काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/प्रथमाधिकरणम्/तृतीयोऽध्यायः
अधिकारिचिन्तां रीतितत्त्वं च निरूप्य काव्याङ्गान्युपदर्शयितुमाह-
लोको विद्या प्रकीर्णं च काव्याङ्गानि ॥ १ ॥
उद्देशक्रमेणैतद्व्याचष्टे-
लोकवृत्तं लोकः ॥ २ ॥
लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति ।
शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकाम-
शास्त्रदण्डनीतिपूर्वा विद्याः ॥ ३ ॥
वरिवस्यामि मनसा वचसामधिदेवताम् ।
लीलालास्यगृहा यस्याश्चतुर्मुखचतुर्मुखी ॥ २ ॥
अध्यायान्तरमारभमाणः प्रागध्यायप्रपञ्चितमर्थं संक्षिप्य दर्शयन्नध्यायद्वयमैत्रीमासूत्रयति- अधिकारिचिन्तामिति । अङ्गिनि निरूपितेऽङ्गानां निरूपणमुचितमिति संगतिः।
अङ्गान्युद्दिशति-- लोक इति । वर्णनीयमन्तरेण किं वर्ण्यत इति लोकः प्रथममुद्दिष्टः । ततश्च संस्कृताः शब्दाः । तदनु तदर्थाः । अथ वृत्तम् । अनन्तरमितिवृत्तवैचित्र्यहेतुः शृङ्गाराङ्गं कलाकौशलम् । ततो रसोपयोगी कामव्यवहारः। ततश्चार्थानर्थविवेकहेतुर्दण्डनीतिः । पश्चाल्लक्ष्यज्ञत्वादय इत्युद्देशक्रमः । अत्र 'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥' इति, ‘शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।।' इति" चोक्त्तरीत्या कवित्वबीजं प्रथमं परिगणनीयम् । यत्तु पश्चात् परिगणितमिति, तच्चिन्त्यम् ।
लोकशब्दोऽयमुपचाराल्लोकवर्तने वर्तत इत्याह-- लोकवृत्तमिति । शब्दस्मृत्यादीनां तत्पूर्वत्वं पूर्वं काव्यबन्धेष्वपेक्षणीयत्वात् ।
तासा काव्याङ्गत्वं योजयितुमाह-
शब्दस्मृतेः शब्दशुद्धिः ॥ ४ ॥
शब्दस्मृतेः व्याकरणात् शब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निष्कम्पैः कविभिः प्रयुज्यन्ते ।
अभिधानकोशात्पदार्थनिश्चयः ॥ ५ ॥'
पदं हि रचनाप्रवेशयोग्यं भावयन्संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्यादिति काव्यबन्धविघ्नः । तस्मादभिधानकोशतः पदार्थनिश्चयः कर्त-
अथ विद्या उदिशति----शब्दस्मृतीति । 'शास्त्रतस्ते' इत्यत्र सूत्रे अलङ्कारविद्योपयोगस्य प्रागेवोपदर्शितत्वान्नात्र विद्यामध्ये परिगणनमित्यवगन्तव्यम् । शास्त्रशब्दः कलाकामशब्दाभ्यामभिसंबन्धनीयः, तत्संबन्धं विनापि अन्यत्र शास्त्रत्वप्रतिपत्ते. । 'पूर्वाः' इत्यनेन गणितविद्यादिपरिग्रहः । 'प्रधानस्योपकारकमङ्गम्' इति न्यायेन क्रमादङ्गानामङ्गिन्युपयोगं दर्शयिष्यन्ननन्तरसूत्रावताराय पीठिकां प्रतिष्ठापयति- शब्दस्मृत्यादीनामिति ।
व्याकरणं हि मूलं सर्वविद्यानामिति युक्त्या प्रथमोद्दिष्टायाः शब्दविद्याया उपयोगं दर्शयति-~~-शब्दस्मृतेरिति। व्याचष्टे शब्दस्मृतेर्व्याकरणादिति । साधुत्वनिश्चयः अस्मिन्नर्थेऽयं शब्दः साधुरिति निश्चयः। निष्कम्पैः निर्भयैरित्यर्थः । अपशब्दप्रयोगे तु कविकाव्ययोरनादरणीयत्वप्रसङ्ग इति द्रष्टव्यम् । तदुक्तम् , 'यस्तु प्रयुङ्क्त्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्रं वाग्योगविद्दुष्यति चापशब्दैः ॥' इति । दण्डिनाप्युक्त्तम् , ' गौर्गौः कामदुधा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥' इति, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥' इति च ॥
