अभिज्ञानशाकुन्तलम् (सटीका)/सप्तमोऽङ्कः
← षष्ठोऽङ्कः | अभिज्ञानशाकुन्तलम् (सटीका) सप्तमोऽङ्कः कालिदासः |
सप्तमोऽङ्कः।
( ततः प्रविशत्याकाशयानेन रथाधिरूले राजा मातलिश्च )
- राजा- -मातले, अनुष्ठितानिदेशोऽपि मघवतः सन्तियामिशै दनुपयुक्तमिवात्मानं समर्थये ।
इन निबर्हणसंधिः समाप्ति यावत् । तय्क्षणं यथा सुधाकरे-‘मुख- संध्यादयो छ विकीर्ण बीजसंयुताः महा ( यदा ) प्रयोजनं यान्ति तन्निर्वहणमुच्यते।' इति । कार्यफलप्रयोगेनास्य संधिवम् । तक्षणं मातृ गुप्तचायैरुक्तम्--‘ यदाधिकरिकं वस्तु सम्यक्प्राज्ञः प्रयुज्यते । तथै यः समारम्भस्तस्कार्यं कथ्यते ? इति । अभिप्रेतं समर्थं च प्रतिरूपं क्रियाफलम् । इतिवृत्तं भवेद्यास्मन्फलयोगः स उच्यते ! ? इति । अङ्गानेि तु--* संधिर्निबोधो ग्रंथनं निर्णयः परिभाषणम् । प्रसादानन्द समयाः कृतिर्भावोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश । । इति । एतेषां लक्षणाने व्याख्यानावसरे तत्र तत्र वक्ष्यामः । अत्र दान वयुद्धे युद्धवेन साक्षान्निषिद्धमेत्यंके नैव सूचितम् ! प्रकृते प्रयोजना भावान्यद्वारा वाचिकाभिनयेनापि नोक्तम् अनङ्गस्याभिधानमित रसदोषापत्तेः । अतः कृतकार्ययोः सूतरथिनोरेव प्रवेशः । तसंबादेनैव कार्यमुन्नेयम् । आकाशयानेनेत्यनेन मरीच्याश्रमगमनं ध्वनितम् । अनुष्ठितनिदेशः कृताज्ञः । मघवत इन्द्रस्येति मध्यमस्थमुभयत्राप्यन्वेति ।
विरिदानीं कथासंघट्नार्थसंकास्यं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रीशतीत्या दिना । तदुक्तं ‘‘ अंकान्तपात्रेरंस्यमुत्तरकाणैसूचना । २५ यत्र पूर्वोका- न्तपनैरुत्तरकार्थः मूच्यते तदंकास्यमिति । यथा घटांकावसाने मातलिः शूयतामित्यादिन एतदंतेन षष्ठांकावसनास्थतपात्राभ्यां राजमातलिभ्यां सप्तमां कादौ प्रवेशः कृतः । अंकावसन एवोत्तरांकाद्यर्थसूचनमपि कृतम् । आयुष्मन् प्रीयता मध्यादिना । नाटके यदि दूरदेशगमनं प्रस्तुतं तदा पूर्वोके विच्छिद्य गत्वा उत्तरांक प्रदेशे तत्कार्यं निर्दिशेत् । तथा मातलिना कालनेमिप्रभूतदुर्जयप्रमुखदानवगणं जंतु दुष्यन्तस्याह्ने प्रियाविरहविझलमानसं दुष्यन्तं कार्यान्तरविक्षिप्तचिरं कर्तुं विदूषकं प्रक्षोभ्य सौघतलं राजनभानीय तत्र राज्ञे शक्रेणाज्ञप्तं कायै निवेद्य अंकावसाने दुष्यन्तः शक्रसमीपं नीतः । सप्तमांकावै प्रकृतकार्यसिद्धिश्चोक्ता । अनुष्ठित- निदेशोऽपीत्यादिना । अनुष्ठितनिदेशोऽपि कृतशासनोऽपि नियोज्यपुरुषेऽपीतेि यावत् ।
- मातलिः--( सस्मितम् ) आयुष्मन्, उभयमप्यपरितोषं समर्थये ।
- प्रथमोपकृतं मरुत्वतः प्रतिपया लधु मन्यते भवान् ।
- गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥११॥ ॥
सक्रियाविशेषात्सम्मानाधिक्यात् । अनुपयुक्तमिवोपयोगरहितमित्रार्थ दिन्द्रं प्रते । यन्मया। कार्यं कृतं तदिन्द्रसंमाननायाः सहस्रांशाभिति ( शेनापि ) तुलयितुं न क्षममिति सूक्ष्मालंकारः । एतेनेन्द्रस्य प्रत्युप कारश्रुत्यं विनययुक्तत्वं गुणग्राहित्वं चात्मनस्तु परमशौर्यशालित्व- मिन्द्रेण तथापूजितस्वादयन्तसौभाग्यास्पदत्वं च व्यज्यते । उभयं भवदु पकृतमेिन्द्रसत्कृतं च । त्वं स्वात्मोपकृतमेव तथा समर्थयसे । अहं पुनरुभयमपि न विद्यते परितोषो यत्रथंकनस्तदपरितोषं समर्थये । इन्द्रस्तु त्वत्कमधिकं मन्यते, त्वं त्विन्द्रकृतां पूजामधिकां मन्यस इति भावः । तदेव दर्शयाते--प्रथमेति । भवान्मरुत्वत इन्द्रस्य प्रतिपत्त्या गैर वेण पश्चात्कृतेन प्रथममुपकृतं लघु स्वल्पं मन्यते । भवतोऽवदानेन शुद्ध कर्मणा विस्मितः । ‘अवदानं शुद्धकर्म' इत्यमरः । सऽपीन्द्रः सक्रिय स्वकृतसंमानना तस्यां गुणानादरातिशयादींनथवा तया गुणान्स्वारेम न्विनयाजवादीन्न गणयति । तव कर्म स्मृत्वा मया तस्य संमा नना कृतेते चैतस्यापि तस्य नायातत्यर्थः । बहुवचनेन संमाननाधिक्यै ध्वन्यते । क्रिया चेकथं गुणा इते विरोधाभासे व्यङ्गयः शब्दशक्ति मूः । स्ववदानस्मरणेनाभंव्यक्तावस्मयस्ते विगलितवेद्यतरत्वेन किमपि न स्मरतीति भावः । तेन “ उदात्तवस्तुना संपत् इत्युदात्तालंकारः । हेतुश्चास्यनुप्रासौ । उपमेयोपमा व्यङ्गया । परस्परं क्रियाजननादन्योन्य मापि । अत्र साक्रियालक्षणे कारणे सत्यपि यद्णनळ्क्षणकार्यानुत्पात्तः सा वेशेषोक्तिः। अथ च गणनाभावलक्षणकार्योत्पत्तौ कारणाभावाद्वि
भगवतो देवेन्द्रस्य उभयोरप्यपरितपः । भवानिन्दश्चोभावप्यन्योन्यमपारितुष्यै । प्रथमोपकृतमेत्यादि । प्रथमपकृतं राक्षसजयरूपं पूर्वोपकारम् । मरुत्वतः प्रति. पस्या देवेन्द्रविषयकभया लघु अथरुपम् । सोऽपि देवेन्द्रोऽपि । भवतः अपदान विस्मितः कृतपौरुषविस्मितः। सत्क्रियागुणान् संभावनाविशेषान् न गणयति प्रत्युपकारं न विचारयति वर्तमानध्यपदेशेन देवेन्द्रस्वद्यपि सानुशय एव तिष्ठतीति व्यज्यते ।
१ उभयोः इति क० पु• पाठः । २ अपदान इति क० पु• पाठः ।
- राजा--मातले, मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः ।
मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य
- अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन ।
- आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ २ ॥
- मातलिः--किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
भावनापि । यद्यपि कारणाभावो नोक्तस्तथापि तद्विरुद्धमुखेनोक्त एवेति संदेहसंकरः । अवदानविस्मितत्वेनोक्तनिमित्तत्वमुभयत्र । वैतालीयं वृत्तम् । अन्ये त्वधर्म ( त्वर्ध ) समं(?) प्रबोधितां मन्यन्ते । मनोरथातिभूमित्वमेव दर्शयति--मम हीति । मम मनुष्यमात्रस्य । दिवौकसो देवस्य न, अपि तु सकलदिवौकसां देवानाम् । श्रूयमणतया न, अपि तु समक्षं प्रत्यक्षम् । आसनमात्रे न अपि तु स्वार्धासने । निविष्टस्थ न, अपि तु निवेशितस्येत्यस्य श्लोकनान्वयः । अन्तरिति । अन्तर्गता हृद्गता प्रार्थना मन्दारमालाविषयिणी याच्ञा यस्य स तम् । न दूरस्थम्, अपि त्वन्तिकस्थं समीपस्थम् । 'उपकप्ठान्तिकाभ्यर्णाभ्यग्रा' इत्यमरः । जयन्तं पुत्रमुदधिकं वीक्ष्य दृष्ट्वा कृतस्मितेनेति तस्य मनोगतां याच्ञां ज्ञात्वेति सूक्ष्मं जयन्तादप्यात्मनोऽधिकस्नेहपात्रता ध्यन्यते । हरिणेन्द्रेणामृष्टं स्पृष्टं यद्वक्षोहरिचन्दनं हृदयानुलेपः सोऽङ्कश्चिह्नमस्याः सा । अत्राङ्गपदोपादानेन मालायास्तत्कालधारणं तस्यास्तत्कालकृतं चन्दनानुलेपत्वं च व्यज्यते । तेन तत्कण्ठयोग्यत्वाम्लानत्वात्यन्तसुरभित्वमनोहरत्वादिकं ध्वन्यते । मन्दारपुष्पाणां माला मम पिनद्धा मुक्ता स्वयं परिधापिता न तु दत्ता । गौरवस्याधिक्यादुदात्तम् । न्तन्तेति न्दन्देति छेकवृत्त्यनुप्रासौ । द्वितीयोपजातिरिन्द्रवज्रोपेन्द्रवज्रयोः । मातालिः-- अस्यल्पमिदमुच्यते । भवानमरेश्वरादिति मनोरथातीतवस्तुदानेऽपि सामर्थ्यं ध्वनितम् । किमिव नार्हति । यदतिप्रियमतिरम्यमत्युत्कृष्टं जीवितायमानमपि तदप्यर्हत्यन्यदर्हतीति किं वक्तव्यमिति भावः ।
स खल्वित्यादि । खलु यतः विसर्जनावसरसत्कारः सः मनोरथानामप्यभूमिरविषयः । सत्कारप्रकारमाह मम हीत्यादि । अन्तर्गतेति । आमृष्टवक्षोहरिचन्दनांकेत्यनेन दित्सात्वरा व्यज्यते । हरिणा देवेन्द्रेण । मंदारमाला पिनद्धेत्यनेन देवेन्द्रातिशायिसकलैश्वर्यवत्तया स्वस्य भूलोकविलक्षणमन्दारमालामात्रं लभ्यांशस्त्वन्यत्प्राप्यवस्तु
- सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
- तब शरैरधुना नतपर्वमिः पुरुषकेसारिणश्च पुरा नखैः ॥ ३ ॥
सुखेति । सुखपरस्य सुखे परः सुखपरस्तस्य । यद्वा सुखमेव परं यस्यातिसुखिनः इति विधेयम् । हरेरिन्द्रस्योभयैखिद्विं स्वर्गः । दानवाः कण्टका इव दानवकण्टकाः । उद्वता दानवकण्टका यत्र तत्कृतम् । अत्रोद्धतपदेन तेषां समूलनाशादत्यन्ताभावो ध्यन्यते । दुःखप्रभं साधम्यै गम्यम् । अनया वानयोः पुरस्तेषां जडतरत्वं ध्वन्यते उद्धृतदानवकप्टकरवात्सुखपरत्वस्य विधेयत्वे वक्तव्ये यत्तस्यार्थं विधेयत्वमुक्तं तदस्य प्राधान्यं द्योतयितुम् । काव्यलिङ्गं व्यङ्गयम् । यथा कश्चिन्मार्गमुद्रेत कण्टकं करोतयुक्तलेशः । एतेन क्लेशाभावो ध्वनितः। अथ च सुखपरस्य सिंहीविलासललसस्य हरेः सिंहस्य त्रिदिवभिच त्रिदिवं स्थानम् । यद्वा त्रिदिवं सुखं विद्यते यत्र तत् । अर्शआदित्वाच् । ‘त्रिदिवं सुखे । स्वर्गे च त्रिदिवा ( वं ) नद्याभ्’ इति हैमः । एतादृशं स्थानं मदोदकं वाति प्राप्नुवन्ति (१)। दोषोपन्यासः । कैरुभयैरित्यत आह--तवेति । अधुना नतानि पर्वाणि येषां ते नतपर्वणस्तैः । पर्वणां नतत्वं ग्रन्थिस्थरौ तद्क्षणात् । एतेन सरलवं शीघ्रगत्वं मनोहरवं च व्यनितम् । तव परमरस्य विख्यातपौरुषस्य शरैर्नान्यस्येति संबन्धस्य व्यञ्जकत्वं बोद्धव्यम् । पुरा पूर्वं च पुरुषकेसारिणो नृसिंहस्य पर्वणः सकाशात् । नतमिति भावे क्तः । नतं पर्वणो येषां (?) तैनैखेश्च । इन्द्रं प्रत्युभयस्याप्राकराणिकत्वेन नतपर्वत्वसाम्यातुल्ययोगिता । तेन नखैः शराणां नृसिंहपदेन चापस्य राज्ञ औपम्यं ध्वनितम् । उथमानुप्रासौ । ननु दानवा एवं कण्टका इति रूपकं संदेहसंकरो वास्तु कथमुपमेति चेदुच्यते । उदृतपदस्य दानवकण्टकयोः साधारष्यान्न रूपकसाधकत्वम् । किंच रूपके कष्टकानां प्राधान्यावृहदुिष्यन्तयोरनुकर्षापातात् । उपमायां तु दानवानामेव प्राधान्यातद्वाकर्षसिद्धेः । अत एव न संकरोऽपि ।
नास्तीति सूच्यते । सुखपरस्येयादे । हरेर्देवेन्द्रस्य पुरुषकेसरिणो नृसिंहस्य थधा शरेण नखेनानायासेन कंटकौद्धरणं क्रियते तद्वत्वयापि दुर्जनदानवगणविजयः छत इति यावत् । नतपर्तृभिः नतान्यनुन्नतानेि खपार्नेति यावत् पर्वाणि ग्रंथयों एषां ते तथोकः तैः । शराणां ग्रंथयो नतश्चेत् न रुजुत्वं भवतीत्यर्थः । नखानां पक्षे नतनि मग्नानि हिरण्यकशिपौरुद्र इति शेषः । पर्वाणि अंगुलिप्रन्थग्रो एषां ते तथोकाः । तैर्नखें: राजा-अत्र खलु शतक्रतोरेव महिम स्तुत्यः ।
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः |
उपमाकरणप्रयोजनं पूर्वमेवोक्तमिति हीनोपमापि नःशङ्कनीया । द्रुतविलम्बितं वृत्तम् । सिध्यन्तीति । महत्स्वपि कर्मसु कार्येषु नियोज्या सेवका यसिध्यन्ति कार्यनिष्पादका भवन्ति । ईश्वराणां प्रभूणां यत्संभावना गौरवं तस्य गुणं तमवेहि जानीहि । प्रभुमहत्वेनैव तत्कार्यसिद्धः । सेवकगुणः कोऽपि नास्तीति भावः । “ संभावन वासनाय गौरवै ध्यानकर्मणि " इत्यजयः। अत्रेन्द्र आत्मनि च विशेषे प्रस्नुतेऽप्रस्तुतप्रभुभृत्यवचनादप्रस्तुतप्रशंसा । अनया च स्वस्य भृत्यत्वं तस्य प्रभुत्व च सूचयन्त्या विनयातिशयद्योतनादुदात्तालंकारो व्यज्यते । अरुणस्तमसां भेत्तान्धकारनाशकः किंवा कथमभविष्यत् । चेद्यदि सहस्रकिरणो रविर्युर्यग्रे नाकरिष्यदिति क्रियातिपातः । दृष्टान्तालंकारः अनुग्नासश्च । किवेति निपातसमुदायः कथमर्थे । वसन्ततिलकं वृत्तम् ।
सिध्यतीत्यपदि। । योज्याः प्रेप्यजनाः । बहुवचनेन न वहनेक एव किंतु भत्सदृश हवो देवेन्द्रस्य नियोज्याः संतोति स्वगर्वपरिहारः सूच्यते । महर्षि प्रभूणामपि कथंचत्साध्येष्वपि न तु नियोज्यजनसाधनीयेथिति यावत् । कर्मसु स्त्रदुर्दशानिस्तारकंकृत्येषु सिध्यंति फलंति अनायासेन साधका भवन्तीत्यर्थः । वर्तमानव्यपदेशेन ईश्वराण दृष्टिपथ एव न तु परोक्ष इति व्यज्यते । संभायनागुणं बहुमानविशेषमवेहि । अत्र दृष्टान्तमाह -सहस्रकिरणः स्वयमन्धकारनाशकरणसमर्थः सूत्रैः नमणमनोखें धुरि अग्रे नाकरिप्यनि चेत् नायोजयिष्यति चैत् । क्रियातिपत्तौ दृङ् । त्रिाभविष्यत् किमजनिष्यत वेश्याक्षेपप्रश्ने । सूर्यनारुणस्य धुर्यवस्थापनमेवारुणस्य तमोनिवर्तकत्वे निमित्तम् । सूर्येणारुणो धुरि न स्थापितोत्तमो निहन्तुमसमर्थं इति क्रियातिपतिः । सुखपरस्येत्यादि । पूर्वश्लोकेन मातलिना राक्षसविजयनिमित्तेन दृश्यन्ते स्तुते राज्ञ देवेन्द्रस्येदं सामर्थ्थ्मिति स्वात्मघा न कुनेत्यविकथनत्वरूपधरोदात्तत्वं व्यज्यते नदुक्तं " गंभीरो विनयेपेतः कृपा वा न विकत्थनः । धीरोदात्ताः स विज्ञेयो नायकेषु गुणान्वितः ॥’ इति । अत्र प्रियवचनं नानालंकारः तदुक्तं ‘‘ यप्रसन्न मनसा पूज्यं पूजयितुं वचः । इग्नप्रकाशनाथे तु स प्रियोक्तिरुदह्ना ॥’’ इति अत्र सिद्यम्तीत्यादौ पूज्यमिन्द्रं पूजयितुं स्वस्य सन्तोपं ख्व्यापयितुं
- मातलिः--सदृशमेवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन्,
इतः पश्य नाकषृष्ठप्रतिष्टित्स्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेधैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ?
