पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ

मेघदूत-महाकाव्यम्

संजीविन्या समेतम्

पूर्वमेघः ।

मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥

अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥

इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥

 "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति--

 कश्चित्कान्ताविरहगुरुणा स्वा[१]धिकारात्प्रमत्तः
  शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
 यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
  स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥


१. स्वामिसेवाऽपराधात्तेन यावद्वर्षं शप्तः प्रियाविरही कश्चिद्यक्षश्चित्रकूटाश्रमेषु वसन्नासीदिति भावः ।


  1. स्वाधिकारप्रमत्तः ।