पदं हीति। अयमर्थः-- 'आधानोद्धरणे तावद्यावद्दोलायते मनः' इत्युक्तनीत्या किमपि पदं काव्यबन्धे प्रयोगयोग्यं पुनः पुनश्चेतसि विनिवेशयन्कविव्यः । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य, अप्रयुक्तस्याप्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिग्धार्थत्वमाशङ्कितं पदस्य? तन्न; तत्र सामान्येनार्थावगतिः संभवति । यथा नीवी शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः । स्त्रिया वा पुरुषस्य वेति संशयः 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथम्
'विचित्रभोजनाभोगवर्धमानोदरास्थिभिः।
केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः॥'
इति प्रयोगः ? भ्रान्तेरुपचाराद्वा ।
रभिधानकोशपरिशीलनमन्तरेण संदिग्धार्थतया प्रयोक्तुं परित्यक्तुं वा नोत्सहते । अतो बन्धविघ्नो जायेत । तस्मादभिधानकोशतः पदस्यार्थं निश्चित्य निर्विचिकित्सं प्रयुञ्जीत- इति । नन्वभिधानकोशस्येदमेव प्रयोजनमिति कोऽयं नियमः । अपूर्वपदप्रयोगलाभोऽपि किं न स्यादिति चोद्यमनूद्यावद्यति --- अपूर्वेति। तत्र हेतुमाह-- अप्रयुक्तस्येति । कविभिरिति शेषः । “यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते' इत्यप्रयुक्तत्वदोषस्य पददोषेषु लक्षितत्वात् । अप्रयोज्यत्वं चार्थाभिव्यक्त्तेरविलम्बेन समर्पकत्वाभावादिति द्रष्टव्यम् । ननु यदि प्रयुक्तमेव पदं कविना प्रयुज्येत, तर्हि कुतः संदेहः स्यादिति शङ्कते- यदीति । समाधत्ते- सामान्येनेति । 'एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम्' इति प्रयोगदर्शनात् जघनशब्दः पृष्ठवंशाधरत्रिकमात्रमभिधत्त इत्यभिमन्यमानस्य कस्यचिन्नीवीशब्दो जघनवस्त्रग्रन्थिमभिधत्त इति प्रतिपत्तिर्जायते । तच्च स्त्रिया वा पुरुषस्य वेति संशय उपपद्यत इत्यर्थः । नाममाला अभिधानकोशः, तस्याः
प्रतीकं अवयवम् । 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । अपश्यतः अपरिशीलयत इति यावत् । यद्येवं तर्हि प्रयोगविरोधः किं न स्यादिति शङ्कते---- अथ कथमिति । विचित्रभोजनाभोगेत्यस्मिन् पद्ये पुंसि विषये नीवीशब्दप्रयोगः कथमिति शङ्कितुरभिप्रायः । परिहरति---भ्रान्तेरिति । भ्रान्तिप्रयुक्तोऽयं प्रयोगः । अथवा, नीवीशब्दः पुरुषविषये लक्षणया प्रयुक्तः । पौरुषराहित्यप्रतिपत्तिः प्रयोजनमिति भावः ॥छन्दोविचितेर्वृत्तसंशयच्छेदः ॥६॥
काव्याभ्यासावृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचित्संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दःशास्त्रतो विधेय इति ।
कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥ ७ ॥
कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखिलादिप्रणीतानि कलाशास्त्राणि । तेभ्यः कलातत्त्वस्य संवित् संवेदनम् ।