विचिन्त्य गीतक्षममर्थजातां दिवैकसत्वच्चरितं लिखान्ति ॥ ५ ॥
सदृशमेवेतत् । तवेत्यर्थः । तेनैतादृशमेव वक्तुमुचितमिति भावः । स्तोकमल्पमन्तरमवकाशमतीत्यातेऋभ्येति कविवचनम् । मातालिः पुनस्तस्यैव स्तुतिं विवक्षन्नाह--आयुष्मन्निति । नाकपृष्ठे स्वर्गतले प्रतिष्ठितस्य सर्वदा स्थिरत्वेन प्रतिष्ठां प्राप्तस्य । विच्छित्तीति । सुरसुन्दरीणां न तु सुरयोषितां विच्छितिषेरङ्गरागावशेषैर्यक्षकर्दमादिभिः । “ विच्छित्तिरङ्गरागेऽपि हरविच्छेदयोरपि ’ इति विश्वः । तैः स्वहस्तेन तासामङ्गरागं कृत्वापशेषितैरित्यनेन बच्चरितानामातप्रियत्वमासूचितम् । वर्णैवर्णकैः सितपीतादिभिरमी दिवौकसः कल्पलतांशुकेषु कल्पवल्लीवस्त्रेषु । एतेनैतदेवाधिकरणं तालेखनयोग्यमिति ध्वन्यते ! त्वच्चरितं त्वदवदानं लिखन्ति
न मातलिं प्रति दुष्यन्तस्योक्तिः । विच्छित्तिशेत्तिषैरित्यादि । सुरसुंदरीणां विच्छितिशेधे. विच्छित्तेरखशिरैः वर्णः कुंकुमकस्तूरिकादिवर्णकैः । विच्छित्तिर्नाम लेखनादिन अनादरेण स्तोकादनम् । उक्तं च “ स्वल्पोऽप्यनादरायासः कुंकुमादेः स्त्रमंडने । या परां जनचेच्छुभां सा विच्छितिरुदाहृता ।। ’ इति । अमा ये दुर्जयदानवगणाभिभूतास्ते अमी इति यावत् । दिवैकसः मनुष्येभ्योऽधिक़ः । कन्तदर्शिनः दिव्या इति यावत् । अर्थवन्धम् अथै राक्षसविजयादिकथा वध्यतेऽनेनेत्यर्थंबन्धः पदं तं गातिक्षमं गानयोग्यं सुकुमारमित्यर्थः । गैतिः ” शिशुर्जेत पशुवैति वेत्ति गीतिस्खरं फणी । ” इति न्यायेन सकलजन्तु श्राव्यशुद्धादिपंचविक्रिया । यदाह " गोपीपतिरनंतेऽपि वंशध्वनिवशं गतः । सामगीतिरसो ब्रह्म वणासका सरस्वती । किमन्ये यक्षगन्धर्वदेनदानवपत्रगाः । वनेयस्तृणाहारो वालः पयंकिकातले । रुदन्गीतामृतं पीत्वा हषोत्कर्ष प्रपद्यते । ब्रह्मानंदरसादेतदधिकं सप्रचक्षते ॥" इति । त्वच्चरितं तव युद्धवीरभूलकेन्द्रमनुष्यस्य तत्रैकाकितया ध्रिप्रविजयकारित्वाद्यपदानमिति यावत् । एकवचनेन चरितस्यानन्यविषयतया अद्वितीयत्वं ध्योत्यते । कल्पलतांशुकेषु स्वर्गसद्भावाविना भूतकल्पलतानामङीषु पृष्टपु । अनेन कीर्तेश्वरस्थायित्वं व्यज्यते । यद्वा स्वर्गवासिनां स्त्रीपुंसां विविधमाल्याभरणवन्नांगलेपपुष्पापचयनावतंसविहरणवसप्रदानसमर्थंकल्पलताना
१ संचिंत्य गीतिक्षममर्थयंधं इति झ० पु० पाठः ।
- राजा- - मातले, असुरसंप्रहारोत्मुकेन पूर्वेद्युर्दिवमधशेद्दना न
लक्षितः स्वर्गमार्गः। कैतरस्मिन्मरुतां पथि वर्तामहे ।
चरितस्यालेखनासंभवादाह गीतक्षमं गतुं योग्यमर्थजातमर्थसमूहं विचिंन्य विचार्य त्वदीयचरिताने गीतनियद्वनि कुत्वा लिखन्तीत्यर्थः । क्वचित् ’ अर्थतत्त्वम् ’ इति पाठः । एवं विष्टिकर्तुबिशिष्टक्ररणविीष्टाधिकरणानिर्देषेन चरितलेखनस्य वर्णितयादुदात्तालंकारः | तेन तेषामेवंविधसदाशङ्गरसोपभोगयोग्यस्थितिस्त्वरप्रसादादिति वस्तु ध्वनितम् । अत्र विच्छित्तिशेषस्य यक्षकर्दमादेवंगकत्वेन निरूपणात्तस्य च प्रकृतोपयोगित्वाच्च परिणामालंकारश्च । श्रुतिवृत्त्यनुप्रासौ च । अष्टम्युपजातिरिन्द्रवनोपेन्द्रवज्ञयोः । महापुरुषवादस्य स्वस्तुतिश्रवणं लज्जाकरभसावपि तत्स्तुतेर्न विरमतीति राजा तस्य विषयान्तरसंचारं करोति । असुराणां दैत्यानां संप्रहार उत्सुकेन पूर्वेद्युर्दिवं स्वर्गं प्रत्यधिरोहत। स्वर्गमार्गे न लक्षितः । किं तु कुत्र वर्तत इति न ज्ञातमिति भावः ।
मंशुकेषु । अनेन यशसः सार्वकालिकम्वर्गवासिसकलकचिधिष्ठानवत्तया नूर्धन्यता प्रकाश्यते । त्वत्कीर्तेः कल्पलतास्तु प्रसिद्धविलक्षणचिरधयिजयस्तंभभर इति भावः । कल्पवृक्षेषु वस्त्राभरणादीनि विद्यन्त इति प्रसिद्धिः । लिसंनि कर्तश्चिरस्थायितासिद्धघर्थमक्षराणि निक्षिपंति । तदुक्तं दंडिना "आदिराजयशोर्थिवमादर्शं प्राप्य वाङ्ममयम् । तेपामसन्निधानेऽपि न स्वयं पश्य नयनि ॥" इति अन्यैमेहाकचिभिरप्युक्तं "किमप्यहिंस्रस्तव चेन्नोऽहं यशःशरीरे भव में दयालुः । एकान्नविध्वंसिषु मद्विधानां पिंडेष्वनास्था खलु भौतिकेषु । ” इति । पांचभौतिकस्य शरीरस्य नियतनश्वरत्वं कीर्तिशरीरस्य नियतस्थायित्वं च भणितम् । राज्ञस्तु क्षमार्जनोपायसांपरायवैवात्यक्षमारक्षणवर्धनदानादिरूपक्षमाभोग्यजन्याः सर्वा अपि कोर्नयश्चानुचितार्थत्यागोचितार्थस्वीकाररूपपदसंदर्भगुंफिताः कांक्षणीया भवंति तथात्रे हि न नश्यति । यथा रावणादिवधजनितापि रामस्य कीर्तिवर्मकिविरचितगतियोग्यरामायणकाव्येन स्थापिता । इदानींतनानामपि कवीनां स्विकार्यतया वाग्विषयत्वाद्यषि द्धिमधिगच्छनिं तस्माच्चैयाँदिजनितापि राज्ञां पदसंदर्येणैव स्थाप्यते । लिखंतति बूर्गमनव्यपदेशेन त्वदृष्टिपथ एवाद्यापि लिखेतीति चरिनस्यापारिच्छेद्यता प्रकाश्यते । असुरेत्यादि । पूर्वेद्युरित्यनेन दिवसान्तरव्यवधानाभावकथनादनायासेन राक्षसर्विजयरूपाक्षिप्रकारित्वं स्वस्य सुध्यते । तदुक्त्ं“ ‘ दक्षः क्षिप्रकारी ’ इति । एष धीरोदात्तनायकगुणो भवति । असुराः
१ सय इत्यधिकं क० पु० । २ तस्मात्कथय कतमस्मिन् इति इ० पु० फुटः १
मरुतां पथि वायुस्कंधे ? तत्र सप्त वायुस्कंधा आवहादयः । तन्मध्ये कतरस्मिन्मरुतां स्कंधे वर्तामहे । तदुक्तं सिद्धांतशिरोमणौ--‘ भूवायुरावह इह प्रवहस्तदूर्वं स्यादुद्वहस्तदनुसंवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः प्रतिपूर्वकोऽस्माद्वह्यापरावह इमे पवनाः प्रसिद्धाः ॥ इति ।
दानवः । सुरप्रतिपक्षविजातावाकृतिक्रियाभीषणविबिधमायाभिज्ञा इति यावत् । तेषां संप्रहारो रणं तस्मिमुत्सुकेन त्वरसिकोत्कठितेन असुरशब्देन मनुष्यविजातीयकथनात् सामभेददानानहितया दंडार्हता सूच्यते । मयेयेकवचनेन साहाय्यनैरपेक्ष्यात् स्वस्य युद्धवींरत्वं ध्वनितम् । वरलु युद्धदानदयभेदेन विविधः तस्योत्साहः स्थायी यदाह-'विभावैरनुभावैश्च सात्विकब्र्यभिचारिभिः। नीतः सदस्यरस्यत्वमुत्साहो वीर उच्यते। विरूद्धां राति हंतीति विरो विद्वद्भिरीरितः । अभीतिर्बहुभिर्युद्धेऽप्यसहायो रणे मदः ॥ हर्षः शस्त्रास्त्रघातेषु समरादपलायनम् । भीताभयप्रदानं च प्रपन्नस्यार्तिभंजनम् । एनं युद्धात्मको वीरस्तशैः कविभिरीडितः । अधुनामीप्सितानर्थान् प्रदायेच्छादिकं वहु । अर्थिनः पुनरायातम्खजनानितरानपि । यं मानयति दानेन वाक्येन मधुरेण च ॥ एष दानात्मको वीरः कथ्यते दानशालिभिः । व्याधिदारिद्रयशत्रादिक्षुत्पिपासादिपीडितान् ॥ अनुगुह्वति यः पाति स वीरः स्याद्वात्मकः । । वीरस्योद्दीपनविभावः विवेकाध्यवसाथ नयविनयबलपराक्रमशक्तित्रयप्रभावादयः । अनुभावस्तु स्थैर्यधेयंत्यागशोंचेंबशारद्यरामांचादयः 1 संचारिणस्तु धृतिमतिगर्वामर्षवेगस्टुत्यादयः । प्रकृते दुर्जयदानवः जयेन दुष्यन्तस्य बुद्धवीरत्वं फलितम् । दानवीरास्तु परशुरामबलिप्रभृतयः । दयावीरां हि जीमूतवाहनादयः। त्रिविधोऽपि वर उत्तमपुरुष एव । स तु धीरोदात्त एव भवति । धीरोद्धतस्तु धीरोदात्तगुणवैपरीत्येन प्रतिनायकेषु राक्षसादिषु वर्णनीयः । धीरेदत्तधीरोद्धतधीरललितधीरशान्ता इति चतुर्विधनयका अपि ततदवस्थावाचकः न तु नियतवृत्तयः । एतेषां प्रत्येकमनुकुलदक्षिणशठदृष्टभेदेन षोडश भेदा भवंति तेषां ज्येष्ठमध्यमकनिष्ठभेदेन प्रत्येक त्रैविधदष्टचत्वारिंशनायकभेदाः । एते च दिव्या अदिव्या दिव्यादिव्यास्त्रेति प्रचेकं त्रिविधा । ततश्चतुश्चत्वारिंशदधिकशतभेदा भवंति । अत एव मदीये नैषधानन्दे भणितं तथा हि " नेतुर्भदा नायिकानां च जातिश्रेष्टवस्थादेशकालानुरूपाः । कृत्वा संधीन्यंवनानां प्रणीतं प्राहुः प्राज्ञा नाटकं नाट्ययोग्यम् ॥ इति । दिव्यानां कुत्रापि संभोगो न वर्णनीयः । स्खःपातालसमुद्रीलंघनाद्युत्साहो दिव्यैचेव । अदिव्योतमेष्वपि क्वचिद्भवति । दिव्यादिव्येषुमथमपि प्रतिपादनीयम् । ननु कथं कुमारसंभवे महाकविन देवीसंभोगवर्णनं कृतमिति चेदुच्यते । दोषस्तु द्विविधः कवेव्युत्पतिङ्गते शकिङतश्चेति । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्छतत्वात् । कदाचित्र लक्ष्यते । यस्त्वशकिकृतो दोषः स झटिति प्रतीयते तस्मान्महाकवीनामयुत्पातितमप्यु तमदेवताविषयप्रतिषिद्धसंभोगशृंगारनिबंधनाथनचित्यमुत्तमदेवीविषयम् । शक्तितिर. मातलिः --
- त्रिस्रोतसं बइति यो गगनप्रतिष्ठां
- ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
- तस्य द्वितीयहरिविक्रमानिस्तमस्कं
- वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ६ ॥
- त्रिस्रोतसं बइति यो गगनप्रतिष्ठां
त्रिस्रोतसमिति । यो मार्गे गगने प्रतिष्ठा स्थितिर्यस्या एवंभूतां त्रिस्रोतसं गङ्गां वहति । तथा च विष्णुपुराणे–" विष्णोबिंर्भात यां भक्त्या शिरसाहर्निशं ध्रुवः । ततः सप्तर्षयो यस्यां प्राणायामपरायणाः ॥ तिष्ठंति वाचिमालाभिः सिच्यमानजटाजले । वायेवं संततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोऽधिकतमां कांतिं वहत्येतदहःक्षये । मेरुपृष्टे वहत्यु चैर्निष्क्रांता शशिमण्डलात् ।’ इति । यो मार्गः । प्रविभक्ता रश्मयोऽथद्वायुरूपा एव यत्र कर्मणि । ज्योतींषि ध्रवादिनक्षत्रान्तानि वर्तयति परिभ्रमयति । तथा च विष्णुपुराणे--'सूर्याचंद्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमथैर्मन्त्रैर्जीवैर्बद्धानि तानि वै ॥" इति । तथा ‘ग्रहक्षतारविष्ण्यानि ध्रवे बद्धान्यशेषतः। भ्रमन्त्युचितचारेण मैत्रेयानिलराश्मिभिः ॥ " इति । तस्य परिवहस्य परिवहनाम्नो वायोरिमं मार्गे वदन्ति । द्वितीयो हरेर्वामनावतारे विक्रमः पादनिक्षेपस्तेन निस्तमस्कं पापरहितं शोकरहितं च । तमोऽन्धकारे स्वर्भानौ पापे शोके गुणांतरे ’ इति हैमः । तदुक्तं वामनपुराणे-‘क्रमत्रये तोयमवेक्ष्य दत्तं महासुरेंद्रण विभुर्यशस्वी ! चक्रे ततो लंघयितुं त्रिलोकं त्रिविक्रमं रूपमनन्तशक्तिः । कृत्वानुरूपं
स्कृतत्वात् प्राम्यत्वेन न प्रतीयते । त्रिस्रोतसमित्यादि । यो वायुर्गगनं निरालंबः प्रतिष्टा आस्पदं यस्याः सा तां त्रिस्रोतसं मंदाकिनम् । ज्योतषि सप्तऋषीणां स्थानानि । प्रविभक्तररिम प्रविभक्ता असंकीर्यो रश्मयस्तेजांसि यस्मिन् कर्मणि तत्तथा । वर्तयति । संचारयाति । द्वितीयहरिविक्रमनिस्तमस्कं द्वितीयेन हरेर्विक्रमेण पदन्यासेन निस्तमस्कं निर्दोषम् । तस्य परिवहाख्यस्य वायोर्भागं वदन्ति । परिवहो नाम खगंगासप्तऋषिमंडलप्रवर्तकः षष्ठो बायुस्कंधः यथोक्तं ब्रह्मांडपुराणे ‘‘ आवहः प्रवहश्चैव संबहवोद्वहततः। विवह्रूयः परिवहः परावह इति क्रमात् ॥ सप्तैते मारुतस्कंधा महर्षिभिरुदीरिताः । आवहो वर्तयेद्वायुमेंथोल्कावृष्टिविद्युतः । वर्तयेत्प्रवदधाथ तथा मार्तडमंडलम् । वर्तयेबुद्धद्धापि वृथा नक्षत्रमंडलम् । संवहो मारुतस्कंधतथा शीतांशुमंडलम् । पंचमोऽपि
- राजा--भातले, अतः खलु सबाह्यकरणो ममान्तरात्मा प्रसीदति । ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ” स्खस्तावत् ।
- मातालिः--कथमवगम्यते ।
राजा-
- अयमरविवरेभ्यश्चातकैर्निष्पताग्नि-
- हॅरिभिरचिरभासां तेजसा चानुलिप्तैः।
- गतमुपरि घनानां वारिगर्भादराणां
- पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥ ७ ॥
- अयमरविवरेभ्यश्चातकैर्निष्पताग्नि-
दितिजांश्च हत्वा प्रणम्य चषन्प्रथमक्रमेण । महीं महाचैः सहितां महार्णवां जहार रत्नाकरपत्तनैर्युताम् । भुवं सनाकं त्रिदशाधिवासं सोमर्कऋक्षैरभिनन्दितं नभः । देवो द्वितीयेन जहार वेगाक्रमेण देवप्रियमीप्सुरीश्वरः ।।" इति । अन्यत्रापि-‘क्रमेणैकेन जगतीं जहार सचराचर (रा ) म् । नभश्चक्रमतस्तस्य सूर्येन्दू सख्यक्षिणौ । द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसा’ इति । विष्णुपुराणेऽस्यान्वर्युतायुक्ता–‘यावन्त्यष्चेव तास्तारास्तावन्तो वातरश्मयः । सर्वे धुवनिबद्धास्ते भ्रमन्तो भ्रामयान्ति तम् ॥ तैलपीडा यथा चक्रं भ्रमन्तो भ्रमयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ।। अलातचक्रवद्यन्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहति’ इति । तदुक्तं सिद्धान्तशिरोमणौ–‘भूमेर्बहिर्द्र दशयोजनानि भूवायुपुत्राम्बुध्युवेद्ताद्यम् । तदूर्ध्र्वगो यः स चिरंगतस्य प्रयागातिस्तस्य तु मध्यसंस्था । नक्षत्रकक्षाः खचरैः समेता यस्मादतस्तेन समागतोऽयम् । जरः खे चक्रयुक्तो (?) भ्रमत्यजस्त्रं प्रवहानिलेन । इति ॥ अङ्गभूतमहापुरुषचरितवर्णनादुदात्तलंकारः । अनुप्रासश्च । वसन्ततिलकं वृत्तम् । अतः पूर्वोक्तप्रवहवायुस्कन्धसंचारतः सवाह्यकरणो बाझेन्द्रियसासहितः । अयमीत । सीकरैरम्बुकणैः क्लिन्ना आर्द्रा नेमिश्चकप्रांतो यस्य स तैऽयं रथः । अराणि चक्राङ्गानि तेषां विवरेभ्यश्छिद्रेभ्यः ।
विवहाख्यश्चतचैव ग्रहृमंडलम् । सप्तर्षिचक्रं खगेंगों षष्टिः परिषहस्तथा । परावहस्तया वायुर्वर्तयेद्भवमंडलम् ! ” इति। अयमरविवरेभ्य इत्यादि । अरविवरेभ्यः अराणां
१ सबायांतःकरणो मम इति क० पु० पाठः ।
- मातालिः-क्षणादायुष्मान्स्वाधिकारभूमे वर्तिष्यते ।
- राजा--( अधोऽवलोक्य ) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः । तथाहि ।
