पृष्ठम्:श्रीपरात्रिंशिका.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

विश्वं, तच्च धरादिशक्त्यन्तं कादि-क्षान्तरूपम्- इति एतावती विसर्गशक्तिः 'षोडशी कला' इति गीयते

'पुरुषे पोडशकले तामाहुरमृतां कलाम् ।'

इत्येषा हि न सांख्येया नापि वैदान्तिकी दृक्, अपि तु शैव्येव, विसर्गशक्तिरेव च पारमेश्वरी परमानन्दभूमिबीजम् , एवं हि अकारादिरूपं

प्रकाशः सर्ववस्तूनां विसर्गरहिता तु सा । शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा । विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च ।। इति । १ पोडशानामपि कलानामाप्यायकारित्वात् नित्योदितत्वेन चानस्त-मितत्वादमृतामिति । २ शैव्येवेति स्वात्मनः स्वात्मनि स्वात्मक्षेपे वैसर्गिकी स्थितिः।। इति । ३ यदुक्तं सिद्धयोगीश्वरे मते 'सात्र कुण्डलिनी बीजं प्राणभूता चिदात्मिका । तजं ध्रुवेच्छोन्मेपाख्यं त्रिकं वर्णास्ततः पुनः ॥ इति । . 7