द्रक्ष्यसि चालोकयिष्यस एव ॥ तथा हि। आशाऽतितृष्णा "आशादिगतितृष्णयोः” इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तम् । अत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् । "हृदयं जीविते चित्ते वक्षस्याकूतहृद्ययोः" इति शब्दार्णवे । प्रायशः प्रायेण । रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥
सम्प्रति सहायसम्पत्तिश्चास्तीत्याह-
कर्तुं यच्च प्रभवति महीमुच्छि[१]लीन्ध्रामवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आकैलासाद्विसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
कर्तुमिति ॥ यद्गजितं कर्तृ महीमुच्छिलीन्ध्रामुद्भूतकन्दलिकाम् ॥ "कन्दल्यां च शिलीन्ध्रा स्यात्" इति शब्दार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वादिति भावः। तदुक्तं निमित्तनिदाने “कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्नसस्यां कथयन्ति धात्रीम्" इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मानसे सरस्युन्मनसः । उत्सुका इति यावन् ॥ “उत्क उन्मनाः” इति निपातात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् । "पथ्यतिथिवसतिस्वपतेर्ढञ्” । तद्वन्तः । मृणालकन्दशकलसम्बन्धवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ “राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ नभसि व्योम्नि भवतस्तव आ कैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः ॥ "सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे ॥ सम्पत्स्यन्ते भविष्यन्ति ॥
(११) हे मेघ ! मत्सन्देशमादाय गच्छतस्तव गर्जितमाकर्ण्य मानसं गच्छन्तो राजहंसा: सहगामिनो भविष्यन्तीति भावः ।
- ↑ उच्छिलीन्ध्रातपत्राम् ।