- शैलानामवरोहतीव शिखरादुन्मज्ञतां मेदिनी
- पर्णस्वान्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
- संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
- केनाप्युत्क्षिपतेव परंय भुवनं मत्पार्श्वमानीयते ॥ ८ ॥
- शैलानामवरोहतीव शिखरादुन्मज्ञतां मेदिनी
‘अरं शीघ्रे च चक्राङ्गे'.इति विश्वः । निष्पतद्भिर्निगैच्छद्रिश्वतकैः पाक्षि- विशेषेः कृत्वाचिरभासां विद्युतां तेजसानुलितैः परीतैर्हरिभी रथाश्वैश्च कृत्वा वारिगर्भाण्युदराणि येषां ते तादृशाम् । अनेन संपूर्णजलभरितत्वं ध्वनितम् । गभेदयोरन्यतरोपादाने तु संबन्धमात्रप्रतीतेः । घनानामुपरि गतं गमनं पिशुनयाते सूचयति । ‘ पिशुनौ खलसूचकौ ' इत्यमरः । अत्र वारिंगर्भोदराणामित्यस्य हेतुद्वयं प्रयार्थं हेतुत्वं वोद्धव्यम् । तेन हेतुकाव्यलिङ्गयोरङ्गाङ्गिभावलक्षणः संकरः । वारिंगभोद्रत्वं प्रति रथविशेषणस्यार्थे हेतुत्वं वोद्वचम् । रेभ्यरिभिरभेति छेकवृत्त्यनुप्रासौ । मालिनी वृत्तम् । क्षणादिति रथवेगसूचनम् । स्वस्याधिकारो यस्यां सा स्वाधिकारा । सा चासौ भूमिश्च तस्याम् । शैलानामिति । उन्मघ्नतां प्रकटीभवताम् । अत्रोन्मज्जनेन कारणेन प्रकटयं कार्यं लक्षयता तद्गत
नेभ्यघटंभमंडलाकारचक्रवयवनाम् । विवरेभ्यः अंतरालप्रदेशेभ्यः वारिंगभंदराण वारि गमें एषां तानि तथोक्तानि तान्युदराणि एषां ते तथोक्ताः । तेषां गतं गमनम् । पिशुनयति सूचयति । वर्त्तमानश्यपदेशेनाद्यापि मेघमार्गे एव रथः शनैर्गच्छतति मातलिं प्रति वदतीति व्यज्यते । अत एव मातलिरह–!क्षणादूर्ध्वमित्यादि। क्षणादुपरि आत्माधिकारभूमौ भूलोके इतः परं शीतुं रथस्तु गमिष्यतीति भावः । शैलानामित्यादि । उन्मज्ञतामुच्छतामिव स्थितानां शैलानां भूमिस्थसकलपदार्थापेक्षयधिकोन्नत पर्वतानां शिखरात् मेदिनी या समतया दृष्टा खा भूभिः । अवरोहति अधो गचद
- १ क्षणादूर्वं इति क० पु० पाठः । २ आत्माधिकारभूमौ इति क० पु' ष'
- ३ पर्णाभ्यंतर इति कo पु० पी: । ४ व्रजंति इति क० पु० पाठः ।
- ५ मर्यभुवनं इति हे० उ० पाठः।
- ३ पर्णाभ्यंतर इति कo पु० पी: । ४ व्रजंति इति क० पु० पाठः ।
- मातालः-साधु दृष्टम् । ( सबहुमानमवलोक्य ) अहो, उदोररमणीया
पृथिवी ।
- राजा-मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी
सांध्य इव मेघपरिघः सानुमानालोक्यते ।
मल्पत्वं ध्वनितम् । यत्र धर्मं लक्ष्यते तत्र तद्गता धर्मो व्यङ्ग्याः । यथा तीरे लक्षिते तद्गतपावनत्वादयः । यत्र धर्मो लक्ष्यते तत्र धर्मान्तराभावात्तदूतो विशेष एव व्यङ्ग्यः । यथा विकासेन प्रसृतत्वे लक्षिते तद्गतातिशयित्वादिति आकर एव स्थितम् । शैलानां पर्वतानां शिखराग्रभागात् । जात्येकवचनम् । मेदिन्यवरोहतवाधो यातीवेत्युत्प्रेक्षा । पादपा वृक्षाः । स्कन्धानां प्रकाण्डानामुदयात्प्रट्यात् । अत्र प्रकाण्डः स्कन्धः स्यात् ' इत्यमरः । अत्रोदथशब्दः प्राकटयं लक्षयंस्तदतिशयं ध्वनति । पर्णानां स्वतिशयेन यन्तरं मध्यं तत्र विलीनतां तदाकारतां जहति । प्रकटीभवन्तीत्यर्थः । तनोर्भावस्तनुत्वं तेन नष्टमदृश्यं सलिलं यासां ता आपगा नद्यः संतानैर्विस्तरैः। अर्थादृष्टैरित्यर्थः । ‘संतान विस्तृतौ देववृक्षे चापत्यगोत्रयोः' इति धरणिः ! व्याक्तिं प्रकटतां यान्ति । पश्येति वाक्यार्थस्य कर्मत्वम् । उरिक्षपतोध्वक्रुर्वतेत्युत्प्रेक्षा । केनापिं भुवनं मत्पार्श्वे मन्निकटमानीयत इवेति गम्योत्प्रेक्षा ।" पार्श्व कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च' इति विश्वः । स्वभावोक्तिकाव्यलिङ्गोप्रेक्षयोः संसृष्टः । तानैस्तन्विति छेकवृत्तिश्रुत्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । अत्र ‘ कार्श्यनाकलिताम्भसः पृथुतया व्यक्तिम् ' इति पठिवास्थानस्थपदलक्षणो दोषः परिहरणीयः । एतेन संतानशब्देऽप्रयुक्तस्वं निहतार्थस्यं वा नष्टशब्दो नामप्रकटलक्षणार्थानभिधानात्तत्रावाचकत्वं (?) च परिंहृतं भवति । हेतुनामार्थवशाब्दत्वे भिन्नवाक्यत्वेन परिहरणीये । महावाक्यत्वेनैकवाक्यत्वेऽपि ‘उन्मज्जनात्’ इति पठित्वा परिहर्तव्ये । ‘स्कन्धोदयाः इति पाठे तु ‘पृथुतराः’ इति पठित्वा परिहरणीये । पश्येत्यस्योत्तरं साधु दृष्टमिति । सबहुमानमवलोक्येते तत्क्रियानुवाकं काविवाक्यम् । अहो आश्चर्यं । उदारा महती रमणीया च । तत्स्थानस्थित्यैकदैव सर्वस्या दृग्गोचरत्वादेवमुक्तिः। पूर्वापरसमुद्रयोखगाढः संवद्धः । सांध्यः
१ उदप्ररमणीया इति क० पु• पाठः । २ आलक्ष्यते इति क्० पु० पाठः ।
- मातलिः - आयुष्मन्, एष खलु हेमकूटो नाम किंपुरुषपर्वत-
स्तपःसंसिद्धिक्षेत्रम् । पश्य ।
- स्वायंभुवान्मरीचेयः प्रबभूव प्रजापतिः ।
- सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ९ ॥ ॥
- राजा--तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य
भगवन्तं गन्तुमिच्छामि |
- मातलिः-प्रथमः कल्पः ३
( नाट्येनावतीर्णौ )
- राजा– (सविस्मयम् ) मातले,
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयानिरुद्धतस्तवावतीर्णाऽपि रथो न लक्ष्यते१०
सायंकालीनो मेघोऽर्गल इव सानुमान्पर्वतः । अर्गलेनौपम्यं दैव्यज्ञाप- नार्थम् । तच्च विष्णुपुराणे – ’हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । नीलश्वेतश्च भृङ्गी च उत्तरे वर्षपर्वताः । लक्ष्यमाण द्वौ मध्यौ ’ इति । जम्बुद्वीपस्यापि लक्षयोजनत्वात्पूर्वापरसमुद्रावगाढत्वं संभवत्येव । किंपु- रुषेति । तदुक्तं विष्णुपुराणे - भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् । हरिवर्णं तथैवान्यन्मेरोर्दक्षिणतो द्विज ।। " इति । तपःसंसिद्धिक्षेत्रमि- त्यनेन मारीचस्य सूचनम् । स्वायंभुवादिति । स्वायंभुवाद्ब्रह्मसंवन्धिनो मरीचेर्यः प्रजापतिः कश्यपो बभूव । सुरासुरगुरुरित्यनेनावश्यं नमस्कर- णीयत्वं सूचयति । सपत्नीक इत्यनेन तवापि पत्नीयोगोऽत्र भावीति ध्वनितम् । छेकवृत्त्यनुप्रासौ । प्रथमः कल्प उत्तमः पक्षः । नाट्येनाव- तीर्णाविति रथावतरणमेवैतयौरारोपितं कविना । कविवाक्यं चेदम् । रथावतरणे यानि चिह्नानि तेषामजातत्वात्तदेवाह - उपोढेति । अभू-
स्वायंभुवादित्यादि । स्वयंभुवोऽपत्यं पुमान्स्वायंभुवः तस्माद्ब्रह्मसूनोः । सुरासुरगुरुः सद्वृत्तानां सुराणामसद्वृत्तानामसुराणां गुरुः । श्रेयांसि शुभानि काश्यपदर्शननमस्कारादीनि । प्रथमः
१ परं तपस्विनां सिद्धिक्षेत्रं इति क्व० पु० पाठः । २ अस्मिन् इति क्व० पु० पाठः ।। ३ एताववतीर्णौ स्वः इत्यधिकं क्व० पु० । ४ सस्मितम् इति क्व ० पु० पाठः।।
- मातलिः - एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
- राजा - मातले, कतमस्मिन्प्रदेशे मारीचाश्रमः।
- मातलिः - ( हस्तेन दर्शयन् )
वल्मीकाग्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा |
तलस्पर्शतया भूमिस्पर्शाभावेन रथाङ्गनेमयश्चक्रप्रधय उपोढशब्दाः कृत- स्वना न । रजश्च नेम्युद्धतं प्रत्रर्तमानं न दृश्यते । अनिरुद्धतोऽनिरो- धात् (?) । यतो भूतलस्पर्शे सत्यवतरणे रश्मिनिरोधो भवाते । अत्र तदभवात् । अत एवाभूतलेति त्रिष्वपि हेतुत्वेन योज्यम् । तव रथोऽवती- र्णोपि न लक्ष्यत इति न । अपि तु लक्ष्यत एव (?)। ‘तवावतीर्णो- ऽपि’ (?) इति क्वचित्पाठः । तत्र काक्वा व्याख्येयम् । अत्र रथावतरणे कारणे सति तत्कार्याणां नेमिशब्दादीनामभावादुक्तनिमित्तकापि विशे- षोक्तिः । श्रुत्यनुप्रासश्च । अवतीर्णोऽपि न लक्ष्यत इति विरोधाभासोऽपि । वंशस्थं वृत्तम् । एतावानेवेति व्यतिरेकालंकारः । हस्तेनेत्युत्तानितेन पताकेन । वल्मीकेति । वल्मीकस्य पिपीलिकाकृतमृत्युंजयस्याग्रं प्रान्त- स्तत्र निमग्ना मूर्तिः शरीरं यस्य सः । ‘अग्रमालम्बने व्राते ? इति विश्वः । ’मूर्तिः काठिन्यकाययोः' इत्यमरः । अनेनानेककालतपश्चरण- मुक्तम् । संदष्टाः सर्पत्वचो यत्र तेनोरसोपलक्षितः अनेन सर्वजन्तु- साधारणत्वमुक्तम् । कण्ठे । जीर्णेत्यनेन स्थूलवं बहुशाखत्वं ध्वनितम् । लताप्रताडनं वल्लीसमूहः स वलय इव कण्ठरोमाणीवेत्युपमितसमासः । संपीडनस्य साधकत्वात् । ’वलयः कण्ठरोम्णि स्याद्वलयं कङ्कणेऽपि च’ । इति विश्वः । तेनात्यर्थसंपीडितः । अनेनापकारिण्ययुपकारकत्वमुक्तम् । अंसयोर्व्याप्नोति तदंसव्यापि । अनेन महत्त्वमुक्तम् । शकुन्तानां पक्षिणां
कल्पः मुख्यः पक्षः । वल्मीकेत्यादि । उरसा उपलक्षितः । स्थाणुरिव शाखा-
१ वल्मीकार्ध इति क्व० पु० पाठः ।
- राजा - नमस्ते कष्टतपसे ।
- मातलिः - ( संयतप्रग्रहं रथं कृत्वा ) महाराज, एतावदिति परिव-
र्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
- राजा - स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतह्रदमिवावगा-
ढोऽस्मि ।
- मातलिः - ( रथं स्थापयित्वा ) अवतरत्वायुष्मान् ।
- राजा - ( अवतीर्य ) मातले, भवान्कथमिदानीम् ।
- मातलिः - संयन्त्रितो मया रथः | वयमप्यवतरामः । ( तथा
कृत्वा ) इत आयुष्मन् । ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
- राजा - ननु विस्मयादवलोकयामि ।
नीडं स्थानं तेन निचितं व्याप्तम् । ’स्थाने कुले चयः' इति विश्वः । जटानां मण्डलं समूहं बिभ्रत् । अनेन परनिमित्तसंपत्त्वं द्योत्यते । स्थाणुरिवाचलो निश्चलः । स्थाणुपक्षेऽपि विशेषणानि योज्यानि । उरसा मध्येन ! कण्ठ उपकण्ठे । समीप इति यावत् । अंसः स्कन्धः । जटा प्ररोहरूपा । असौ मुनिरर्कबिम्बमभिलक्ष्यीकृय । कर्मप्रवचनीयत्वेन तद्योगे द्वितीया । यत्र स्थितः । स मारीचश्रम इत्यन्वयः । परिकरश्लेषोपमानुप्रासाः । शार्दूल- विक्रीडितं वृत्तम् । संयता नियमिताः प्रग्रहा रश्मिरज्जवो यत्र तत् । रथमित्यर्थम् । कृत्वेति कविवचनम् । रथस्य भूमिस्पृष्टत्वादिति कृत्वा मातलिर्वदतीत्यन्वयः । किमुक्तं तत्राह - एतावाश्रमं प्रविष्टौ स्व इति । अदितिस्तत्पत्नी तया परिवर्धिता मन्दरवृक्षा यत्र । स्वर्गादधिकतरं निर्वृतिस्थानं मुखस्थानमिति भिन्नं वाक्यम् । अमृतेति । ज्ञानामृतह्रदाव- गाआहन इवेत्युत्प्रेक्षा । अत्र पूर्ववाक्यं हेतुत्वेन ज्ञेयम् । कथमिति प्रश्ने ।
रहिततरुस्कंधः इव अचलः स्थिरः सन् । अभ्यर्कबिंबम् अर्कबिंबाभिमुखम् । कष्टतपसे
१ नमोsस्त्वस्मै इति क्व० पु० पाठः । २ अवतीर्यताम् इति क्व० पु० पाठः । ३ इत इतः इति क्व० पु० पाठः ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने |
किं करिष्यसीत्यर्थः । प्राणानामिति । सत्कल्पवृक्षेऽपि वन उचिताव- श्यकर्तव्या प्राणिनां वृत्तिः प्राणधारणक्रियानिलेन वायुना, न तु कल्पवृक्ष- दत्तवस्तुना । काञ्चनपद्मरेणुभिः कपिशे पिङ्गटवर्णे तोये जले धर्मार्थम्, न तु भोगार्थमभिषेकक्रिया स्नानविधिः । रत्नशिलातलेषु ध्यानम् । आधा- रमात्रपर्यवसितत्वात्, न तु रत्नशिलातलत्वेन तत्र क्रीडादि । विबुधस्त्री- संनिधौ देवयोषिदभ्याशे संयमः । अन्यसंनिधावेव स नियमो न सिद्ध्यति विशेषतः स्त्रीसंनिधौ । ततोऽपि देवस्त्रीसंनिधावित्यर्थः । अत्र कल्पवृक्षादीनां कारणानां सद्भावे सति तत्कार्यभावे वक्तव्ये तद्विरुद्धा- निलप्राणवृत्तित्वाद्युक्तेरुक्तनिमित्ता मालाविशेषोक्तिः । एतया चैतन्निवा- सिनां तपस्विनां धैर्यातिशयो व्यज्यते । अन्यमुनयो भूमिष्ठास्तपस्विनो यत्स्थानं तपोभिः कांक्षन्ति तपःफलेनेच्छन्ति तस्मिन्स्थानेऽपि तपस्यन्ति तपश्चरन्ति । ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । तपसः ‘ परस्मैपदं च ’ इति परस्मैपदम् । तपोतप इति न्यनयेति स्तस्तेति छेक-
कष्टं दुष्करं तपो यस्य स तथोक्तः तस्मै । प्राणानामित्यादि । सत्कल्पवृक्षे विद्यमान- कल्पवृक्षे न तु कल्पवृक्षसदृश इति यावत् । वने कल्पवृक्षसमुदायस्थले कल्पवृक्षपदेन सार्वकालिकाक्षय्यसकलभोज्यधार्यपदार्थाधिकरणता ध्वन्यते । तत्रापि वनपदेन कल्पवृ- क्षाणां बाहुल्यं सूच्यते । तथापि प्राणानामुचिता स्वारसिका वृत्तिर्जीवनम् । अनिलेन वायुना न तु मधुरादिभोज्यपदार्थैरिति यावत् । कांचनपद्मरेणुकपिश इत्यनेन विविध- जलक्रीडार्हता ध्वन्यते । धर्माभिषेकक्रिया धमार्थमेवाभिषेकक्रिया स्नानाचरणं न तु जलक्रीडेति व्यज्यते । रनशिलातलेष्वित्यनेन विहारयोग्यावस्थानं सूच्यते । बहुवचनेन विविधरत्नशिलातलप्रदेशाः सूच्यन्ते । ध्यानं ध्यानमार्गे चित्तमनुरक्तं भवति न तु विहार इति व्यज्यते । विबुधस्त्रीसन्निधौ देवानामपि विकारजनकस्त्रीसन्निधाने संयमः इन्द्रियनिग्रहः न तु मदनविकारजनितसात्त्विकभावादिनिष्पत्तिरिति भावः । एभिः सत्कल्पवृक्षत्वादिविशेषैरयं प्रदेशः स्वर्ग एवेति प्रतीयते । अन्ये मुनयः मननशीलाः तपोभिरिति बहुवचनेन तपःकरणस्य बहुविधत्वं प्रतीयत । यकांक्षन्ति यत्स्थानं वांच्छन्ति तस्मिन्स्वर्गप्रदेशे । अमी मुनयस्तानि फलानि परिहृत्य तपस्यन्ति अनेन तेषां मातलिः - उत्सर्पिणी खलु महतां प्रर्थना । ( परिक्रम्य । आ- काशे ) अये वृद्धशाकल्य, किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि। दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी- सहितायै कथयतीति ।
