पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १० )
रघुवंशे

विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः ॥ नाथस्तु चतुर्विधं वृद्धत्वमिति ज्ञात्वा "अनाकृष्टस्य" इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥

  प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
  स पिता पितरस्तासां केवलं जन्महेतवः ॥२४॥

 प्रजानामिति ॥ प्रजायन्त इति प्रजा जनाः॥ “उपसर्गे च संज्ञायाम्" इति डप्रत्ययः ॥ “प्रजा स्यात्संततौ जने" इत्यमरः ॥ तासां विनयस्य शिक्षाया आधानात्करणात् । सन्मार्गप्रवर्तनादिति यावत् । रक्षणाद्भयहेतुभ्यस्त्राणात् । आपन्निवारणादिति यावत् । भरणादन्नपानादिभिः पोषणादपि ॥ अपिः समुच्चये ॥ स राजा पिताभूत् ॥ तासां पितरस्तु जन्महेतवो जन्ममात्रकर्तारः केवलमुत्पादका एवाभूवन् । जननमात्र एव पितॄणां व्यापारः । सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः ॥ आहुश्च–“स पिता यस्तु पोषकः" इति ॥

  स्थित्यै द[१]ण्डयतो द[२]ण्ड्यान्परिणेतुः प्रसूतये ।
  अप्यर्थकामौ तस्यास्तां ध[३]र्म एव मनीषिणः ॥२५॥

 स्थित्या इति ॥ दण्डमर्हन्तीति दण्डयाः ॥ “दण्डादिभ्यो यः" इति यप्रययः ॥ अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति" इति शास्त्रवचनात् ॥ तान्दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः ॥ प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः । मनीषिणो विदुषः । दोषज्ञस्येति यावत् ॥ “विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी' इत्यमरः ॥ तस्य दिलीपस्यार्थकामावपि धर्म एवास्तां जातौ ॥ अस्तेर्लङ् ॥ अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः ॥ आह च गौतमः- “न पूर्वाह्नमध्यंदिनापराह्नानफलान्कुर्यात् । यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात्" इति ॥

  दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
  संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥२६॥

 दुदोहेति ॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह । करग्रहणेन रिक्तां चकारेत्यर्थः ॥ मघवा देवेन्द्रः सस्याय सस्यं वर्षयितुं दिवं स्वर्गं दुदोह । द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः ॥ "क्रियार्थोपपदस्य-" इत्यादिना यज्ञसस्याभ्यां च


  1. प्रणयत:.
  2. दण्डम्.
  3. धर्माय.