वृत्तविद्यायाः प्रयोजन प्रस्तौति- छन्दोविचितेरिति । काव्येति । नानावृत्तात्मकत्वात्काव्यस्य तत्परिशीलनाद्वृत्तस्वरूपप्रतिफलनमस्त्येव ; तथापि मात्रावृत्तादिषु मात्राकल्प्येषु वैतालीयादिषु छन्दःशास्त्रं विना निर्णयो दुष्कर इत्यर्थः । वैतालीयलक्षणं तु वृत्तरत्नकारे, ‘षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः, इति ।
कला इति ! दिङ्मात्र तु लोकतो विज्ञायते । तत्त्वज्ञानं तु तच्छास्त्रत एव संपद्यते इत्यर्थः । कला नृत्यगीतादयश्चतुःषष्टिः । उपकलाश्चतुःशतम् । कलानामुद्देशः कृतो भामहेन, 'नृत्तं गीतं तथा वाद्यमालेख्यं मणिभूमिकाः । दशनाद्यङ्गरागश्च माल्यगुम्फविचित्रता । वेणुवीणादिकालापपाटवं शेखरक्रिया । नेपथ्यं गन्धयुक्त्तिश्च कर्णपत्रकियाभिधा । विशेषभेद्यक्लप्तिश्च नानाभूषणयोजनम् । इन्द्रजालं कौचिमारं सामुद्रं हस्तलाधवम् । सूचीवानक्रिया सूत्रक्रिया सलिलवाद्यकम् । सूदशास्त्रपरिज्ञानं शारिकाशुकवादनम् । रसवादो वास्तुविद्या तक्षणं मेचिकोत्करः। सजीवनिर्जीवद्यूतशास्त्रसंपाद्यपाटवम् । धोरणा मातृकायन्त्रं मातृकाकाव्यलक्षणम् । आकर्षकक्रीडितं च निमित्तागमवेदनम् । अग्न्यम्बुसेनादिस्तम्भो विषप्रतिविषागमः । पाञ्चालीनृत्तकरणं तण्डुलादिबलिक्रिया । प्रहेलिका दुर्वचकप्रतिमायादियोजनम् । मन्त्रवादपरिज्ञानं विशीर्णाक्षरमुष्टिका । सर्वाभिधानकोशोक्तिः परकायप्रवेशनम् । जयव्यायामचित्राप्तिः पत्रिकाचित्रकर्तनम् । रत्नोत्पत्तिस्थानशास्त्रं दर्पणादिलिपिक्रिया। तिरस्करिण्याद्यावाप्तिः पुष्पशाटकिकागमः । हस्त्यश्वलक्षणज्ञानं तिर्यग्घृदयवेदनम् । परेङ्गितपरिज्ञानं जलयानागमज्ञता । परनहि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति ।
कामशास्त्रतः कामोपचारस्य ॥ ८ ॥
संविदित्यनुवर्तते । कामोपचारस्य संवित् कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति ।
दण्डनीतेर्नयापनययोः ॥ ९॥
दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिनि । तत्र षाड्गुण्यस्य यथावत्प्रयोगो नयः । तद्विपरीतोऽपनयः । नहि तावविज्ञाय नायकप्रतिनायकयोर्वृत्तं शक्यं काव्ये निबन्धुमिति ।
इतिवृत्तकुटिलत्वं च ततः ॥ १० ॥
इतिहासादिः इतिवृत्तं काव्यशरीरम्', तस्य कुटिलत्वं ततो दण्ड-
चेतःप्रवेशश्च चतुःषष्टिरिमाः कलाः' । अन्या उपकला. प्रोक्तास्तासां संख्याचतुःशतम् । आभिरेव प्रपञ्चोऽयं वर्तते विजयी स्फुटम्' इति । अत्र ग्रन्थविस्तरभयादुपकलानामुद्देशो न कृतः । कलातत्त्वसंवित्तेरुपयोगं दर्शयति-- न हीति ॥
कामोपचारबहुलमिति । वस्तु काव्यप्रतिपाद्यमितिवृत्तम् । काव्यस्य रसवत्त्वावश्यम्भावाद्रसस्य च शृङ्गारप्रमुखत्वात् तस्य च कामोपचारप्रचुरत्वात् , काव्यवस्त्वपि कामोपचारबहुलमिति भावः ॥
दण्डनीतेरुपयोगं दर्शयति-- दण्डनीतेरिति । षाड्गुण्यस्येति । संधिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः । षड् गुणा एव षाड्गुण्यम् । स्वार्थिकः ष्यञ् ॥
कुटिलत्वमिति । यथा तापसवत्सराजादौ । आबलीयसेति । अबलीयांसमधिकृत्य कृतमधिकरणमाबलीयसम् , तत्प्रभृतौ प्रयोगाः मित्रभेदसुहृल्लाभा-