- राजा - ( कर्णं दत्त्वा) अये, प्रतिपाल्यावसरः खलु प्रस्तावः ।
- मातलिः- (राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदा-
स्तामायुष्मान्, यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
- राजा - यथा भवान्मन्यते । ( इति स्थितः )
- मातालिः - आयुष्मन्, साधयाम्यहम् । ( इति निष्क्रान्तः )
- राजा - ( निमित्तं सूचयित्वा )
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ १३ ॥
श्रुतिवृत्त्यनुप्रासाः । हेत्वलंकारो व्यङ्ग्यः । वृत्तमनन्तरोक्तम् । खलु यस्मादुत्सर्पिण्युपर्युपरि धावन्ती महतां प्रार्थनेति पूर्वार्धस्य समर्थकत्वाद- र्थान्तरन्यासः । अयं प्रस्तावः पातिव्रताधर्मकथनलक्षणः | खलु निश्चितम् । प्रतिपाल्योऽवसरः समयो यस्य सः । पुनरुक्तवदाभासेऽलंकारः । अशो- कवृक्षेत्यनेनात्रोपविष्टस्य शोकराहित्यं भविष्यतीति ध्वनितम् । अन्तरं मध्यमन्वेष्टुं शीलं यस्य सः । निमित्तं दक्षिणबाहुस्फुरणम् । मन इति । हे बाहो, वृथा किं स्पन्दसे स्फुरसि । वृथात्वं कुत इत्याह - मनो रथाय शकुन्तलारूपाय नाशंसे । मम तु मनोरथाशंसापि नास्ति प्राप्ति- स्तु दूरतो निरस्तेति भावः । मनोरथायेति विषयस्य निगरणादतिशयो- क्तिः । पूर्वमवधीरितं तिरस्कृतम्, न तु त्यक्तं श्रेयः कल्याणं दुःखं यथा
मोक्षार्थित्वमेवेति ध्वन्यते । आनंदवर्धनाचार्यस्तु अभिधालक्षणा तात्पर्याख्यव्यापार- त्रितयातिवर्तिव्यंजनध्वननादिशब्दवाच्यस्यापारविशेषः स्वीकार्य इति वदंति । अलंकार- शास्त्रप्रथमप्रवक्तारो भामहादयस्तद्दोषरहितौ गुणालंकाराविति ध्वन्यमानवस्त्वलंकारा- विति च काव्ये सर्वत्रालंकाराणामेव प्राधान्यं प्रत्यपादयन् । उत्सर्पिणीत्यादि । उत्सर्पिणी उद्गमनशीला अतिशयिनीत्यर्थः । मनोरथायेत्यादि । मनोरथाय
१ तर्हि इति क्व०पु०पाठः । २ अहं इति क्व० पु० पाठः ।
( नेपथ्ये )
मा क्खु चाबलं करेहि । कहं गदो एव्व अचणो पकिदिं [मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ]
राजा – ( कर्णं दत्त्वा ) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ।(शब्दानुसारेणावलोक्य | सविस्मयम्) अये, को नु खल्वयमनुवध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४ ॥
स्यात्तथा परिवर्तते व्यावर्तते । अर्थान्तरन्यासः । वृत्त्यनुप्रासोऽपि । मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । स्वभावचापलं कृतवाने- वेत्यर्थः । अभूमिरस्थानम् । अबालस्येव तत्त्वं बलं यस्य सः । अर्थेति । को नु खलु बालः केवलं कर्षणेनानायान्तं सिंहशिशुम् । बलात्कारेण कर्षतीति चूर्णिकया सहान्वयः । किं कर्तुम् । प्रक्रीडितुं क्रीडां कर्तुम् । मनोविनोदनार्थमिति भावः । एतेनावश्यकार्यार्थं साहसमपि क्रियेत क्रीडार्थं तत्कारित्वे । मानातिशयबलदर्पतया जगत्तृणवन्मन्यत इति ध्वन्यते । कीदृशम् । मातुरर्धपीतस्तनम् । शिशुनान्यत्कर्षणमेवदुष्करम्, तत्रापि सिंहशिशुकर्षणम्, तत्राप्यन्यस्मात्, तत्रापि मातुः क्रोडात्, तत्रापि स्तनंधयन्तमिति सर्वोत्कर्षो व्यज्यते । पुनः कीदृशम् । आमर्देनाकर्षणे- नावेगेन क्लिष्टा विसंस्थुलाः केसरा स्कन्धबाला यस्य तम् । स्वभावोक्तिः ।
मनोरथविषयाय इष्टवस्तुने लाक्षणिकोऽयं प्रयोगः । नाशंसे मनोरथं प्राप्तुं नेच्छामीत्यर्थः । हे बाहो आलिंगनकर्मनिपुण त्वं वृथा किमर्थं स्पंदसे स्फुरसि फलानुपपत्तेर्मास्फुन्दस्वेत्यर्थः । तत्त्वहेतुमाह - हीति । हि यस्मात्कारणात् पूर्वावधीरितं प्रथमनिरस्तं श्रेयः शुभं शकुन्तलारूपं दुःखं परिवर्तते परिणमति । तस्मात्कारणादिति संबंधः । अत्र मनोरथादिशब्दैः पुनर्बीजोद्भेदाद्बीजोद्भेदो नाम निर्व- हणसन्ध्यंगमुक्तम् ‘बीजोद्भेदः पुनः सन्धि’ इत्युक्तत्वात् । निर्वहणसंधिरुच्यते /* मुखा दि्सन्धयः सांगा यत्र बीजानुबंधिनः प्रयोजनैक्याद्द्योत्यन्ते तन्निर्वहणमीरितम् ॥ > अस्यांगानि ‘‘ संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानंदसमयाकृतिभासोपगूह-
१ मा खु मा खु ( मा खलु मा खलु) इति क्व० पु० पाठः । २ शिक्ष्यते इति क्व० पु० पाठः । ३ तापसाभ्यां इति क्व० पु० पाठः ।
( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः )
- बालः - जिम्भ सिंघ, दन्ताइं दे गणइस्सं । [जृम्भस्व सिंह,
दन्तांस्ते गणयिष्ये ।]
- प्रथमा – अविणीद, किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्प-
अरेसि । हन्त, वढ्ढइ दे संरम्भो । ठाणे क्खु इसिजणेण सव्वद- मणो त्ति किदणामहेओ सि । [अविनीत, किं नोऽपत्यनिर्विशे- षाणि सत्त्वानि विप्रकरोषि । हन्त, वर्धते तव संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ]
- राजा – ( आत्मगतम् ) किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे
स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।
द्वितीया - एसा क्खु केसरिणी तुमं लंघेदि जइ से पुत्तअं
ण मुञ्चेसि ।[ एषा खलु केसरिणी त्वां लंघयिष्यति यदि तस्याः
पुत्रकं न मुञ्चसि ]
- बालः - ( सस्मितम् ) अद्महे, बलिअं क्खु भीदो ह्मि । ( इत्य-
धरं दर्शयति ) [अहो, बलीयः खलु भीतोऽस्मि ]
उदात्तमनुप्रासश्च । यथानिर्दिष्टं सिंहबालकाकर्षणरूपं कर्म यस्य सः । तपस्विनीभ्यामिति सहार्थे तृतीया । जृम्भस्व सिंह, दन्तांस्ते गणयिष्ये । अवनीत, किं नोऽस्माकमपत्यनिर्विशेषाणि सत्त्वानि प्राणिनो विप्रक- रोषि । हन्तेति खेदे । वर्धते तव संरम्भः स्थाने युक्तं खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । एष खलु केसरिणीं सिहिं त्वां लंघयि- ष्यति तवोपद्रवं किंचित्करिष्यति ।‘ वर्तमानसामीप्ये वर्तमानवद्वा ’ इति वर्तमानप्रयोगः । यदि तस्याः पुत्रकं न मुञ्चसि । अद्महे आश्चर्ये । त्वद्वचनाद्बलिअं अधिकं भीतोऽस्मीति सोल्लुण्ठम् । अधरं विसृष्टं तस्यैव
नम् । पूर्वभाषोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ’’ इति । अहे बलवत्खलु भीतोऽस्मी-
१ बालस्तापसीभ्यां सह इति क्व० पु० पाठः । २ जिम्भ जिम्भ सिहडिम्भ (जृम्भस्व जृम्भस्व सिंहडिम्भ ) इति क्व० पु० पाठः । ३ कहं वड्ढिदो एव्व ( कथं वर्धित एव ) इति क्व० पु ० पाठः । ४ एवं इति क्व० पु० पाठः । ५ बलवत् इति क्व ० पु० पाठः ।
राजा -
- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
- स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ १५ ॥
- प्रथमा - वच्छ, एदं बालमिइन्दअं मुञ्च । अवरं दे कीलणअं
दाइस्सं । [ वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
- बाल: – कहिं । देहि णं । ( इति हस्तं प्रसारयति ) [ कुत्र । देह्येतत् ।
- राजा - ( बालस्य हस्तमवलोक्य ) कथं चक्रवर्तिलक्षणमप्यनेन
धार्यते । तथा ह्यस्य
प्रलोभ्यवस्तुप्रणयप्रसारितो |
तत्र विनियोगात् । तदुक्तं संगीतसुधानिधौ – विनिष्क्रान्तो विसृष्टः स्यादधरोऽलक्तकादिना । रञ्जने बालकानां च चेष्टाभेदे नियुज्यते । स्त्रीणां विलासबिब्बोकहर्षादिषु च कीर्तितः ’ इति । महत इति । अयं बाले महतस्तेजसो बीजं मूलम् । बाल्यान्महन्निगूढं तेजोऽस्मिन्वर्तत इत्यर्थः । स्फुलिङ्गावस्थया स्थितो वह्निरिव । महतस्तेजसो बीजमित्यस्य प्रतिबिम्बमेधापेक्ष इति । उपमानुप्रासौ । वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि काहिं कुत्र । देहि णं । ‘त्वदोणः स्यादौ क्वचित् ’ इति णादेशः । प्रलोभ्येति । प्रलोभ्यं प्रलोभकारकं यद्वस्तु तत्र
त्यधरं दर्शयति । अधरदशनमनादरे । महत इत्यादि । तेजसः तेजस्विनः तेजश्शब्देन तेजस्वी लक्ष्यते । तथा रघुवंशे “ तेजसां हि न वयः समीक्ष्यते ’ इति । एधांसि इन्ध- नानि । प्रलोभ्यवस्त्वित्यादि । प्रलोभ्यं प्रकर्षेण स्पृहणीयं वस्तु द्रव्यं तस्मिन् प्रणयो ।
१ पुत्रोऽयं इति क्व ० पु० पाठः । २ एधोपेक्षः इति क्व ० पु० पाठः। ३ कीलणिअअं (क्रीडनीयकं ) इति क्व० पु० पाठः ।
द्वितीया - सुब्वदे, णसक्को एसो वाआमेत्तेण विरमाविदुं। गच्छ तुमं । ममकेरए उडए मक्कण्डेअस्स इसिकुमारअस्स वण्णचित्तिदो मित्तिआमोरओ चिट्ठदि । तं से उबहर [ सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेय- स्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । प्रथमा - तह। ( इति निष्क्रांता ) [तथा] बालः - इमिणा एव्व दाव कीलिस्सं । (इति तापसीं विलोक्य हसति ) [अनेनैव तावत्क्रीडिष्यामि ]
यः प्रणयो याच्या प्रीतिर्वा तेन प्रसारित इति स्वभावाख्यानम् । तेन विना दर्शनासंभवात् । करो विभाति । जालवद्ग्रथिता अंगुलयो यस्य सः । उक्तं च पुरुषलक्षणे सामुद्रे – ’अतिरक्तः करो यस्य ग्रथितांगु- लिको मृदुः । चापाकुंशाङ्कितः सोऽपि चक्रवर्ती भवेद्ध्रुवम् ॥’ इति । एकं मुख्यं पङ्कजमिव ! तत्प्रथमविकासित्वान्मुख्यत्वम् ! कीदृक् । इद्धः समृद्धो रागो लौहित्यं यस्यास्तया । अनेनैतस्या विकाससामर्थ्यं ध्वनि- तम् । नवोषसा नूतनप्रातःकालेन नूतनत्वमजरठीभावः । ‘उप रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा ' इति विश्वः । तेन भिन्नं भेदं प्राप्तम् । न तु सम्यग्विकसितम् । अत एवालक्ष्याणि पत्राणामन्तराणि संधिविभागा यस्य तत् । काव्यलिङ्गोपमे । प्रप्रेति त्रान्तरेति छेकश्रुतिवृत्यनुप्रासाः । अत्र बिम्बप्रतिबिम्बभावेनौपम्यादुपमाया भिन्नलिङ्गत्वं न सहृदयोद्वेग- करम् । प्रसारितमित्यस्य प्रतिबिम्बत्वेन भिन्नमित्युपात्तम् । तत्र बालक- करत्वात्सम्यग्विकासो नोक्तः | जालेत्यादेरलक्ष्येत्यादि (?) वंशस्थं वृत्तम् । सुव्रते इति तापस्याः संबुद्धिः । न शक्यो वाचामात्रेण विरमयितुम् त्वं गच्छ । ममकेरए मदीये । ’इदमर्थे केरः’ इति इदमर्थप्रत्ययस्य केरादेशे ’स्वार्थे कश्च’ इति के रूपम् । उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णै रक्तपीतादिभिश्चित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । तह
याच्ञा तेन प्रसादतः करः जालग्रथितांगुलिः जालेष्वन्तरालेषु ग्रथिताः संश्लिष्टा अंगुलयो यस्य स तथोक्तः । इद्धरागया नवोषसा नवमुषः यस्याः सा नवोषस्तया प्रातःसन्ध्यया राजा – स्पृहयामि खलु दुर्ललितायास्मै ।
- आलक्ष्यदन्तमुकुलाननिमित्तहासे-
- रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
- अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
- धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥
तापसी - होदु । ण मं अञं गणेदि । ( पार्श्वमवलोकयति ) को एत्थ इसिकुमाराणं । (राजानमवलोक्य ) भद्दमुह, एहि दाव । मोएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए वाहीअमाणं बाढमिइन्दअं। [भवतु न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् ]
राजा - (उपगम्य । सस्मितम् ।) अयि भो महर्षिपुत्र,
इति तथेति । अनेनैव तावत्क्रीडिष्यामि ! अस्मै इति ’स्पृहेरीप्सितः’ इति संप्रदानत्वे चतुर्थी । आलक्ष्येति । अनिमित्तहासैरकारणहासैर्दन्ता मुकुला इवेत्युपमासमासः । हासानां साधकत्वात् । आ ईषल्लक्ष्या दृश्या दन्तमुकुला येषां ते तान् । अव्यक्ता वर्णा यासु ता अत एव रमणीया वचःप्रवृत्तयो वाग्व्यापारा येषां तानिति बहुव्रीहिगर्भो बहुव्रीहिः । अङ्के कोडे य आश्रमः स्थितिस्तत्र प्रणयो याच्ञा प्रीतिर्वा येषां बालानामङ्ग- रजसा मलिनीभवन्ति । अत एतद्बालेत्यादिविशेषे प्रस्तुते सामान्यवच- नादप्रस्तुतप्रशंसा । तया चाहमवन्य इति व्यज्यते । णीयणयीति स्तस्तेति नयान्येति छेकवृत्तिश्रुत्यनुप्रासाः । वसन्ततिलका वृत्तम् । भवतु न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण । दुर्मोको मोचयितुमशक्यो हस्तेन ग्रहो यस्यार्थादस्माभिस्तेन । डिम्भलीलया बालक्रीडया बाध्यमानं बालमृगेन्द्रं
भिन्नं विकासितम् । स्पृहयामीति । दुर्ललिताय धृर्ताय कोऽत्र ऋषिकुमाराणाम् । निर्धारणे षष्ठी । भद्रमुखेति मान्यस्यामंत्रणे ‘सौम्य भद्र मुखेत्येवं मान्यो राजसुतो भवेत्’ इति । आ-
१ दुम्मोअहत्थग्गाहेण (दुर्मोचहस्तग्राहेण ) इति क्व० पु० पाठः ।
- एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
- सत्वसंश्रयसुखोऽपेि दूष्यते कृष्णसर्पशिशुनेव चन्दनम् १८lt
तापसी--मद्दमुह , ण हु अ अं इसिकुमारओ । [ मद्रमुख, न खल्वयमृषिकुमारः ।
राजा--आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवं तर्किणः। ( यथ:भ्यर्थितमनुतिष्ठन्वालस्पर्शमुपलभ्य | आत्मगतम्) अनेन कस्यापि कुलांकुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमंकोत्कृनिनः प्ररूढः १९
