माह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः । तं प्रजह्रुरित्यर्थः ॥
सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी ॥ तदुक्तम् "अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः । सर्वदा सर्वथाभावात्क्वचिकिंचिद्विवक्ष्यते"
इति ॥
स इति ॥ परेषां द्विषामस्त्रव्रजैश्छन्नरथः सोऽजः । नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकालः किंचित्प्रकाशेनेपलक्ष्येण विवस्वतेव । ध्वजाग्रामात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ॥
प्रियंवदात्प्राप्तम[३]सौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्नानिवृत्तलौल्यः॥६१॥
प्रियंवदादिति ॥ अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः । जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम् ॥ “सास्य देवता" इत्यण् ॥ प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ।
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२॥
तत इति ॥ ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम् । एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत् । नरदेवानां राज्ञां सेनैव सैन्यम् ॥ चातुर्वर्णादित्वात्स्वार्थे ष्यञ्प्रत्ययः ॥ निद्राविधेयं निद्रापरतन्त्रं तस्थौ ।
तत इति॥ ततः कुमारोजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये । अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङ्खं निवेश्य ॥ “जलजं शङ्खपद्मयोः" इति विश्वः ॥ दध्मौ मुखमारुतेनं पूरयामास । तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स
स्वहस्तार्जितं मूर्तं मूर्तिंमद्यशः पिबन्निवाबभासे ॥ यशसः शुभ्रत्वादिति भावः ॥