1. वात्स्यायनीयादिषु तु क्वचिद्भेद उपलभ्यते । नीतेः आवलीयस्वादिप्रयोगव्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति ।
लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् ॥ ११ ॥
तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥
अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति ॥
काव्यबन्धोद्यमोऽभियोगः ॥ १३ ॥
बन्धनं बन्धः । काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हि कवित्वप्रकर्षमादधाति ।
काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १४ ॥
काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति ।
दयः तेषां व्युत्पत्तौ सा दण्डनीतिर्मूलमिति भावः । एवमन्यासामिति । गणितादिविद्यानामित्यर्थः । एवमष्टादशभेदभिन्नानामशेषाणामपि विद्यानां काव्याङ्गत्वमुक्तं भवति । तासामुपयोगश्च यथाम्बं लब्धवर्णैर्द्रष्टव्यः ! यथाहुः, 'न स शब्दो न तद्वाच्यं न सा विद्या न सा कला । जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ।' इति ।
अन्येषामिति । कवीनामिति शेषः ।
बन्धशब्दो भावसाधन इत्याह -- बन्धनं बन्ध इति। पूर्वं कथापरीक्षा, तत्राधिकावावापोद्वापौ, फलपर्यन्ततानयनम् , रसं प्रति जागरूकता, रसोचितविभावादिवर्णनायामलंकारौचित्यमित्याद्युल्लेखपूर्वकं गुम्फनं काव्यबन्धः । तत्रोद्यमः अभियोगः ॥
{{gap}}काव्योपदेश इति । यद्यपि श्रोतुमिच्छा शुश्रूषा इति शब्दव्युत्पत्तिः;पदाधानोद्धरणमवेक्षणम् ॥ १५ ॥
पदस्य आधानं न्यासः । उद्धरणमपसारणम् । तयोः खल्ववेक्षणम् ।
अत्र श्लोकौ-
'आधानोद्धरणे तावद्यावद्दोलायते मनः ।
पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥
यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥'
कवित्वबीजं प्रतिभानम् ॥ १६ ॥
कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् ; यस्माद्विना काव्यं न निष्पद्यते, निष्पन्नं चावहासायतनं स्यात् ।
चित्तैकाग्र्यमवधानम् ॥ १७ ॥
तथापि वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम्' इति निरूढत्वेनाभिधानात्सामानाधिकरण्यं घटते ।
अवेक्षणमाह-- पदाधानेति । अत्र भामहेन भणितं प्रमाणयति- आधानोद्धरणे इति । श्लोकद्वयेन क्रमादन्वयव्यतिरेकाभ्यां पदानां स्थैर्यं संपादनीयमित्युक्तम् । इत्थमर्थपाकोऽपि समर्थनीयः ।
कवित्वस्येति । बीजमभिनवपदार्थस्फुरणहेतुः । संस्कारो वासनात्मा । यदाह भट्टगोपालः, 'कवित्वस्य लोकोत्तरवर्णनानैपुणलक्षणस्य, बीजमुपादानस्थानीयः, संस्कारविशेषः कार्यकल्पनीया काचिद्वासना शक्तिः' इति । काव्यादर्शेऽपि 'न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् ।' इति । यस्माद्विनेति । पृथग्विनादिसूत्रे विकल्पेन तृतीयाविधानात् पक्षे पञ्चमी । हासायतनं परिहासास्पदम् । तादृशं हि काव्यमनर्थाय भवति कवेः । तदुक्तम् , 'नाकवित्वमधर्माय मृतये दण्डनाय वा । कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥ इति । चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः। तत् अवधानम् । अवहितं हि चित्तमर्थान्पश्यति ।