मोचयेति संबन्धः / एवमिति । आश्रमस्य विरुद्ध वृत्तियस्थ तेन त्वया। सत्त्वानां जन्तूनां संश्रयः ! सुखयतीतेि मुखः। सत्त्वसंश्रयश्वासौ सुखश्च। सोऽपि संयमः सम्यग्यमोऽहिसादिः। जन्भतो जन्मागम्य ! एवं सत्त्वो- पद्रवादिना किमिते दूष्यत इति संबन्धः । कृष्णसर्पशिशुना यथा चंदनं दूष्यते । उपमानुप्रासौ । अत्रापि सामान्यधर्मस्योभयत्र यथास्थितत्वेना- न्वयान्न विलिङ्गत्वं दोपः। अथवा “चन्दनोऽस्त्रियाम् इति कोशाच्चन्दन इति पठनीयम् । तदा सत्त्वसंश्रयसुख इति विशेषणमत्रापि योज्यम् । पूर्व त्रपक्षेऽपि विभक्तिविपरिणामेन योज्यम् । आश्रमेत्याऽविशिष्टस्यैवोपमेय त्वात्र न्यूनोपमात्वम् । स्वागता वृत्तम् । भद्रमुख, न खल्वयमृषिकुमारः। आकारोति । आकारश्चेष्टितम् । ऋषिकुमारोऽयं न भवतीति कथयतीत्यर्थः। स्थानप्रत्ययात्स्थानविश्वासात् । यथाभ्यर्थितं बालमृगेन्द्रमोचनमनुतिष्टन्कु- र्वन् । अनेनेति । कस्याप्यज्ञायमानस्याथवा वाचा वर्णीयतुमशक्यस्य कुलेंऽकुरेणाल्पदेनजातन्वकोमलत्वमनोहरवादिनांकुररूपेणानेन गात्रेषु
लक्ष्येति । स्पष्टम् । एवमाश्रमेत्यादि । एवमिस्थमाश्रमविरुद्धवतिना आश्रमस्य विरुद्धं यथा भवति तथा वर्तत इति तथोक्तः । तेन त्वया । जन्मनो हेतोः। सत्त्व- संश्रयगुणोऽपि सत्त्वस्य संश्रयः आश्रयणं स एव गुणो धर्मो यस्य स तथोक्तः । संयमः शमः । किमिति किमर्थं दूष्यते । अत्रोपमामाह-कृष्णसर्पशिशुना चन्दन इवेति । अने
१ वार्तिना इति क० पु० पाठः ।। २ गणोऽपि इति क० पु० पाठः । ३ चन्दनः इति क० पु० पाठः।४तस्य जनस्य इति क० पु० पाठः। ५ अंगात् इति झ० पु० पाठः
- तापसी--( उभौ निर्वर्ण्य ) अच्छरिथं अच्छरिअं । [ आश्व-
र्यमाश्चर्यम्]
- राजा-आर्ये, किमिव ।
- तापसी-इमस्स वलअस्स दे वि संवादिणी आकिदि त्ति
विह्माविद ह्मि। अपरिइदस्स वि द अप्पाडिलोमो संवुत्तों त्ति । [ अस्य बालस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि | अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ]
- राजा--( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयम्, अथ
कोऽस्य व्यपदेश: ।
- तापसी-पुरुवंसो । [ पुरुवंशः ]
- राजा–( आत्मगतम् ) कथमेकान्वयो मम । अतः खलु मदनु
कारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरखाण्यमन्यं कुलव्रतम् ।
द्वित्रेष्ववयवेषु स्पृष्टस्य न तु सर्वाङ्गस्पृष्टस्य ममेवं वक्तुमशक्यमनुभवैकगम्यं विगलितवेद्यान्तरं सुखं यदि तदा कृतिनः । अयमेव कृतीत्यर्थः । यस्या- ङ्कादुत्सङ्गादयं प्ररूढो वृद्धिं प्राप्तस्तस्थ चेतसि कां निर्वृर्ति किं सुखं कुर्या- दितेि न ज्ञायत इति भावः । तस्य सुखानुभवेन प्राकरणेकेनार्थेन तत्पि त्रादेः सुखातिशयस्यार्थादापतनादर्थापत्तिरलंकारः । रूपकम् । तसितस्ये ति कात्कृतीति छेकवृत्तिश्रुत्यनुप्रासाः । इन्द्रवज्रोपेंद्रवज्रयोः प्रथमोप जातिः । उभौ वाल्दुष्यन्तौ । निर्वर्ण्य दृष्ट्वा । आश्चर्यमाश्चर्यम् । इमस्स अस्य यार्स्य तव च संबन्धेन संत्रादीनी सदृश्याकृतिरिति विस्मापितास्मि अपरिचितस्यापि तेऽप्रतिलोमोऽनुकूलः संवृत्त इतेि विस्मापितास्मीत्यनु- षज्यते । कोऽस्य व्यपदेशः किं कुलम् । पुरुवंशः ! अन्यं वानप्रस्था
नेत्यादि एवमनुभधैकवेद्यम् । अन्यत्स्पष्टम् । आर्ये इत्यादि व्यपदेशः कुलप्रसिद्धिः ।
१ तुह संबंध- ( तव संबंध- ) इति क० पु० पाठः । २ विह्मिदह्मि (विस्मितास्मि) इति क्क० पु० पाठः। ३ अज्जस्स ( आर्येश्य ) इति व० पु० पाठः । ४ पुरुवंसओ एसो (पुरुवंशज एषः ) इति क्क० पु० पाठः ।
- भवनषु रसोधिकेषु पूर्वे
- क्षितिरक्षार्थमुशन्ति ये निवासन् ।
- नयतैकपतिव्रतानि पश्चा-
- तरुमूलानि गृहीभवन्ति तेषाम् || २९||
( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष त्रिपयः ।
श्रमविषयम् । भवनेष्विति । पूर्वं यौवने ये राजानः। रसो रागः शृङ्गा रादिश्च मधुरादिश्वास्वादश्च। एते अधिक येषु । एतैर्वाधिकान्युत्तमानि तेषु । ‘रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्यं देहधात्वम्बुपारदे ॥ ' इति विश्वः । भवनेषु गृहेषु । क्षितिरक्षार्थं पृथ्वीरक्ष णाय । निवासं स्थितिमुशन्ति वाञ्छान्ते । ‘वश कान्तौ ’ इति धातुः । कान्तिरिच्छा ” इति क्षीरतरंगिणीकारः । तत्र केवलं महीरक्षायै स्थितिवाञ्छैव । न तत्त्वतः स्थिलिरिति भावः । पश्चाद्वार्द्धेके। तेषां राज्ञां तरुमूलानि गृहीभवन्ति वानप्रस्थाश्रमं विधायाश्रमे निवसन्तीत्यर्थः । कीदृशानि तरुमूलानि । नियता नियमयुक्ता तपःसंतोषादियुतैका केवला पतिव्रता धर्मपत्नी येषु तानि । एतेन तत्पुत्रजन्मादिसंभावनपाकृता । रूपकानुप्रासौ । मालभारिणी वृत्तम् | आत्मगत्या स्वभावगत्या । मानु-
भवनेष्वित्यादि । ये पौरवा: क्षितिरक्षार्थं षष्टांशकरग्रहणेन जनानां विनयाधानरक्षणभर णादिभिश्च कुलकमागतभूलोकरक्षणार्थं भुवनेषु परिखाप्राकारतोरणाद्यलंकृतमहापुरमध्यव- र्तिनत्तदृतुयोग्यावस्थानार्हगृहेषु। पुनः कीद्वाग्वधोष्वित्यत्र आह--सुधासितेष्विति । मुधया धवलेषु विविध प्रासादालंकृतेष्वित्यर्थः। वहुवचनेन सभामंडपसंगीतशालाविविधकेलिगृह- खुरलीभवनादिगृहभेदा: सूच्यन्ते । निवाससुशन्ति वाच्छन्ति । पश्चात् वार्धकावस्थायां प्राप्तायाम्। तरुमूलानि वातातपवृष्टयादिजनितबाधानिवारकशून्यवृक्षमूलानि वनानीति यावत् । नियतैकपतिव्रतानि स्वारसिकानि गृहीभवन्ति । वानप्रस्थाश्रमिणो भवन्तीति यावत् । अत्र स्वारसिकानीति पदार्थे नियतैकपतिव्रतानीति वाक्यार्थ- कथनात् प्रौढिर्गुणः । तदुक्तं “ पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढेि र्व्याससमासौ ” इत्यादि । एवंविधा प्रौढिर्या तल्लक्षणमोजो न गुणः किंतु वैचित्र्यमात्रमेव । गुणकक्ष्यायां न गण्यते । तदभावेऽपि काव्यव्यवहारस्यैव विसंवादः । सगुण इति हि रहस्यम् । कैश्चिच्चतुर्विंशतिगुणवादिनां दशगुणवादिनां च सर्वेषामपि मत निरसनेन त्रय एव गुणाः स्वीकृताः । ते च रसगोचरा व्यंग्याश्च भवन्ति । एते त्रय
१ सुधा सितेषु इति क्व' पु' पाठः ।
- तापसी--जह भद्दमुहो भणादि अच्छरासंबन्धेण इमेस्स
जणणी एत्थ देवगुरुणो तवोवणे पसूदा । [ यथा भद्रमुखो मण त्प्सर:संबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ॥
- राजा--( अपवार्य ) हन्त, द्वितीयमिदमाशाजननम् ।( प्रकाशम् )
अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
- तापसी---को तस्स धम्मदारपरिच्चाइणो णाम संकीतिदुं चि-
न्तिस्सदि [ कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्त- यिष्यति ]
- राजा-( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि
तावदस्य शिशोर्मातरं नामतः पृच्छामि। ( विचिन्त्य ) अथवा नार्य: परदारपृच्छाव्यवहारः।
( प्रविश्य मृण्मयूरहस्ता )
- तापसी--सव्वदमण, सउन्दलावण्णं पेक्ख । [ सर्वदमन-
शकुन्तलावण्यं प्रेक्षस्व ]
- बालः-( सदृष्टिक्षेपम् ) कहिं वा मे अज्जू। [ कुत्र वा मम ।
माता]
षस्वरूपेणेति यावत् । एष देशो मानुषाणां विषयो न पुनरिति संवन्धः एवमुभयथात्मस्पर्शित्वमेवाभिव्यक्तम् । यथा भमुद्रखो भणति । तत्तथैवे . त्यार्थम् । अप्सरसंबन्धेनास्य बालस्य जनन्यत्र देवगुरोः कश्यपस्य तपोवने प्रसूता । हंतेति हर्षे । एको वंशः । एकमिदमिति द्वितीयम् । कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चितयिष्यति । संकीर्तनार्थं हृदि चिन्तनेऽपि दोषः संकीर्तने पुनः किं वक्तव्यमिति भावः ।‘अस्त्येत- पौरवाणाम् ' इत्यादिना ‘ परदारव्यवहारः ’ इत्यन्तेन विबोधनामक- मङ्गमुपक्षिप्तम् । तल्लक्षणं तु- कार्यस्यान्वेषणं युक्त्या विबोधः परि कीर्तितः ? इति । सर्वदमन, शकुन्तस्य पक्षिणो लावण्यम्, अथ शकुन्त लाया वर्ण पश्येति श्लेषवक्रोक्त्यलंकारः। कुत्र वा मे मम अज्जू माता ।
एव शब्दार्थगोचरत्वेनाप्युपचारलक्षणया लक्षिता इति । शकुन्तलावण्यं पश्य
१ बालस ( बालस्य ) इत्यधिकं क्९ पु० पाठः । २ पृच्छेयम् ।
अथवा अन्याय्योऽन्यदार इति कॅ० पु० पाठः।
- उभे -णामसारिस्सेण वञ्चिदो माउवच्छलो । नामसादृश्येन
--णामसारिस्सेण वश्चिदो [ वञ्चितो मातृवत्सलः ।
- द्वितीया-वच्छ, इमस्स मित्तिअमोरअस्स रम्मत्तणं देक्ख
त्ति भणिदो सि । [ बसअस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि |
- राजा- ( आत्मगतम् ) किंवा शकुन्तलेत्यस्य मातुराख्या । "
सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नामे- मात्रप्रस्तावो मे विषादाय कल्पते ।
- बालः--अजुए, रोअदि में एसो भदृमोरओ। ( इतेि क्रीडन-
कमादत्ते ) { मात:, रोचते म एष भद्रमयूरः ?
- प्रथमा-( विलोक्य । सोद्वेगम् ) अम्हहे, रक्खाकरण्डअं से मणि-
वन्धे ण दीसदि । [अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।
- गजा--अलमलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परि-
भ्रष्टम् । ( इत्यादातुमिच्छति )
अज्ज अज्जू च मातरि ’ इतेि देशीशः आर्यभविष्णुश्वश्वामेव (?) तथा च सूत्रम्-- आर्यायां यः श्वश्वाम् ’ इतेि ! नामसादृश्येन वञ्चितो मातृवत्सलः । वत्स, अस्य मृतिकामयूरस्य रम्यत्वं पश्येति मया भणि तौऽसि । “ राजा-यदि तावदस्य ’ इत्यादिना “ मातुराख्या ’ इत्यन्ते नाक्षरसंघातकं नाम भूषणमुपक्षिप्तम् } तल्लक्षणं तु--‘ वाक्यमक्षरसंघातो भिन्नार्थश्लिष्टवर्णकम् ’ इति । आपि नामेति । यथा मृगतृष्णिका विपादाय कल्पते तद्वन्नाममात्रप्रस्ताव इत्यर्थः । अत्र सन्ति पुनर्नामधेयसादृश्या- नीति हेतुत्वेन योज्यम् । अञ्जुए मातः । रोचते म एष भद्रमयूरः । अम्हहे इति खेदे । रक्षाकरण्डकं मणिबन्धेऽस्य न दृश्यते । रक्षाकरण्डकं रक्षावीटिका ।‘ करण्डो मधुकोशे स्याद्वीटिकाखड्गकोशयोः'इत्यमरः।
१ अयमत्र इति क० पु० पाठः 1२ अज्जु ( अंब ) इति क० पु० पाठः
उभे~मा क्खु एदं अवलम्बिअ । कहं गहीदं णेण । ( इतेि विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः ) मा खल्विदमवलम्ब्य ।। कथं गृहीतमनेन ।
राजा--किमर्थं प्रतिषिद्धाः स्मः ।
प्रथमा-सुणाडु महाराओ । एसा अवराजिदा णाम ओसही इमॅस्स जातकम्मसमए मअवदा मारीएण दिण्णा । एदं किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हादि । [ शृणोतु महाराजः। एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल सातापितरावात्मानं च वर्ज- यित्वापरो भूमिपतितां न गृह्णाति ]
राजा---अथ गृह्नाति ।
प्रथमा-“तदो तं सप्पो भविअ दंसइ । [ ततस्तं सर्पो भूत्वा दशति]
मा खल्विदमवलम्ब्य । कथं गृहीतमनेन । उरोनिहितहस्ते इति विस्म याभिनयः । एतदुक्तमादिभरते चित्राभिनयाध्याये --‘ शिरोधृतं पताकश्च वक्षस्थो विस्मये भवेत् ’ इति । अनेनैतस्तुयी (?) अद्भुतरसो व्यज्यते । तल्लक्षणं प्रागुक्तमेव । उक्तं च धनिकेन--‘ कुर्यान्निर्वहणेऽद्भुतम् इति । आदिभरतेनापि-- ‘ निर्वहणे कर्तव्यो नित्यं हि रसोद्भुतः कविभिः इति । अनेनोपगूहनलक्षणमंगमुपाक्षिप्तम् ’ तल्लक्षणं तु --‘ अद्भुत स्य तु या प्राप्तिर्भवेत्तदुपगूहनम् ’ इतेि । शृणोतु महाराजः | एषापरा जिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन काश्यपेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्वति ततस्तं सर्पो भूत्वा दशात । अनेकशः । “ प्रथमा-सुणादु महाराजो २ इत्यादिना “ अणेअस ? इत्यनेन पूर्वभावनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं
शकुन्तस्य पक्षिणः लावण्यम्। अंगसौष्ठवम् । अम्ह इत्यादिना परस्परमलोकयंत इत्यन्तेन अद्रुतार्थप्राप्तिरूपगूहनं नाम सन्ध्यगभुक्तम् । तदुक्तं ‘‘ अत्यद्भुतार्थसंप्राप्तिरूपगूहनमु-
१ मा खु मा खु ( मा खलु मा खलु ) इति क० पु० पाठः। २ इमरभ ( अस्य ) इति ङ० पु• पाठः । ३ सब एव ( सद्य एव ) इत्यधिकं व० पु० ।
राजा-भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
उभे-अणेअसो । [ अनेकशः ।
राजा-( सहर्षम् । आत्मगतम् ? कथंमिव संपूर्णमपि में मनो
रथं नाभिनन्दामि । ( इति बालं परिप्वजते ।
द्वितीया-सुव्वदे, एहि । इमं वृत्तन्तं णिअमव्वावुडाए सउ-
न्दलाए णिवेदेह्म। [ सुत्रते, एहि ! इमं वृत्तान्तं नियमव्यापृ-
तायै शकुन्तलायै निवेदयावः ]
( इति निष्क्रान्ते)
बाल:-मुञ्च मं । जाव अज्जूए सआसं गमिंस्सं[ मुञ्च
माम् । यावन्मातुः सकाशं गमिष्यामि }
राज--पुत्रक, मया सहैव मातरमभिनन्दिष्यसि।
बालः--मम क्खु तादो दुस्सन्दो । ण तुमं । [ मम खलु
तातो दुष्यन्तः । न त्वम् |
राजा- ( सस्मितम् ) एष विवाद एव प्रत्याययति ।
( ततः प्रविशत्येकवेणीधरा शकुंतला )
शकुन्तला-विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण में आसा आसि अत्तणो भाञहेएसु। अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं । [ विकारकालेऽपि
तु--‘ पूर्वभावस्तु विज्ञेयो यथार्थोक्तोपदेशकः ’ इति । सुव्रते, एहेि । इमं वृत्तान्तं नियमव्यापृतायै । अनेनाद्यपि त्वत्प्राप्त्यर्थं नियमकारित्व मुक्तम् । शकुन्तलायै निवेदयावः । मुञ्च माम् । यावन्मातुः सकाश गमिष्यामि । मम खलु तातो दुष्यन्तः । न त्वम् । प्रत्याययतीत्येताव त्पर्यन्तं प्रत्ययो नोत्पन्न एवेति भावः । विकारकालेऽपि प्रकृतिस्थां सर्व
च्यते " ’ इति । प्रत्याययति विश्वासं जनयतेि । पुत्रेत्यादिना प्रत्याययतीत्यंतेन कार्यं
प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशामीदात्मनो भाग-
धेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् ?
