आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥१२॥
आपृच्छस्वेति ॥ प्रियं सखायं प्रियसखम् ॥ "राजाहः सखिभ्यष्टच्" इति टक् समासान्तः ॥ तुङ्गमुन्नतं पुसां वन्द्यैर्नराराधनीयै रघुपतिपदै रामपादान्वासैर्मेखलासु कटकेषु ॥ अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेभवन्धने" इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं सखित्वान्महत्त्वात्पवित्रत्वाच्च सम्भावनार्हम् । अमुं शैलं चित्रकूटाद्रिमालिङ्ग्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ "आमन्त्रणसभाजने । आप्रच्छन्नम्” इत्यमरः ॥ "आङि नुप्रच्छचोरुपसंख्यानम्" इत्यात्मनेपदम् ॥ सखित्वं निर्वाहयति-काल इति ॥ काले काले प्रतिप्रावृटकामम् । सुहृत्समागमकालश्च कालशब्देनोच्यते । वीप्सायां द्विरुक्तिः । भवतः संयोगं संपर्कमेत्य चिरविरहजमुष्णं बाप्पमूष्माणं नेत्रजलं च ॥ "बाप्पो नेत्रजलोष्मणोः” इति विश्वः ॥ मुञ्चतो यस्य शैलस्य स्नेहव्यक्तिःप्रेमाविर्भावो भवति । स्निग्धानां हि चिरविरहसंगतानां वाष्पपातो भवतीति भाव. ॥
संप्रति तस्य मार्गं कथयति-
मार्गमिति ॥ हे जलद ! तावदिदानीं कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ "मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेपणेऽध्वनि" इति यादवः ॥ शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्रा-
(१२) हे मेघ ! यात्राकाले मित्रभूतं चित्रकूटगिरिं गच्छामीति ब्रूहीति भाव ।
(१३) वे मेघ ! येन पथा गमिष्यसि ! तंमनुकूलं पन्थानमादावाकर्ण्य ततः। सन्देशमाकर्णयेति भावः ।