तद्देशकालाभ्याम् ॥ १८॥
तत् अवधानं देशात्कालाच्च समुत्पद्यते ।
कौ पुनर्देशकालावित्यत्राह-
विविक्तो देशः ॥ १९ ॥
विविक्तो निर्जनः ।
रात्रियामस्तुरीयः कालः ॥ २०॥
रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते।
एवं काव्याङ्गान्युपदर्श्य काव्यविशेषज्ञानार्थमाह-
चित्तस्येति । बहिरिन्द्रियव्यापारविरामान्मनसो बाह्यार्थानुपरक्तिरवधानम् । अवधानस्य प्रयोजनमभिधत्ते--- अवहितमिति । अर्थान्पश्यति अभिनवपदार्थानप्रतिबन्धमुल्लिखतीत्यर्थः ॥
तद्देशकालाभ्यामिति। अर्थाद्विशिष्टाभ्यां समुचिताभ्यामित्यवगन्तव्यम् ।
विविक्तो निर्जनप्रदेशः । ’विविक्तौ पूतविजनौ' इत्यमरः ॥
तुरीय इति। प्रथमादिषु त्रिषु प्रहरेष्वाहारविहारनिद्रासु सांमुख्यं मनसः। पश्चिमे तु प्रहरे प्रसादः संभवतीति तुरीय इत्युक्तम् । यद्वा, यद्यपि प्रथमादीनामपि चतुःसंख्यापूरकत्वम्, तथाप्युपादानसामर्थ्यादिह पश्चिमो यामस्तुरीय इति गम्यते । तथा च कालिदासः, 'पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना।' इति । माघोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ।' इति ।
वृत्तवर्तिष्यमाणयोः संगतिमुल्लिङ्गयन् , काव्यभेदान् कथयितुमाह-- एवमिति । गद्यमिति । 'गद व्यक्तायां वाचि' इति धातोः 'गदमदचरयमश्चाकाव्यं गद्यं पद्यं च ॥ २१ ॥
गद्यस्य पूर्वं निर्देशो दुर्लक्षविशेषत्वेन दुर्वबन्धत्वात् । तथाहुः-- 'गद्यं कवीनां निकषं वदन्ति ।' इति ।
तच्च त्रिधा भिन्नमिति दर्शयितुमाह--
गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ २२ ॥
तल्लक्षणान्याह--
नुपसर्गे' इति कर्मणि यत्प्रत्यय सति गद्यमिति रूपम् । यद्वा 'स्तनगदी देवशब्दे' इति चौरादिकणिजन्तात् · अचो यत्' इति यत्प्रत्यये सति गद्यमिति रूपम् , देवैः शब्दनीयं गद्यमिति । पादेषु भवं पद्यम् । शरीरमिति विवक्षायां — शरीरावयवाच्च' इति भवार्थे यत्प्रत्यये भसंज्ञायां पदादेशे च सति पद्यमिति रूपम् । अनेन पद्यसामान्यलक्षणं सूचितं भवति । तदुक्तं काव्यादर्शे, ‘पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।' इति । गद्यस्य पूर्वनिर्देशे हेतुमाह-- गद्यस्येति। दुर्लक्षाः कृच्छ्रेण लक्ष्याः विशेषाः गुरुलघुनियमादयो यस्य तस्य भावः तेन हेतुना, दुर्बन्धं कृच्छ्रेण बन्धुं शक्यं तस्य भावस्तस्मात् पूर्वनिर्देशः, कृत इति शेषः । अत्राभाणकमपि दर्शयति-- तथाहुरिति । निकषो हेमादिकषणोपलः । 'निकषस्तु घृषिर्घृप्यो हेमादिनिकषोपलः । इति वैजयन्ती। कनकानामिव कवीनां प्रकर्षापकर्षपरीक्षास्थानमिति यावत् ॥
गद्यभेदान् गणयितुमाह-- तच्चेति । वृत्तगन्धि क्वचिद्भागे वृत्तच्छायानुकारि । चूर्णपदेनोपचारात् व्यस्तपदसमाहारो लक्ष्यते । तेन व्यस्तपदबहुलं चूर्णम् । उत्कलिकाप्रायमिति । उत्कलिका उत्कण्ठा। 'उत्कण्ठोत्कलिके समे' इत्यमरः । उत्कलिकायाः प्रायः प्रयोगबाहुल्यं यस्मिंस्तत् उत्कलिकाप्रायं गद्यम् । यस्मिन् श्रूयमाणे श्रोतृणामुत्कण्ठा बहुला भवतीत्यर्थः । यद्वा कलिकाशब्दोऽत्र लक्षणया रुहरुहिकायां वर्तते। उल्लसन्ती कलिकां रुहरुहिकां प्रैति प्राप्नोतीत्युत्कलिकाप्रायम् । यत्र पदसंदर्भपरिपाटी काण्डोपकाण्डसंरोहशालिनी कलिकेवोल्लसति, तदुत्कलिकाप्रायमित्यर्थः ।
