'यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया । |
इत्यादि एतदागमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतं, स एष[२] परमेश्वरो विस्मृजति
- ↑ अन्न स्फुटीकरणाथै निदर्शनेन शिवदृष्टावौन्मुख्यं साधितम् । यथा
'गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् ।
आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ॥
व्रजतो मुष्टितां पाणे: पूर्वः कम्पस्तदेक्ष्यते ।
बोधस्य स्वास्मनिष्ठस्य रचनां प्रति निर्वृतिः ॥
तदास्था प्रविकासो यस्तदोन्मुख्यं प्रचक्षते ।
किंचिदुच्छूनता सैव महद्भिः कैश्चिदिप्यते ॥
तस्येच्छा कार्यतां याता यया सेच्छः प्रजायते ।
औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ॥'इति ।
- ↑ स एपेति, शक्तिविसर्गयुक्तो विश्वं निर्मिणोतीति, यथोक्तम्
'अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ।
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ॥इति । तथा
'कला सप्तदशी तस्मादमृताकाररूपिणी ।
परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