२
श्लोकाश्च [१]व्याख्यानुसारान्मङ्गलश्लोकेन सहिताः २०० भवन्ति । वैयाकरणसमयसिद्धशब्दातिरेकेणापूर्वः शब्दो न कश्चिदिह व्यवहाराय परिभाषितः । यत् पुनः
'चुरादिश्चुर्युजादिर्युः स यस्माण्णिज्विभाषितः ।' (१९९ श्लो.)
इति ग्रन्थान्ते दृश्यते, तदपि नपुंसकस्य नप्शब्दव्यवहारवच्छब्दैकदेशलक्षणयैव सिद्धत्वान्न परिभाषणसाध्यम् । अत एवानावश्यकत्वद्योतनाय ग्रन्थादौ तन्न निवेशितमिति पुरुषकारः ॥
पुरुषकारः कृष्णलीलाशुकेन प्रणीतः । पुरुषकार इति च दैवसंज्ञानुगुण्यात् कृतं नामधेयं, यथा भाग्यापरपर्यायं दैवं पुरुषकारेण विना न प्रसन्नं भवति, तथैव विनानेन व्याख्यानेन मूलमिति ध्वनयितुम् । पुरुषकारो हि आकाङ्क्षितार्थजातपूरणेन [२]धातु[३]धात्वाकार[४]धात्वर्थादिषु विप्रवादविषयेषु निर्णायकप्रमाणयुक्त्युपन्यसनेन च मूलार्थं बुद्धौ प्रतिष्ठापयति । दैवस्य चैनं सारवत्तया सूत्रदेश्यस्य वार्त्तिकं ग्रन्थकारो व्यपदिष्टवान्--
इति । प्रसन्नपरिमिताक्षरैर्वाक्यैर्गम्भीराविष्कारे यो भङ्गिविशेषः, तेन पुरुषकारः कैयटकृतेरदूरविप्रकृष्ट इति न शक्यं न वदितुम् । किञ्चायं दैवाद्यपद्यविवरणेन कर्तुर्वेदान्तविद्यानैपुण्यं भणता ब्रह्मसूत्रभाष्यभामतीछायामनुविधत्ते ॥
इमं प्रामाणिकमूर्धन्यः सायणाचार्यो माधवीयधातुवृत्तौ बहुषु प्रघट्टकेषु प्रमाणयति दैवं च क्वचित्क्वचित् । यथा--
" 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' अत्र कैयटपुरुषकारमैत्रेयादिषु
तृतीयो न पठ्यते" ।
" 'लाज लजि भर्त्सने च' भर्त्सनग्रहणं
भर्जनस्याप्युपलक्षणमिति पुरुषकारः"
" 'इट किट कटी गतौ' ....अयं पक्षः समर्थितः पुरुषकारे....
--'अन्ये पुनरुभावपि न पठन्ति । व्यक्तञ्चैतद्
धनपालशाकटायनवृत्त्योः । अपि च शौटृ गर्व इत्यादिकान् कांश्चि