विशेषलक्षणानि विवरीतुमाह-- तल्लक्षणानीति । वसन्ततिलकेति ।पद्यभागवद्वृत्तगन्धि ॥ २३ ॥
पद्यस्य भागाः पद्यभागास्तद्वत् वृत्तगन्धि ।
यथा--- 'पातालतालुतलवासिषु दानवेषु' इति ।
अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते ।
अनाविद्धललितपदं चूर्णम् ॥ २४ ॥
अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदनाविद्धललितपदं चूर्णमिति ।
यथा- 'अभ्यासो हि कर्मणां कौशलमावहति । नहि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।' इति ।
विपरीतमुत्कलिकाप्रायम् ॥ २५ ॥
विपरीतमाविद्धोद्धतपदमुत्कलिकाप्रायम् ।
यथा- 'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकुम्भस्थलगलन्मदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति ।
पद्यमनेकभेदम् ॥ २६ ॥
'उक्तं वसन्ततिलकं तभजा जगौ गः' इति तल्लक्षणम् ।
अनाविद्धेति । वृत्तिः स्पष्टार्था । उदाहरति-----अभ्यास इति । नहि सकृदिति । नहीति निपातसमुदायः प्रतिषेधवाचकः सकृदित्यनेन संबध्यते, तथा चासकृदित्यर्थः संपद्यते । मात्रशब्देन सहकारिमात्रादिर्व्यावर्त्यते । तेनोदबिन्दुरप्यसकृन्निपातमात्रेण ग्रावणि पाषाणे निम्नतामादधातीत्यन्वयमुखेन पूर्ववाक्यार्थः समर्थितो भवति ।
विपरीतमिति । सुगमम् । चपेटा करतलाघातः । 'चपेटः प्रतते पाणौ तदाघाते स्त्रियामयम्' इत्यमरशेषः ॥ पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन उपेतं भवति ।
तदनिबद्धं निबद्धं च ॥ २७ ॥
तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् ।
क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ २८ ॥
तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः। अनिबद्धसिद्धौ निबद्धसिद्धिः स्रगुत्तंसवत् । यथा स्रजि मालायां सिद्धायामुत्तंसः शेखरः सिध्यति ।
पद्यं विभजते--- समेति । समवृत्तमर्धसमवृत्तं विषमवृत्तम् । आदिशब्देनार्यावैतालीयादिमात्रावृत्तानां परिग्रहः । सप्रवृत्तादिलक्षणमुक्तं भामहेन, 'सममर्धसमं वृत्तं विषमं च त्रिधा मतम् । अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते । प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते । यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥' इति ।
गद्यपद्ययोरुभयोरप्यवान्तरभेदावाह-- तदिति । गद्यपद्यात्मकं काव्यं प्रकृतं तच्छब्देन परामृश्यत इति व्याचष्टे-- तदिदं गद्यपद्यरूपमिति । व्याख्याने जाड्यमव्याख्याने मौढ्यमित्यत आह-- अनयोः प्रसिद्धत्वादिति । अनिबद्धं मुक्तकं निबद्धं प्रबन्धरूपमिति प्रसिद्धिः । मुक्तकलक्षणमुक्तं भामहेन, 'प्रथमं मुक्तकादीनामृजु लक्षणमुच्यते । यदेव गाम्भीर्यौदार्यशौर्यनीतिमतिस्पृशा। भवेन्मुक्तकमेकेन द्विकं द्वाभ्यां त्रिकं त्रिभिः ॥' इति । निबद्धानि सर्गबन्धादीनि । तल्लक्षणं काव्यादर्शे, 'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्' इत्यादिना द्रष्टव्यम् ।
