प्रशमस्थितपू[१]र्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥१५॥
प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् । अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनास्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह पाप ॥ न च नभसा तुलामित्यत्र "तुल्यार्थैः-" इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचितुलाशब्दविषयत्वात् । “कृष्णस्य तुला नास्ति' इति प्रयोगात् । अस्य च सादृश्यवाचित्वात् ।।
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अ[२]पवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ।। १६ ।।
यतीति ॥ यतिर्भिक्षुः। पार्थिवो राजा । तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्ययोर्मोक्षाभ्युदयफलयोधर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः । भुवं गतौ भूलोकमवतीर्णावंशाविव । जनैर्ददृशाते दृष्टौ ॥
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः।
अ[३]नपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ १७॥
अजितेति॥अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः। रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनचाप्ताः। तैर्योगिभिः समियाय संगतः। उभयत्राप्युपायचिन्तार्थमिति शेषः॥
नृपतिः प्रकृतीवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८॥
नृपतिरिति ॥ युवा नृपतिरजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः॥ व्यवहारासनं धर्मासनमाददे स्वीचकार ।प्रवयाः स्थविरो नृपती रघुस्तु ॥ "प्रवयाः स्थविरो वृद्धः" इत्यमरः ॥धारणां चित्तस्यैकाग्रतां परिचतुमभ्यसितुमुपांशु विजने ॥ “उपांशु विजने प्रोक्तम्" इति हलायुधः॥ कुशैः पूतं विष्टरमासनमाददे ॥ “यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः" इति वसिष्ठः ॥
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १९॥
१९-२० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः ।।