राजा-( शकुंतलां विलोक्य ) अये, सेयमत्रभवती शकु-
न्तला यैषा
वसने परिधूसरे वसना
नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला
मम दीर्घ विरहव्रतं विभर्ति ॥ २१ ॥
शकुन्तला-( पश्चात्तापविवर्णं राजानं दृष्ट्वा ) ण क्खु अज्जउत्तो विअ । तदो को एसो दाणिं किदरक्खामङ्गलं दारअं मे गत्तसंस रगेण दूसेदि । [ न खल्वार्यपुत्र इव । ततः क एष इदानीं कृत रक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।
दमनस्यौपधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । अनेन समयाख्यमङ्गशुपक्षिप्तम् | तल्लक्षणम्--‘ दुःखस्यापगमो यस्तु समयः स निगद्यते ’ इति । वसन इतेि । परितः सर्वतो धूसरे नोज्ज्वले । इदमेव । विधेयम् । वसने अन्तरीयसं व्याने वसाना । नियमेन तपआदिना क्षामं कृशं मुखं यस्याः सा । अत्रा पावृतमुख्या मुखस्यैव दर्शनात्क्षाममुखीत्युक्तिः। अनेन नाभिगृहस्थिताव- प्यतिशयलज्जालुत्वं व्यज्यते । मुखापवरणं तु चिरतरकालतद्दर्शनोत्कण्ठया तदर्थमेव च प्रवृत्तेरितेि नानौचित्यम् । धृतैका वेणिर्यस्याः सा । यत एतादृश्यत एव शुद्धशीला शुद्धस्वभावा । अतेिनिष्करुणस्यातिशयकृपा- हीनस्य मम मत्संबन्धिनं दीर्घं बहुकालीनं विरहव्रतं विभर्ति । काव्यलिङ्ग- स्वभावोक्ती । वसवसेति सनेसानेतेि छेकानुप्रासवृत्यनुप्रासौ । वृत्तभनन्त रोक्तम् । ‘राजा--' इत्यादिनैतदन्तेन संधिर्नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु--‘ मुखबीजोपगमनं संधिरित्यभिधीयते ’ इतेि । न खल्वार्यपुत्र इव
सदृष्टत्वात् पूर्वाभाव इति सन्ध्यंगमुक्तं भवति “ पूर्वभावः स विज्ञेयो यत्तु कार्योपपा-
दनम् ' ’ इति । वसनेत्यादि । शुद्धशीला न तु कृत्रिमशला । दीर्घं बहुकालव्या-
पकम् । विरहिजनासह्यषङ्तुव्यापकमिति यावत् । बिभर्तीति वर्तमानव्यपदेशेन मम
बालः- (भातरमुपेत्य ) अज्जुए, एसो को वि पुरिसो में पुत्त
त्ति आलिङ्गदि । [मातः, एष कोऽपि पुओो मां पुत्र इयालिङ्गति
राजा–प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृ-
त्तम्, यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला--( आत्मगतम् ) हिअअ, अस्सस अस्सस। परिच्च-
त्तमच्छरेण अणुअम्पिअ ह्मि देव्वेण । अज्जउत्तो क्खु एसो ;
[ हृदय, आश्वसिहि आश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि
दैवेन । आर्यपुत्रः खल्वेषः ]
राजा-प्रिये,
स्वृतिभिन्नमोहतमसो दिष्टया प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ।। २३ ॥
पश्चात्तापविवर्णत्वं हेतुस्वेन योज्यम् । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गोत्रसंसर्गेण दूषयति। मातः, एष कोऽपि पुरुष इति मामालि ङ्गति । अनुकूलः परिणामः परेपाको यस्य तत् । त्वं यदागतासि तद् मया न प्रत्यभिज्ञातासि । मयि पुनरागते त्वया प्रत्यभिज्ञात इत्यनुकूल- परिणामता । हृदय, आश्वसिहेि आश्चसिहे । परित्यक्तमत्सरेणानुकम्पि तास्मि दैवेन | आर्यपुत्रः खल्वेषः । अनेनानन्दनामकमङ्गमुपक्षिप्तम् तल्लक्षणं तु --‘ समागमस्तु योऽर्थानामानन्दः स तु कीर्त्यते ’ इति स्मृतीति। मोहस्तमो राहुरिख मोहतमः । अनेनोपमानेन राज्ञा तस्य दर्शनसमयेऽपि विभर्तीति विरहव्रतानुष्ठानस्याकृत्रिमत्वं व्यज्यते । प्रिये क्रौर्य- मित्यादि । प्रयुक्तं कृतं मे क्रौर्यमपि प्रस्थादेशक्रौर्यमपि अनकूलपांरपाकं संवृत्तं संजा- तम् । परस्परविरहजनितशरीरकार्श्यवैवर्ण्यादीनाममाभ्यामनुरागज्ञापकहेतुना दृष्टान्त त्वादनुगुणपरिपाकं जातम् । तदेव विशदयति-यदित्यादि । यद्यस्मात्कारणात् इदानीं हठाद्यादृच्छिकदर्शने सतीत्यर्थः । अयमहं पश्चात्तापजनेतकार्श्यर्युवैवर्ण्यादिक्लिष्टोऽहमिति यावत् । आत्मानं मां त्वया प्रत्यभिज्ञातम् । कुत्र वायमिति यश्चात्तापकार्श्यवैवर्यादिभिः ज्ञातं पश्यामि जानामि । तस्मादनुकूलपरिणाममिति संबन्धः । स्मृतिभिन्नेयादि
शकुन्तला-( सहर्षम् ) जेदु जेडु अज्जउत्तो। ( इत्यर्धोक्ते बा- ष्पकण्ठी विरमति ) [ जयतु जयत्वार्यपुत्रः ]
गाढत्वमुक्तम् । ‘ तभस्तु राहुः स्वर्भानुः ’ इत्यमरः । उपमासाधकमन न्तरमेव वक्ष्यामः । स्मृत्या भिन्नं दूरीकृतं मोहतमो यस्य तस्य मे मम प्रमुखे संमुखे दिष्टया दैवेन हे सुमुखि, स्थितासि ! सुमुखीति साभि प्रायम् । सुमुखस्यैव संमुखे स्थातुं योग्यत्वात्कुमुखगोपनमेव करोतीति यत्तत् (?) उपरागन्ते ग्रहान्ते ।’ उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च' इत्यमरः । शशिनश्चन्द्रस्य रोहिणी नक्षत्रविशेषो योगं संबन्धं समुपगता । अत्र मुखेमुखीति सिमेसघिते छेकानुप्रासः । संदेहसंकरः । सकारादीनां अन्त्याक्षराणां मकारादीनामोष्ट्याक्षराणां बहूनां सत्त्वाच्छु- त्यनुप्रासः । अनेन स ( ?) पूर्वस्यैकवाचकानुप्रवेशलक्षणः संकरः। अर्थाभ्यां यत्तद्भयामेकवाक्यत्वात्संभवद्वस्तुसम्बन्धान्निदर्शनम् । मोहतम इत्येकदेशविवर्तिन्युपमाने तत्स्मृतेर्नियतत्वमप्युपमितम् । ततश्च विशेषण स्वेनापि योज्यम् । नियत्याभिन्नं मोहवत्तमो राहुर्यस्येत्युपप्रासा- धिका चात्र निदर्शनैव । अन्ये तु दृष्टान्तमेवाहुः । अन्ये साधक बाधकप्रमाणाभावादुभयोः संदेहसंकरमाहुः । । जयतु जयत्वार्यपुत्रः ।
मुमुखीति संबोधने । स्मृत्या मरणेन भिनं नष्टं मोह एव तमः यस्य स तथोक्तः । तस्य चंद्रपक्षे तमःशब्दो राहुवाचकः । उपरागान्ते योगं प्राप्तिं समुपगता रोहिणीवासीत्यनेन यथा चंद्रस्याश्वित्यादिकनक्षत्रेषु सत्स्वपि रोहिण्यामसाधारणोऽनुरागस्तथा भम बहुवल्ल- भत्वेऽपि त्वय्येवानुरागप्रकर्षः । त्वद्व्यतिरिक्तभार्या: संख्यामात्रपूरका इति भावः । तेन च स्वशरीरक्षामतादीनां शकुन्तलविरहनिमित्तकत्वं द्योत्यते । वर्तमानप्रत्ययेन शकुन्तला दर्शनानंतरमुत्तरक्षणे स्वस्य तद्विरहजनितकार्श्यवैवर्ण्यभ्रंशान्मुखशोभाप्रादुर्भावः प्रकाश्यते । सुमुखीति संबोधनेन शकुन्तलाया अपि दुष्यन्तदर्शनानंतरमुत्तरक्षणे देहतनुतादिवैवर्ण्य- भ्रंशान्मुखोभाप्रादुर्भावो राज्ञा सूच्यते । अनन हि तदीयमुखनिर्गतवचनश्रवणौत्सुक्यं च प्रकाश्यते न च तदीयप्रेमवीक्षणं ध्वन्यते । अयमर्थशकिमूलः संलक्षिको व्यंग्य:। तदुकं ‘‘ वाच्यव्यंग्यावगति: लक्ष्यो यत्र क्रमोऽनुरणानात्मा शब्दार्थो- भयशक्त्या त्रेवा संलक्ष्यकव्यंग्य:॥ * इति । कांस्यादीनामास्फालनसमयस- मुदीर्णप्राथमिकध्वनिसदृशी वाच्यार्थावगति: आस्फालनसमनंतरसमयश्रूयमाणध्वनिसदृशी व्यंग्यार्थवगतिः । इत्थं स्वकीयवचनश्रवणतात्पर्यै व्यंग्यमिति मनसि निधाय वदति । जेडु इस्यादि । जयत्वित्यर्धोक्ते अर्थस्य वाक्यैकदेशस्य उक्ते आर्यपुत्रे इत्यादि वाक्य-
राजा-सुंदरि,
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३ ॥
बालः-अज्जुए, को एसो । मातः, क एषः ]
शकुन्तला-वच्छ, दे भाअहेआई पुच्छेहि । वत्स, ते
भागधेयानि पृच्छ ]
राजा-( शकुन्तलायाः पादयोः प्रणिपत्य )
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते ।
किमपि मनसः संमोहो मे तदा बलवानभूत् ।
बाष्पेणेति । बाष्पेणाश्रुप्रारम्भेण । एतेन चातिविरहक्लान्तत्वं व्यज्यते । एतादृशं ते मुखं दृष्टामितेि विशिष्टं विधेयम् । विशिष्टमुखदर्शनेन च विरहनाशः । अत एव जय इत्यवधातव्यम् । जयशब्दे प्रतिषिद्धेऽपि जितमिति विरोधाभासः । जितं प्रत्युत्तरार्धस्य हेतुत्वेनोपादानात्काव्यलिङ्गमपि । श्रुतिवृत्त्यनुप्रासौ । मातः, एष कः ? वत्स, ते भागधेयानि पृच्छ ? क्वचित्पुस्तके “ पुच्छेहि ’ इति नास्ति । तस्मिन्पाठे रूपकम् । सुतन्वािति । कुतनावप्रीतिर्न सुतनाविति संबोधनं हे सुतन्विति । तव हृदयात्प्रत्यादेशव्यलीकं निराकरणाप्रियमपैतु दूरीभवतु | व्यलीकं त्वप्रियेऽ-
पूरकपदनिर्गमनात्प्रागेवेत्यर्थः । सुन्दरीत्यनेन स्वदर्शनादरजनिततच्छरीरशोभाप्रकर्प: मृच्यते । तेन च पूर्वानुभूततदीययौवनपरितोपस्मरणेन गाढालिंगनेच्छा द्योत्यते । बाष्पेणेत्यादि । बाष्पेण प्रतिषिद्धेऽपि तादृगनुरागानुचितप्रत्यादेशक्रौर्यस्मरणजनित- दुःखवशात् स्वच्छन्दस्यापि बाष्पस्य निर्गमने सत्यमंगल्याधिया कंठ एवोपरोधात् गद्गदभावेन वर्णाच्चारणाशक्त्या जयशब्दे प्रतिवद्धेऽपीत्यर्थः |मया त्वद्विरहपरंपराजनितदुःखासहिष्णुतया जीवितधारणेऽप्यशक्तेन मयेत्यर्थः । प्रत्यादेशजनितविप्रियस्य त्वच्चित्ते रूढमूलतया प्रसादकरणसूचककर्णरसायनजयशब्दनिर्गमाभावेऽपि दुःखपरित्यागसूचकबाष्पप्रादुर्भावेन वचनोच्चारणोद्योगमात्रेण च त्वत्प्रसादः प्राप्त इत्यर्थः । अतस्तावूज्जितमित्युक्तम् । यद्यत्मात्कारणात् । असंस्कारपाटलोष्ठपुटं श्वेताधरं मुखं नेत्राधरकपोलादिवहुचुंनविषयभूतमाननमिति यावत् । अज्जु इत्यादि । सुतन्वित्यादि ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४ ॥
नृते ? इयमरः। अप्रियस्य हृदयात्त्यागेऽर्थतः सिद्धेऽपि पुनस्तद्रहणं विप्रियं मया त्यक्तमिति वाङ्मात्रेण न त्यागः । अपि तु तत्संकारोन्मूलनपूर्वकं त्याग इति ध्वनति । किमर्थमप्रियं कृतं तत्राह-किमपीषनोयस्यासौ किमपिमनास्तस्य किमपिमनसो मे मम तदा त्वद्दर्शनसमये बलवानधिक: संमोहोऽज्ञानमभूदिति विशिष्टं विधेयम् । तेन संमोहेन मन्मनःसमुन्मूलनं जातमित्यर्थः । तेन चित्ताभावात्कृतमिदं क्षन्तव्यमिति भावः । संमोहान्मनसमुन्मूलनं जातामित्यस्य शाब्दे विधेयत्वे वक्तव्ये पदार्थविधेयत्वं तत्संमोहस्य प्राधान्यद्योतनाय । तेन संमोहस्य मनोधर्मत्वान्मनसः संमोहो जात इत्यार्थे पैौनरुक्त्यं निरस्तम् । प्रबलेति | प्रबलतमसामधिकसंमोहानाम् । अत्र प्रबलतमःशब्देनाधिकशोक उच्यते । तज्जन्यः संमोहो लक्ष्यते । तदतिशयो व्यज्यते । अत एवोद्देश्यप्रतिनिर्देश्यप्रक्रममङ्गो नाशङ्कनीयः । ‘ तमः शोके गुणान्तरे ’ इति विश्वः | शुभेषु कार्येषु । एवंप्रायाः शुभत्यागरूपाः प्रवृत्तयो भवन्ति | इत्यर्थान्तरन्यासः । दृष्टान्तमप्याह-स्रजमिति । अन्धः शिरःस्थापिता परिधापितां स्रजं मालामप्यहिशङ्कया सर्पशङ्कया धुनोति तिरस्करोति ?
सुतन्वित्यनेन गाढालिंगनेच्छा द्योत्यते तेन च स्वशरीरसद्भावस्य स्वदीयालिंगनादिमत्वेन सफलत्वं एतावत्पयैतं तदभावात् स्वयं भाग्यहीन इति द्योत्यते । तेनानुशयो व्यज्यते हृद्यात् सर्वकरणप्रधानभूतचित्तात् । प्रत्यादेशव्यलीकं न्यक्कारजनिताप्रियम् । ‘‘अलौकत्वाप्रियेऽनृते ’’ इत्यमरः । हृदयादित्वनेन पश्चात्तापजनितमदीयशरीरकार्श्यवैवर्ण्यगद्गद- दैन्यवचनदर्शनश्रवणाभ्यां त्वदीयनेत्रश्रोत्रस्थितप्रत्यादेशव्यलीकं गतमिदानीं पादप्रणामेन हृदयस्थव्यलीकमपि गच्छत्विति भावः । तदा पञ्चमेऽङ्के त्वदागमनसमये | मे तादृगनुरागातिशयवतो ममेत्यर्थः । मनसः ज्ञानाधारकरणस्य न तु त्वदीयसौन्दर्यवचन- दर्शनश्रवणवैमुख्येन नेत्रश्रोत्रयोः । किंतु मनसः मनोवागक्ष्प्यगोचरं कारणशून्यमिति यावत् । अभूदिति भूतार्थेन तदानींतनसंमोहस्यानिर्वचनीयतया स्मरणानर्हता ध्वन्यते तैन निर्वेदः । ग्रवलतमसामिति बहुवचनं निर्वेदसूचकम् । एवमनुभवप्रकारेण प्रायो भूमा यासां ताः । शुभेष्वपि पूर्वजन्मान्तरोपार्जितसुकृताविशेषै: प्रार्थनीयसुखजनकवस्तुप्राप्ति- ष्वपि वृत्तयः व्यापाराः तदेव दृष्टान्तेन विशदयति । स्रजमपीति । अन्धः सर्वे-
शकुन्तला-दृढं अज्ञउत्तो ! णृणे मे सुअरिअप्पडिवन्धअं!
पुराकिदं तेसु दिअहेसु परिणांसमुहं आसि ञण नाणुक्कोनो वि
अज्जउतो मइ विरसो सेवृत्तो । [ उत्तिष्ठन्वायंपुत्रः। नुनं मे
सुचरितप्रतिवन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीद्येन वानु
क्रोशोऽप्यार्यपुत्रो मयि विग्भः संवृत्तः |
( गजोत्तिष्ठति )
शकुन्तला-अहं कहे अलंउत्तेण सुमरिदो दुक्खनाई अङ
जणो । [ अथ कथमार्यपुत्रेण स्मृतो दुःखमारमयं जनः ]|
राजा-उदृतविषादशल्यैः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो वाष्पबिन्दुरधरं परिबाधमानः ।
अहिशङ्कयेति भ्रान्तिमान् । काव्यलिङ्गश्रुत्यनुप्रासौ | कमकिमेति नपैभपीति बलवलेति छेकानुप्रासः । हरिणीवृत्तम् ! राजा --शाकुन्तलाया: पादयोः प्रणिपत्य ' इत्यादिनानुनयो नाम भूषणमुपक्षिप्तम् । तल्लक्षणं तु-- अभ्यर्थनापरं वाक्यं विज्ञेयोऽनुनयो बुधैः ? इति । उत्तिष्ठत्वार्य- पुत्रः । नूनं निश्चितं मे सुचरितप्रतिबन्धकं पुराकृतम् । कमेन्यर्थ: ! तेषु दिवसेषु परिणाममुखं परिपाकोन्मुखमासीद्येन सानुक्रोशोऽपि सकृषोऽप्यार्यपुत्रो मयि विरसो विरागः संवृत्तः | अथ कथमार्यपुत्रेण स्मृत दुःखभाग्ययं जनः । उदृतविषादशल्य इत्युपमा । इह लोके शोकस्य वक्ष्यमाणत्वात् । अतिखेदत्वं व्यङ्गयम् । मोहादिति । हे सुतनु मया
द्रियाणां नयनं प्रधानम्" इति न्यायेन रम्यवस्तुदर्शनजनितसुखानुभवशून्यमिति यावत् । क्षत्रमपि सौरभमार्दवदर्शनीयतया धार्वपदार्थमपि शिरसि पुष्पधारणार्हप्रदेशे शिरसीति यावत् न तु कंठे । अनेन श्लोकेन प्रसादो नाम सन्ध्यंगमुक्तं तदुक्तं ‘‘ प्रसादः पर्युपासनम्' इति । अत्र हि राज्ञा शकुन्तलायाः पर्युपासनं कृतम् । उदृतविषादशल्य इत्यादि। मोहादिति । पूर्वं इतः प्रत्यादेशादित्यत्र प्रसक्तग्रत्यादेशत्रेलायासुत्पन्नो यो बाष्प उपेक्षि .
तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ २२ ॥
( इति यथोक्तमनुतिष्टति )
शकुन्तला- (नाममुद्रां दृष्टा ) अज्ज उत्त, एदं ते अङ्गुलीअअं | [ आर्यपुत्र, इदं तेऽङ्गुलीयकम् ]
परमविवेकिना धर्मभीरुणा परमविदग्धेन दुष्यन्तेनेत्यर्थान्तरसंक्रान्तम् । मोहादज्ञानात्ते तव वाष्पावेन्दुः। जात्येकवचनम् । उपेक्षितो न मार्जितोऽत एवाधरं परितः सर्वत्र बाधमानः । स्थित इतेि शेषः । अनेन विन्दूनामनवरतपातिनास्थूलतोप्णताद्ययावस्थितिश्च ध्वनिता । तेन मार्जनकारण- सामयां सत्यमपि यत्तदनुत्पत्तिः सा विशेषोक्तिः । मोहादिति निमित्तस्योक्तपादुक्तनिमित्तता तावदादावादित्यकथनापेक्षया तं वाष्पं प्रमृज्य प्राश्य विगतानुशयो गतपश्वात्तापे भवेयम् । आशंसायां लिङ् । कीदृशम् । आ ईषत्कुटिलं यत्पक्ष्म तत्र विलग्नं संबद्धम् । अनेनास्य वाष्पस्य बिन्दुत्वाभावस्तदभावेनाधरपीडनाभावश्च ध्वनितः । ननु तस्य वाष्पस्यातीतत्वात्तमिति तच्छेषनिर्देशः कथमिति चेदुच्यते । यतश्चिरनुभूतान्यपि बन्धुदर्शनाज्जनस्य दुःखानि नवीभवन्तीत्युक्तदिशा एनं दृष्ट्वा तस्याः पूर्वदुःखस्मरणेन यो वाष्प उत्पन्नः स तच्छब्देन राज्ञा परामृष्टः । दुःखहेतुत्वादुभयोः । आकुटिलेति व्यतिरेकः । यतस्तदा शोकावेगवशाद्बिन्दुरूप एवोत्पन्नः । अधुना क्रमिकत्वात्तदवस्थास्य भाव इति बोद्धव्यम् । अत एतत्प्रमार्जनेन विगतानुशयत्वम्| इदमेवोद्धृतविषादशल्यत्वम् । यतोऽपराधादिनानुशयो हेि विषादः । तदुक्तं सुधाकरे --‘ अपराधपर ज्ञानादनुतापस्तु यो भवेत् । विषदः ’ इति । श्रुतिवृत्त्यनुप्रासौ । बसन्त तिलकं वृत्तम् । यथोक्तमनुतिष्टति । बाष्पमार्जनं करोतीत्यर्थः । तच्च त्रिपताकवनामिकयेति ज्ञेयम् । तदुक्तं संगातरत्नाकरे--' तन्मार्जने च स्यादधो यान्तीमनामिकाम् (?) । नेत्रक्षेत्रगतां बिभ्रत् ' इतेि । अनेन कथयिष्यामीति यदुक्तं तत्प्रसङ्गोऽप्युपदर्शितः । आर्यपुत्र, इदं
राजा--अस्मादंगुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
शकुन्तला-दिसमं किदं णेण जं नदी अअउत्तस्य पूर्वंअकाले
दुदुल्लहं आसि [ विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले
दुदृर्लभमासीत् ]॥
राजा-तेनं धृतुसमवायचिह्नं प्रतिपद्यनां लता: कुसुमम् |।
शकुन्तला---णं से विस्मयामि ! अअउत्तो एव्व णं धारेदु ।
£ नास्य विश्वसिमि । आर्यपुत्र एवैवद्धारयतु !
( ततः प्रविशति मातलिः )
मातलिः -दिष्टया धर्मपत्नीममागमेन पुत्रमुखदर्शनेन
चायुष्मान्वर्धते ।
राजा-अभूत्संपादितस्वादुफलो छों में मनोरथः { मातले, न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
मातलिः--( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् |
भगवान्मारीचस्ते दर्शनं वितरति ।
राजा-शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य
भगवन्तं द्रष्टुमिच्छामि ।
तेंऽगुलीयकम् । अंगुलीयस्योपलम्भ: प्राप्तिस्तनात् / विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । । तेन कारणेन हि निश्चितं लता कर्त्री ऋतो: समवायः संबन्धस्तस्य चिह्नं कुसुमं प्रतिपद्यताम् । अत्र वयांगुलीयकं धारणीयमिति प्रस्तुते यल्लताकुसुमवृत्तान्तोऽन्यः प्रस्तुत उक्तः सादृश्येन साप्रस्तुतशंसा । नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु । “ राजा--प्रिये, स्मृतिमिव-' इत्यादिनैतदन्तेन परिभाषणं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- मिथः संजल्पनं यम्यात्तदाहुः परिभाषणम् ’ इतेि ।' ततः प्रविशति मातलिः ' इत्यादिना ग्रथनं नामाङ्ग-
शकुन्तला-हिरिआमि अज्ञउत्तेण सह गुरुसमीवं गन्तुं }
[ जिह्वेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ]।
राजा-अप्याचरितव्यमभ्युदयक/लेषु] एह्येहि ।
( सर्वे परिक्रामन्ति )
( ततः प्राविशत्यादित्या सार्धमासनस्ठो मारीचः )
मारीच–( राजानमवलोक्य ) दाक्षायणि
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ?
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥
अदितिः -संभावणीआणुभावा से आकिदी [ संभावनीयानु भावास्याकृतिः ॥
मुपक्षिप्तम् |तल्लक्षणं तु -- उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् इति ? ‘ राजा--अभूत्संपादितस्वादुफलो मे मनोरथः ’ इत्यनेन प्रहर्षनामा नाट्यालंकारः उपक्षिप्तः । तल्लक्षणं तु--‘ प्रहर्षः प्रमदाद्वाक्यम् इति| लज्जाम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । अभ्युदयकालेषु मङ्गलोत्सवादिसमयेष्विदमाचरितव्यमेव । दाक्षायणि दक्षपुत्रि । पुत्रस्येति अयं दुष्यन्त इत्यभिहितः | इति नामपरामर्शाच्छब्दपरो निर्देशः । तेन दुष्यन्तनामधेयक इत्यर्थः । भुवनस्य भर्ता भूमण्डलस्य पालकः ते तव पुत्रस्येन्द्रस्य रणशिरस्यग्रयाय्यग्रेसरः } इदमेव विधेयम् । यस्य चापेन धनुषा विनिवर्तितकर्म समापितकार्यं कोटिमदित्यकुण्ठकोटिमदित्यर्थः । तेन युद्धक्षमत्वं ध्वन्यते । एतादृशापे मघोनः कुशं वङ्गमाभरणं जातम् । वीर्यलक्षणस्य वस्तुनोऽतिशयितत्वेन वर्णनादुदात्तं रूपकं च स्यस्येति यययायीति छेकवृत्यनुप्रासौ च । वसन्ततिलकं वृत्तम् । संभवनीयानु
|
तः अपरिमृष्टः तं बाष्पमद्य प्रमृज्यापनीय विगतानुशयोपगतपश्चात्ताप: । पुत्रस्यत्येत्यादि | ते तव यस्य पुत्रस्य चापेन विनिवर्तितकर्मजातं विनिवर्तितकार्यसमूहम् | कोटिमच्छतको- टिकुलिशं मघोनः देवेन्द्रस्य आभरणं वज्ररूपत्वादलंकरणं न त्वायुधभावेन दुष्टनिग्रहादि .
मातलि: -आयुष्मन्, एतौ युद्धप्रीदिपिसशुनेन चक्षुषा
दिवांकमां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
गजा-मातले, एतौ
प्राहुर्द्वादशधास्थितस्य मुनयो वनेजन: कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चके भवायास्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं त्त्रष्टुरेकान्तरम् {! २७ ।
भावाम्याकृतिः ? संभावनीयोऽनुभाव: प्रभावो यस्य स |६ पुत्रप्रीतिपिशुनेन पुत्रस्नेहसूचकेन |’ पिशुनैः बलसूचकौ ' इत्यमरः । इन्द्रऽनयो: पुत्रस्नम्य त्वं मित्रम् । अतस्त्वमपि पुत्रप्राय: पुत्रस्नेह इत्यर्थे: । दिवौकसां देवानां पितरावदितिकश्यपौ । प्राहुरिति । मुनयो व्यासादय: | इत्यनेनैषां विप्रलम्भकरणपाटवादिसाहित्यं ध्वन्यते । तेन च तदुक्तेवदानुमनेन प्रामाण्यम् । द्वादशधास्थितस्य द्वादशसु मासेषु द्वादशमृर्तिधरस्य तेजसः सूर्यस्य यत्कारणं निदानमामनन्ति ! जगत्प्रदीपस्य विश्वःशेषकियकलापकारणभूतस्योत्पादकत्वेन तेजोराशित्वं ध्वनितम्न - तथा च विष्णुपुराणे-‘ तत्र विष्णुश्च शक्रश्च अ पुनरेव हि द अर्यम चैव धाता च त्वष्टा पृषा तथैव च । दिवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चादितिन आदित्या द्वादश स्मृता: ।। चाक्षुपस्यान्तरे पूर्वमासे ये तुषिताः सुगः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ ९ इति । अथवा द्वादशधास्थितस्य द्वादशकलात्मकस्य। तदुक्तामाचार्यै:-‘तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्ना
रुपक्रियासाधकम् ? प्राहुर्द्वादशधेति । यद्वन्द्वम्, ! द्वादशधास्थिनस्य तेजसः सूर्यात्मकस्य कारणं हेतुं जनकनाहु: यद्वन्द्वम् यज्ञभागेश्वर ! यज्न्भागानामीश्वरं भुवनत्रयस्त्र भर्तारम्। देवेन्द्रमित्यर्थः । सुषुवे 'जनयामास यस्मिन्द्वन्द्वे,आत्मभुव: व्रश्रणः परः श्रेष्ठोऽपि विष्णुः भवाय जन्मने आस्पदं प्रतिष्टां चक्रे उपेन्द्रावतारस्य कारणमुक्तम् | दक्षमरीचिसंभवं दक्षमरीचिम्यां संभवमुत्पन्नम् । दक्षाददितिः मरीचेः कश्यप इत्यनुसन्धेयम् | 't अत एव त्रभुर्वाणः एकान्तरं एकः पुरुषः अंतरं व्यवधानं यस्य तत्तश्चोक्तम् । ब्रह्मणो मरीचिः मरीचेः काश्यपः ब्रह्मणो वृक्षः दक्षाददितिः इत्येकान्तरसनुसंधेयम् ।
मातलिके-अथ किम् ?
राजा-( उपगम्य ) उभाभ्यामपि वःसवनुयोज्यो दुष्यन्तः
यणमति ।
भोगदा विश्व बोधिनी धारिणी क्षमा या कभाद्या वसुधाः सयठण्डान्त द्वादशेरिंताः ॥ " इतेि । यद्युवनत्रयस्य भूभुवःस्वर्लक्षणस्य भर्तारं पोषकत्वेन धरणसमर्थम् । स्वामिनमिति यवत् । यज्ञस्य भागे विद्यते येषां ते यज्ञभाग देवस्तेषामीश्वरम् ? इन्द्रमित्यर्थः ? सुषुवे जनयामास । यज्ञभागेश्वरम्, न सुरेश्वरम् { न भुवनभ्य भतीरम्, अपि तु त्रयस्येते । तस्योत्स्कची बदना पदसमुदयेन तदुपकलतस्य कोऽप्यतिशय ध्वनितः । तस्मिन्द्वन्द्वे आत्मना भवतीत्यभभवः स्वयंभूः परः पुरुषे विष्णुर्भवाय जन्मन अस्पदं स्थानं चक्रे i विष्णुपुराणे-- मन्वन्तरे च संप्राते तथा वैवस्वते द्रिज ! वामनः कश्यपाद्विष्णुरदित्यां संधभूव ह ! । ? इति । इदं च हन्तुं मिथुनम् ! दक्षः प्रजापतिस्तत्संभवादिति । मरीचि संभवः कश्यपः । अत एव त्रपुत्रैझण एक भयादिरन्तरं यस्य सः । अनेन ब्रह्मतुल्यत्वं यनिदम् ! < अङ्गभूतमहापुरुषचरितवानमुदात्तम् इति तल्लक्षणदत्र पादत्रये मालदात्तान्कारः । आत्मभवो भवायते विरोधाभासोऽपि भवोभवेति द्वन्द्वंति छेकानुप्रासवृत्यनुप्रास यज्ञभागै- श्चरमिते विंशेष्यम् ! परः पुरुष इति विशेषणप्रक्रमभङ्गो न शङ्कनयः । समुदायेन संक्षिप्रतिपादकपमवयवार्थेन च व्यञ्जकत्वं अपालिषदवन्न विरुद्धम् ! कारणे सुषुवे भवायास्पदं चक्र इति पर्यायैकस्यैवार्थस्य ग्रहणादर्थावृत्तिरलंकारः शार्दूलविक्रीडितं वृत्तम् । तदुक्तं विष्णुपु राणै-- अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् / भूत्रं पुलस्त्यं पुरुहं सुभङ्गिरसं तथा ! मरीचे दक्षमत्रेि च मानसन १ इति । तथा ‘ भृगोः ख्यातिर्भवेत्सत्यं संतिश्च मरीचयः ’ इति । तथा ६ पट दक्षोऽसृजकन्या दारिण्यामिते नः श्रुतम् ! इदं सदृशधर्माय कश्यपाय त्रयोदश ॥ ’ इति । तथा ८ मारीचः कश्यपाज्जातास्ते दैत्या दक्षक- न्ययोः ’ इति । इयं च सृष्टिवैवस्वतमन्वृन्तरं । नन्वयं प्राचेतसः पृथुवंश- समुद्भवो दक्षस्तस्य स्रष्टुरेकान्तरत्वं कथमिति चेदुच्यते-- स एव
मारीचः-वत्स, चिरं जीव । पृथिवं पालय ।
आदितिः--चच्छ, अप्पडिरहो होहि £ दस, अप्रतिरथ भव ।
शकुन्तला-दरअसहिद व पादत्रन्दणे केरेमि [ द्रक्स
हिता वां पादवन्दनं करोमि ]
मारीचः-वत्से,
आखण्डलसमो भर्ता जयन्प्रतिमः मुनः ।
आशीरन्या न ते योग्या पॅलोमीसदृशी भव ॥ २८ ॥
अदितिः-जादे. भतु अभिमंदा हेहि । अवस्स दीहऊ बच्छओ उहअकुलणन्दण होदु । टवचिमह [ जाते, भर्तुरभिमत भव । अवश्यं दीर्घायुर्वत्स उभयकुलनन्दने भवतु । उपविशुरु {
( सर्वे प्रजापतिमभित उपविशति । )
मारीचः--( एकैकं निर्दिशन् )
देष्टया शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ।। २९ ॥
दक्षस्तत्रत्यः ’ इत्यदोषः । तथा च विष्णुपुरम् - दशभ्यस्सु प्रचे तोभ्यो मारिषायां प्रजापतिः । जज्ञे दक्षे महाभग यः पूर्वं ब्रह्मऽ भवत् ’ इति । अप्रतरथो भव । द्रकसहित वालुकयुत वो युष्माकं पादवन्दनं करोमि । आखण्डलेति । ते तन भतखण्डलस्य सम इन्द्र तुभ्यः । सुतो जयन्तप्रतिम इन्द्रपुन्नतुल्यः अतः कारणात्ते तान्यायं ग्या न । तृतीयचरणार्ये पूर्वार्ध हेतुत्वेन योज्यम् ! पलभ्याः शच्या सदृशं भवेतयमेव युक्ताक्षरित्यर्थः । काव्यलिङ्गपमे । अनुप्रासश्च । जाते, भर्तुराभिमता भव । अवश्यं दीर्घायुर्वेदप्त उभयकुलनन्दनो भवतु | उपविशत । दिष्ट्येति । साध्वी शकुन्तला । इदं सपत्यम् भवानित्य
आखंडलेत्यादि । पौलेम्था इन्द्राण्या सदृश भत्र । दिग्रेत्यादि । शकुन्तल
राजा-भगवन्, प्रगभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः ।कुनेः |
उदेति पृर्वX कुसुमं ततः फलं
घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रम
स्तव प्रसादस्य पुरस्तु संपदः ॥ ३० ॥
Xन्तरसंक्रमितवाच्यम् | तेन तत्तद्गुणगरिष्ठो भवानित्यनेन विशेषणप्रक्रममभङ्गः परिहृतः | श्रद्धा वित्तं विधिसश्चेति त्रितयं समागतं तद्दिष्टXयेति संबन्धः निदर्शना । श्रद्धादिभैरोपम्यस्य कल्पितत्वात् । ' त्रितयं वः समागतम् ' इति पाठ एकैकं निर्दिशन्निति योजना | तेनाभिरूपसमागमात्समालंकारः । त्रितयपदेन समागमं प्रति प्रत्येकं कर्तृत्वं बोधयता स्त्रीबालावित्यनयोरवज्ञा न कार्येति भावः [ ' देवानामापि येX देवा महात्मानो महर्षयः | भगवन्निति ते वाच्या यास्तेषां योषितस्तथा || इति भरतोक्तेर्भगवन्निति संबुद्धिः। उदेतीति । कुसुमं Xपृर्वमुदेति ततः फलमुदेतीत्येव | घनोदयोः मेघोद्गमः प्रागुदेतीत्येव तदनंतरं पयो जलमुदेतीत्येव । आदिक्रिXयादीपकम् । निमित्तनैमित्तिकयोः कार्यकारणयोग्यं पूर्वोक्तः क्रमः । प्राकरणिकत्वेन प्राकरणिकार्यापातान्भालार्थापात्तिः | व्यतिरेकमाह--तत्रX प्रसादस्य पुरः पूर्वं संपद इति कार्यकारणाविपर्यXयादतिशयोक्तिः । मम शकुन्तलापुत्रलाभ इति प्रस्तुतस्य विशेषस्य गम्यत्वे संपद इत्यप्रस्तुतप्रशंसा निमिनैमीति निमित्तनैमित्तीति छेकवृत्यनुप्रासौ ।
पक्षिणामपि दयाविपयभुXता | श्रद्धा वेदचोदितावश्यभावनिश्चयः । वित्तं द्रव्यम् । विधिरनुष्टानम् । दिष्टXया धर्मपत्नीत्वादिग एतदन्तेन सिद्धिर्नामालंकारा व्यज्यते । बहूनामप्रधानानां नाम यत्रानुकीत्यने । अभीप्सितार्थसिद्धयज्ञेX सा सिद्धिरभिधीयते ॥ ' प्रकृते शकुन्तलाभग्याद्दुष्यन्तादिनामकीर्तनमिष्टसिद्ध्यर्थं मुनिना कृतम्। । किंचामेन फलागमो नाम प्रथमावस्था व्यज्यते । तदुक्तं ' फलागमः फलप्राप्तिः समग्रा प्रकृतोचिता ' इति । अत्र साक्ष्याःX शकुंतलायाः सत्पुत्रस्य राजर्षेर्दुष्यन्तस्य च समागमः समग्रफलसंपत्तिः । उदेर्तात्यादिX । प्रसादस्य पुर इति । समर्थप्रत्ययनेति Xपष्टी ।
