
कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्॥
"कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता" इति मिताक्षरायाम् ॥ अपरो रघुः
प्रणिधानयोग्यया समाध्यभ्यासेन ॥ "योगाभ्यासार्कयोषितोः” इति विश्वः॥
शरीरगोचरान्देहाश्रयान्पञ्च मरुतः प्राणादीन्वशमनयत् ॥ "प्राणोऽपानः समान
श्चोदानव्यानौ च वायवः । शरीरस्थाः" इत्यमरः ॥
अकरोदिति ॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत्कार्स्न्येन भस्मीकृतवान् ॥ “विभाषा साति कार्त्स्न्यै" इति सातिप्रत्ययः । इतरो रघुर्ज्ञानमयेन तत्त्वज्ञानप्रचुरेण वह्निना पावकेन । करणेन । स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धुं प्रवृत्त इत्यर्थः।। "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति गीतावचनात् ।।
पणबन्धमुखान्गुणानजः षडुपायुङ्क समीक्ष्य तत्फलम् ।
रघुरप्य[३]जयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ २१ ॥
पणबन्धेति ॥ “पणबन्धः संधिः" इति कौटिल्यः ॥ अजः पणबन्धमुखान्संध्यादीन्षड्गुणान् ॥ “संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः" इत्यम्मरः।। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्योपायुङ्क्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः ॥ "प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम् ॥ समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः । निःस्पृह इत्यर्थः ॥ "लोष्टानि लेष्टवः पुंसि" इत्यमरः ॥ रघुरपि गुणत्रयं सत्त्वादिकम् ॥ “गुणाः सत्त्वं रजस्तमः" इत्यमरः ॥ प्रकृती साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाजयत् ॥
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः।
न च योगविधेर्नवेतरः स्थिरधीरा प[४]रमात्मदर्शनात् ॥ २२ ॥
नेति ॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात्फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः ॥ "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इत्यपादानात्पञ्चमी ॥ "व्याङ्परिभ्यो रमः" इति परस्मैपदम् ॥ स्थिरधीर्निश्चलचित्तो
रघुश्चानवेतरोपरमात्मदर्शनात्परमात्मसाक्षात्कारपर्यन्वं योगविधेरैक्यानुसंधानान्न विरराम ॥