सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये चतुर्थपर्व (२)

तृतीयचतुर्थयोर्नाम दर्शयति--

गन्धर्वाप्सरसामानन्दप्रतिनन्दौ पक्षौ ॥ ६.४.२.४ ॥

आयं गौः पृश्निरक्रमीत् (सा. ६३०) इत्यत्र सामद्वयमुत्पन्नम् । उवि । उवि (आ. गा. ६. २. २७१) इत्यादिकमाद्यं गन्धर्वाप्सरसामान- न्दपक्षसंज्ञकम् । हिगी (आ. गा. ६. २. २७२) इत्यादिकं द्वितीयं गन्धर्वाप्सरसां प्रतिनन्दपक्षसंज्ञकम् ॥ ४ ॥

पञ्चमादीनां त्रयाणां नामानि दर्शयति--

सौर्योऽतीषङ्गः। इन्द्रस्य सधस्थम् । मरुतां भूतिः॥६.४.२.५॥

अतीषङ्गो नाम परस्परमिश्रणम् । उभयोः ऋचोः सौर्यात्वाव्यति- षज्यते । हाउ (त्रिः) भ्राजाओवा (त्रिः) उदुत्या (आ. गा. ६. २. २७३) इति पञ्चमम् ॥

हाउ (त्रिः) सहोभ्राज (आ. गा.६.२.२७४) (स्तोभगानम्) इत्यादि ऋगक्षररहितं षष्ठमनुगानम् इन्द्रस्य सधस्थनामकम् ॥

औहोऔहोवा (आ. गा. ६. २. २७१) इत्यादि पुरतः स्तोभयुक्तम् अन्तश्चरतिरोचना (सा. ६३१) इत्यस्यां गीयमानं सप्तममनुगानं मरुतां भृतिनामकम् । अत्र प्राणापानयोर्विद्यमानत्वात् ॥ ५॥

अष्टमादीनां त्रयाणां नामान्यविभज्य दर्शयति--

प्रजापतेस्तिस्रः सार्पराज्ञ्याः। सर्पाणां वा। अर्बुदस्य वा ॥६.४.२.६॥