"हृदयं वक्षसि स्वान्ते" इत्यमरः ॥ निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्मदेशे विषमप्यमृतं भवेत्कचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः॥
अथवेति ॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययादेषः । स्रगित्यर्थः ॥ विधेयप्राधान्यात्पुंलिङ्गनिर्देशः॥ वेधसा विधात्राशनिर्वैद्युतोऽग्निः कल्पितः ॥ “दम्भो- लिरशनियोः" इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः खयमेव न पातितः। किंतु तस्य तरोविंटपाश्रिता लता वल्ली क्षपिता नाशिता॥
कृतवत्यसि नावधीरणाम[६]पराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥१८॥
कृतवतीति ॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि ॥ राधेः कतरि क्तः॥ यदा यस्माद्धेतोः-यदेति हेत्वर्थः । “स्वरादौ पठ्यते यदेति हेतौ" इति गणव्याख्यानात् ॥ अवधारणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे ॥ " स्यात्तत्क्षण एकपदम्" इति विश्वः ॥ निरागसं नितरामनपराधमिमं जनम् । इममिति स्वात्मनिर्देशः । मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि ॥
ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यद[७]नापृच्छ्य गतासि मामितः॥१९॥
ध्रुवमिति ॥ हे शुचिस्मिते धवलहसिते, शठो गूढविपियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि ॥ “मतिबुद्धि-" इत्यादिना कर्तरि क्तः । क्तस्य च वर्तमाने" इति कर्तरि षष्ठी ॥कुतः । यद्यस्मान्मामनापृच्छयानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलात्मि[८]कृतेन वेदनाम् ॥ ५० ॥
दयितामिति ॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि । अन्वगादेव ॥ यद्यत्रावधारणे ॥ पूर्व मूर्छितत्वादिति
भावः ॥ तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रयागतम् । प्रत्यागमनं