पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः खण्डः


द्रविणविष्पर्धसी द्वे ॥६.२.६.१॥

महि त्रीणाम् (सा. १९२) इत्यत्र सामद्वयम् । हाउमहि इत्यादि महित्रीणामवारस्तू (आ. गा. ३. ६. १४२) इति द्वितीयादिकम् । हाउदिवि इत्यादि महित्रीणाम (आ. गा. ३. ६. १४३) इति द्वितीयादिकम् । एते द्वे द्रविणविष्पर्धसी द्रविणविष्पर्धसनामके ॥१॥

याममधुच्छन्दसे द्वे ॥६.२.६.२॥

नाके सुपर्णम् (सा. ३२०) इत्यत्र सामैकम् । औहोइ इत्यादि नाकेसुपार्णम् (आ. गा. ३. ६. १४४) इति द्वितीयक्रुष्टादिकम् । सुरूपकृत्नुमृतये (सा. १६०) इत्यत्रैकं साम । सुरूपकृत्नुमूतये (आ. गा. ३. ६.१४५) इति द्वितीयक्रुष्टादिकम् । एते द्वे ऋग्द्वयाश्रिते सामनी याममाधुच्छन्दसे । पूर्वं याम [म्] परं माधुच्छन्दसम् ॥ २॥

वसिष्ठस्य शफौ द्वौ ॥ ६.२.६.३ ॥

प्रथश्च यस्य सप्रथश्च नाम (सा. ५९९) इत्यत्र सामद्वयम् । हाउ प्राथाः (आ. गा. ३. ६. १४६) इति क्रुष्टद्वितीयादिकम् । प्राथाः चयस्य (आ. गा. ३. ६. १४७) इति क्रुष्टद्वितीयादिकम् । एते द्वे वसिष्ठस्य शफनामधेये ॥ ३॥

शुक्रचन्द्रे द्वे ॥६.२.६.४॥

नियुत्वान्वायवा गह्ययम् (सा. ६००) इत्यत्र सामैकम् । हाउ (त्रिः) शुक्रम् इत्यादि नियुत्वान्वायवागाही (आ. गा. ३. ६. १४८) इति द्वितीयादिकम् । अत्राह गोरमन्वत (सा. १४७) इत्यत्रैकं साम ।