मातलिः-एवं दिदाताX प्रसीदन्ति ।
राजा-भगवन्, इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयस्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रXत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वXस्य । पश्चादंङ्गुलीयकदर्शनादूढपूर्वी तद्दुXहितरमवगतोऽहम् । तच्चित्रमिव में प्रतिभाति |
यथा गजो नेति समक्षरूपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीनिX
स्तथाविधो मे मनसो विकारः ॥ ३१ ॥
मारीचः--वत्स, अलमात्मापाराधशङ्कया । संमोहोऽपि त्वय्यनुपपन्नः ! श्रूयताम् ।
वंशस्थं वृत्तम् । अनेन मधुरं नाम भूषणमुपक्षिप्तम् | तल्लक्षणं तु - ‘ यत्प्रत्ययेन मनसा पूज्यपृजयितुर्वचः | स्मृतिप्रकाशनं यत्तत्स्मृतं मधुरभाषणम् ।। ’ इतेि | विधातारः स्रष्टारः | व आज्ञाकरीमेत्यनेन विनयोक्तिः । उपयम्य विवाह्यX | स्मृतिशैथिल्यान्न तत्वतः स्मृतेरभावः | स्यायिन्या रतेरविच्छेदात्प्रत्यादिशन्निराकुर्वXन | तत्रभवतः पूज्यस्य | यथेति । समक्षरूपे गजेऽयं गजो न वेति संशयः स्यात् । तस्मिन्नपक्रामति गच्छाति सति पदानि भूमौ चरणचिह्नाXनि दृष्ट्वा यथा प्रतीतिर्निश्चयबुद्धिर्भवतेि गज एवायमिति । तथाविधस्तादृशो मे मनसो विकार आसीत् । निदर्शनानुप्रासश्च | द्वादश्युपजातिरिन्द्रवज्रोपेंद्रवज्रयोः | अलमितेि यथेति । यथा यस्य कस्यचित् मूढस्य प्रत्यक्षरूपे प्रत्यक्षीकृते गजे गजो नेति प्रत्ययः स्यात् । तदनंतरं तस्मिन् गजे अतिक्रामतेि संशयः गजो वा नवेति सन्देह: स्यात् । ततः पश्चात्पदानि तस्य गजस्य दृष्ट्वा गज एवायमिति सत्यज्ञानं भवेत् मे मनसो विकारस्तथाविधः तादृशः । पूर्वं विवादकाले किमिदमुपन्यस्तमित्वादिना शकुन्तलायाः परिग्रहाभावनिश्चXयः पश्चात्तस्थामंतरगतायां कामं प्रत्यादिष्टामित्यादिना परिगृहीता वा नवेति संशयः । अनंतरमंगुलीयदर्शनादियं परिगृहीतेति सम्यक् प्रतीतिरित्येवंXरूप इत्यर्थः । वत्सेत्यादि । समोहोऽपि संम्यङ्मोहः उपपन्नः । वत्सेत्यादिना अंगुलीयकदर्शनाव-
राजा-अवहितोऽस्मि ।
मारीचः-यदैवाप्सरस्तीर्थावतरणात्प्रत्येक्षवक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः
राजा-( सोच्छासम् । ) एष वचनीयान्मुक्तोऽस्मि |
शकुन्तला-( स्वागतम् ) दिट्टिX अकरणपच्चादेसी ण अज्जउत्तो । ण हु सत्तं अत्ताणं सुमरोमि ! अहवा पत्तो मए स हि साबो विरहसुण्णहिअआए ण विददो ! अदो सहीहिं संदिX ह्मि
भत्तुणो अङ्गुलीअअं दंसइदव्वं त्ति / [ दिष्ट्याकरणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशृXन्यहदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ] ।
मारीचः- वत्से, चरितार्थासि । सहधर्मचारिणं प्रति न त्वया । मन्युः कार्यः । पश्य ।
निXषेधे । आत्मनोऽपराधस्तच्छङ्कयालमिति समन्वयः । दाक्षायणीमदितिम् । ध्यानादवगतं ज्ञानं विद्यते यस्मिन्नित्यवगतोऽस्मि ज्ञानवानस्मि । ‘ मारीचः - वत्स, अलमात्मा-, इत्यादिना ' दर्शनावसानः ' इत्यन्तेन निर्णयनामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु -- अनुभूतार्थकथनं निर्णयः समुदाहृतः ' इति । वचनीयाल्लोकापवादात् । दिष्ट्याX दैवेन । अकारणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि | अहवा अथवा प्राप्तो स हि शापो विरहशून्यहृदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरंगुलीयकं दर्शयितव्यमिति । चरितार्थः कृतार्थासि । सहधर्मचारिणं
सान इत्यन्तेन अनुनयो नामालंकारो व्यज्यते । तदुक्तं उभयोः प्रतिजननो विरुद्धाभिनिवेशयाः । अर्थस्य साधकश्चैव विशेयोऽनुनयो वुःX । इति । अत्र शकुन्तलादुष्यन्तयःX
शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तवैचे ।
छाया न मूर्छति मलोपहतप्रमादे
शुद्धे तु दर्पणतले सुलभावकाश ॥ ३२ ॥
राजा-यथाह भगवन् ।
मारीचः --वत्स, कच्चिदभिनन्दितXम्बया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
राजा-भगवन्, अत्र खलु मे वंशप्रतिष्ठा ।
मारीचः--तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।
प्रति । पश्येति । वाक्यार्थस्य कर्मत्वम् । शापादिति। शापात्वं प्रतिहतासि तिरस्कृतासि | अर्थाद्भत्रैत्यर्थः | शापादित्यनेन तस्य दोषाभाव उक्तः । पूर्वं स्मृतेः स्मरणस्य रोधेन रूक्षे निःस्नेह इव। अत्रापि शापादित्यनुपज्यते अधुनापेतं दूरीभूतं तमः शापलक्षणं यस्मादेवंभूते भर्तरि तवैव प्रभुता । असंबन्धे संबन्धातिशयोक्तिरियं भर्तृसंबद्धायाः प्रभृतायाः प्रसिद्धत्वात् । अथ च यो भर्ता स प्रभुः, या वनिता सा गुणभूता इति शास्त्रस्थितौ भर्तृत्वं तस्मिन्प्रभुता चास्यामित्यसंगतिश्च | अतिशयोक्त्या सहाङ्गाङ्गिभावः | मलेनागन्तुकेन दोषेणोपहतो दूरीकृतः प्रसादो यस्य तस्मिन्दर्पणतल आदर्शे छाया प्रतिबिम्बं न मूर्छति न प्रसरति ।' छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपे ' इत्यमरः । सा छाया शुद्धे निर्मले दर्पणतले सुलभावकाशा । अत्यंतं व्यक्ता दृश्यत इत्यर्थः । हेतुदृष्टान्तौ |
प्रीतिजनको दुष्यन्ते रोषाभावसाधकां मारीचमुनिवाक्योपन्यासः । शापादित्यादि । शापाद्धेतोःX स्मृतिरोधरूक्षे स्मृतेः स्मरणस्व रोधः प्रतिबन्धः तेन रूक्षः कृरः तस्मिन सतिX प्रतिहनाX प्रत्यादिष्टाX । तस्मिन्नपेततमसि सति पXदिगुलीयकदर्शनेन प्राप्तस्मरणे सXत्यभिप्रायः | प्रभुता प्रधाननायिका त्वं तवैवं पूर्ववदेवX अनेन पारग्रहबहुत्वेऽपीत्यादिनाX । यदुक्तं Xतारामृश्यते |अत्र दृष्टान्तमाह-न मलोपहXप्रसाद इत्यादिना । नथेत्यादि।
यमनुद्धतमेत ते न दोषज६ः
पुरा भनीषा जल वसुधामप्रतिरथः ।
(इस नन्दननः
पुनश्चययख्षं शरः इति टकस्य भरणात् ।। ३३ ।।
राज-भगवदा ठूनरे स्वभमन्ययश्रशस्तं ।
अदिवि -टुअर्ब. इमश्च दुहितृभ्णरहसंपतीए कएण वि दाव
सुदवित्थागे कीअदु ’ इद्विदुच्छळ । ई अ इह एव्य उपचरंती
ततस्तेट नगFतम् हि ? में प्रस | अन्ततेरकं वृत्तम् ! रथैनति । न विद्यते प्रतिहन्दी ये र प {ऽप्रतिग्थेऽयम् । अनुदा ताम्खलितात क्षेत्र तािमित निल गद्य तेनेनेि स्वभावः जलं स्खलनासंभ- यत् । एवंभूतेन तोयेजरुधिषािसमुद्रः। सप्त कुशक्रौञ्चद्वीनि द्वीपानि यस्याः सा सप्तद्वीप तं सुब पुरं जयदि नेष्यति ? ‘यावत्पुरनिपातये- ’द । अत्र भाविीरः - प्रत्यक्ष इत्र यत्रार्थाः क्रियन्ते भूतभा- विनः । तद्भाविकम् ? इति तटक्षणपूत् । अतएव जेष्यतीति वक्तव्ये पुगयोगे लडियवधेयम् ? श्रभे सत्यानां प्राणिनां प्रसभं हठेन दमनात्सवंदुमन इत्याच्यामभिधां यातः | पुनर्मुकस्य जनस्य भुवनभ्य आ भरणद्रक्षणा पेषण। ड़ भरत इत्याख्यां यास्यति । “ लेफस्तु भुवने जने ' इत्यमरः । छवृत्त्यनुप्रास ई काव्यलिङ् च । शिखरिणी वृत्तम् । ' मरीचयः बसे चरितार्थासेि ” यनेन ‘आशास्महे : इयन्तेन प्रसादलक्ष मङ्गमुपक्षिप्तम् । लक्षणं तु -- अश्रद्युपसंपन्न प्रसाद प्रमुन्नत
चक्रवर्तिनं सर्व भै।भम् । रथनति । गुर::मितगतिना । उत्तम्भं मनोन्नत प्रदेशस्याभावेऽनुज्ञात: देश तिमि निङपा गतश्रेम्ध स लभेता: न अनन विधी पणेन रथस्याकाशगामिरवं सूच्यते । पुरा मैं यनि। जेष्यति यः अग्मिनाभसे रनवनी शरक्षसिंहादीनां प्रसभदमनात् प्रसभेन वान्कारेण मर्दनात् सर्वेदमनः लोकस्य जगमः भरणद्रत इति पुनः पश्चात् आयां नामधेषं अस्यति तथाभाविनमेव चक्रवर्तिनमि . स्यादिना एतदन्तेन पूर्वभवो नाम मन्द्रैर्मुक्तं ‘ कार्यज्ञानं पूर्वभावः ’ अत्र मरीचेन
Xxxxxxcc
चिट्ठदिX । [भगवन्, अनया दुहितृमतोXXXX अभ: “ Xवच्छनताविस्तारः क्रियताम् | दुहितृवत्सला XXX
शकुन्तला- आत्मगतम् मणोXXX भगतर ’ मंगन उडु ने द में अ
वदीए । [ मनोरथः खलु में भणिनो XXX
मारीचः-तपःप्रभावात्प्रत्यक्षं सXXX ।
राजा- -अतः खलु मम नतिक्रुद्धो मुनिः ।
मारीचः--तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः कः कोऽत्र भोः?
( प्रविश्य )
शिष्यः--भगवन्, अयमस्मि |
मारीचः --गालव, इदानीमेव विहायX गत्वा स वचनात्तत्र भवते कण्वाय प्रियमावXदय यथा पुत्रवर्दःX शकुन्तला चछपनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतXनि ।
शिष्यः - यदाज्ञापयति भगवान् | - इति निष्क्राXन्तः ।
मारीचः- --वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य तं राजधानीं प्रतिष्ठस्व ।
राजा--यदाज्ञापयति भगवान् ।
मारीचः-हे पुत्र ! शृणु ।
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमापि विततयज्ञो वज्रिणं प्रीणयस्व ।
इति । भगवन्, अनथा दुहितृमनोरथसंपत्त्या कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती समीपचारिणी तिष्ठति । मनोरथः खलुः मे भणितो भगवत्या । अत्र कृतिर्नामाङ्गमुपक्षिप्तम् । तल्लक्षणम् --' लब्धस्यार्थस्य शमनं कृतिरित्यभिधीयते " इतेि | [ तवेतेि --बिडौजा इन्द्रः तत्र प्रजासु प्राज्या प्रभूता वृष्टिः यस्य स तथा
भविष्यकार्यमुक्तम् । त्वयि भवत्वित्यादि । प्रजासु ऽवर्णानि च विषयसप्तमी
युगशतपरिवेतनिवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥ । ३४ ।।
राजा--भगवन् यथाशक्ति श्रेयसि Xयतिष्ये ।
मारीचः--वत्स, किं ते भूयः प्रियमुपकरोमि ।
राजा-अतः परमपि प्रियैमस्ति । यदिह भगवान्प्रियं कर्तुभिच्छति तर्हीदमस्तु भरतवाक्यम् ।
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयसाम् ।
ममापि च क्षपयतु नललोहितः
पुनर्भXवं परिगतशक्तिरात्मभूःX ॥ ३०॥
भवतु । समये प्रभूतनलवर्षणेन भूलोकं पुष्यनु इत्यर्थः। विततयज्ञ आह्वतयज्ञसंभारः उक्तं च दण्डनीतौ-'राजा त्वयान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहसुX महती वृष्टिमXहेत् ॥' इति । युगानां शतानि तेषां परिवतःX परिवृत्तयस्तान् | उनयोर्लोकयोद्यीवापृथिव्योरनुग्रहेण श्लाXनीयैः | प्रशंसनीयैः । मालिनीवृत्तम् ] किं ते भूयः प्रियमुपकरोमि । इत्यनेन काव्यसंहारलक्षणमङ्गमुपाक्षिप्तम् । तल्लक्षणं तु -- 'वरप्रदानसंप्राप्तेः काव्यसहारः । इति । भरतवाक्यं नटवाक्यम् । नाटकाभिनयसमाप्तौ सामाजिकेभ्यो नटेनाXXXइदियत इत्यर्थः । प्रस्तावनानन्तरं नट्वाक्याभावाद्X भरतवाक्यमित्युक्तिः । प्रवर्ततमिति । प्रकृतिहिताय
विडौजाः देवेन्द्रः विनतयज्ञः विस्तृतयाग: । अलं भावय संभावय । एवमनेन प्रकारेण उभयलोकानुग्रहXत्रनीयैः उभौ लोकौ मज्जस्वर्गलोको Xतयोरनुग्रहः अत्युXपपत्तिः तेनX श्लावनबिः स्तुत्यैः अनेनोपसंगतिXम सन्ध्यंगमुXक्तम् । कं च ‘वराभिः कार्यसंसति:' इतेि । अत्र मारीचेन मुनिना गज्ञो वरप्राप्तियोगान्। वत्स किं ते भूय इत्यादि । उपहरामि समर्पयामि अतः परमपि अधिकमपि भरतस्य नटाध्यक्षस्य वाक्यं वचनम् । प्रवर्ततामिति । पार्थिवो राजा Xज्ञातावेकवचनम् । प्रकृनिहितायX प्रकृतीनां प्रजानां
मारीचः-“तथास्तु ।
( इति निष्क्रांताः सर्वे )
इति सप्तमोऽङ्कः ।
पौरश्रेणिहितायपार्थिवः प्रवर्तताम् । श्रुतेन शास्त्रश्रवणेन महतां गरिष्ठानां महीयसामुत्कृष्टानामुत्कृष्टशक्तिमतां कवीनाम् | विशेषणेनैव विशेष्यप्रतिपत्तेर्न विशेष्योपादानाम् | सरस्वती प्रवर्ततामित्यनुXषज्यते । आदिकिXयादीपकम् | नीललोहितो महादेवो मम पुनर्भवं जन्मान्तर क्षपयतु नाशयतु । कीदृङ् नीललोहितः आत्मना भवतीत्यात्मभूः । परितो गता व्याप्ता शक्तिः सामर्थ्यमस्येत्यनेन तत्तच्छाक्तेत्वं व्यज्यते | Xक्रियासमुच्चयः | तमतामेति महमहीति छेकवृत्यनुप्रासौ । रुचिरा वृत्तम् । तल्लक्षणं तु--'चतुर्गृहौरिह रुचिरा जभौ सजौ ग: ' इति | अनेन प्रशस्तिनामकमङ्गमुपक्षिप्तम् । तल्लक्षणमादिभगते --‘ देवाद्विजनृपादीनां प्रशस्तिः स्यात्प्रशंसनम् । इति |।
इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकयां
सप्तमोऽङ्कः समाप्तः ।
हिताय इष्टाय श्रुभिङ्गमहतां श्रेष्टानाम् । 'श्रुतं शाXXXतयोः ’’ इत्यमरः । सरस्वती महीयताX पूज्यताम्। परिगतशक्तिः प्राप्तशक्तिः अर्धनारीश्वर इति यावत् । अत एव नीललोहितः वामभागे नीलो दक्षिणभागे लोहितः । तथा चोक्तम् ' अर्धमिन्द्रमXमेचकXXX प्रक्रियां वहति विद्रुमराशे:’ इति |आत्मभूः स्वयंभूः मनापि पुनर्भवं पुनर्जन्म क्षपयतु अपाकरोतु । अनेन प्रशस्तिर्नाम सन्ध्वXगमुक्तं भवति । प्रशस्तिस्तु शुभाशंसा ” इति। अत्र पुनर्जन्मक्षपणस्यात्यन्तनिषिद्धत्वोपलक्षितपरमानन्दस्वरूपत्वे शुभत्वम् । अतस्तदाशंसा भवति । एवं सर्वनाटकेषु भरतवाक्येषु शुभाशसां योजनीया। इति तिष्क्रान्ताः सर्वे ||
इति श्रीरमणवेंकटाचलेश्वरपादारविन्दसमाराधकवैखानसकुलतिलककौशिकगोत्र-
श्रीवेंकटभट्टइतिगोत्रXमागतभट्टविरुदतिरुमलाचार्यपुत्रेण Xध्वनिप्रस्थान
परमाचार्येणाष्टभापाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्याख्यायां सप्तमोऽङ्कः ।
इति टीकाद्वयसहितमभिज्ञानशाकुन्तलं नाम नाटकं समाप्तम् ।
पुस्तक मिलनेका ठिकाना ।
गंगाविष्णु श्रीकृष्णदास | खेमराज श्रीकृष्णदास , 'लक्ष्मीवेङ्कटेश्वर’ प्रेस, कल्याण-मुम्बई.| 'श्रीवेङ्कटेश्वर’ स्टीम् प्रेस- मुम्बई.