अनयोरभ्यासक्रममाह--- क्रमसिद्धिरिति । अनिबद्धमभ्यस्य निबद्धरचनायां यतितव्यमित्यर्थः । अत्र दृष्टान्तः स्रगुत्तंसवत्' इति । केचिदनिबद्ध एव पर्यवसिताः, तद्दूषर्णाथमाह--
नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥
न खल्वनिबद्धं काव्यं चकास्ति दीप्यते। यथैकतेजःपरमाणुरिति ।
अत्र श्लोक:---
'असंकलितरूपाणां काव्यानां नास्ति चारुता ।
न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥' इति ।
संदर्भेषु दशरूपकं श्रेयः ॥ ३० ॥
संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ॥
कस्मात् ? तदाह-
तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ ३१ ॥
तत् दशरूपकं हि यस्मात् चित्रं चित्रपटवत् । विशेषाणां साकल्यात् ।
अनिबद्धसिद्धिमात्रेण कविंमन्यानन्यानपवदितुमाह-- केचिदिति । प्रावादुकसंमतिं दर्शयति- अत्र श्लोक इति । असंकलितरूपाणाम् अनिबद्धरूपाणामित्यर्थः ।
निबद्धेषु तरतमभावं निरूपयति--- संदर्भेष्विति । रूपकस्वरूपं निरूपितं दशरूपके, “अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाद्दशधैव रसाश्रयम् ॥' इति । भावप्रकाशेऽपि, 'रूपकं तद्भवेद्रूपं दृश्यत्वात्प्रेक्षकैरिदम् । रूपकत्वं तदारोपात्कमलारोपवन्मुखे ॥' इति । दश रूपकाणि तु, ' नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥' इति । दशानां रूपकाणां समाहारो दशरूपकम् । समाहारस्यैकत्वादेकवचनम् । पात्रादित्वात् स्त्रीत्वप्रतिषेधे नपुंसकत्वम् । श्रेयः अतिशयेन प्रशस्यमित्यर्थः ॥ ३० ॥
श्रेयस्त्वे हेतुं पृच्छति--- कस्मादिति । हेतुमुपन्यस्यति---- तदिति ।ततोऽन्यभेदक्लृप्तिः ॥ ३२ ॥
ततो दशरूपकादन्येषां भेदानां क्लृप्तिः कल्पनमिति, । दशरूपकस्यैव हीदं सर्वं विलसितम्, यदुत कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः। तदन्यतो ग्राह्यम् ॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे
तृतीयोऽध्यायः ॥
समाप्तं चेदं शारीरं प्रथममधिकरणम् ॥
विशेषाणां भाषाभेदादिरूपाणाम् ।
कथाख्यायिकादीनां महाकाव्यभेदानामस्मादेव वस्तुविन्यासकल्पनमिति प्रकारान्तरेणापि श्रेयस्त्वमस्य प्रतिपादयितुमाह- तत इति । इदं सर्वमिति । कथाख्यायिकादिमहाकाव्यस्वरूपम् । विलसितमित्यस्य व्याख्यानं खण्डशः कृतमिति, यत् कथा चाख्यायिका च महाकाव्यमिति व्यपदिश्यते, तदिदं सर्वमिति व्याकुट्य योजनीयम् । यदि कथाख्यायिके महाकाव्ये तर्हि तल्लक्षणं किमिति न प्रदर्शितमिति तत्राह- तल्लक्षणमिति । यदि केनचित्तल्लक्षणमपेक्षितम् , तद्भामहालंकारादौ द्रष्टव्यमित्याह -- तदन्यत इति । नाटकादिलक्षणं तु ग्रन्थविस्तरभयादस्माभिर्न लिखितम् ॥
इति कृतरचनायामिन्दुवंशोद्वहेन
त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
ललितवचसि काव्यालंक्रियाकामधेना-
वधिकरणमयासीदादिमं पूर्तिमेतत् ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-
व्याख्याया काव्यालंकारकामधेनौ शारीर नाम
प्रथममधिकरणम् ॥