सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ४(ऐन्द्रं पर्व)

विकिस्रोतः तः

चतुर्थोऽध्यायः

प्रथमः खण्ड:

कौल्मलबर्हिषे द्वे । इन्द्रस्य नानदं तृतीयम् । नदतो वाङ्गिरसस्य ॥४.१.१॥

प्रत्यस्मै पिपीषते (सा. ३५२) इत्यत्र सामत्रयमुत्पन्नम् । प्रत्यस्मै- पिपाहाउ (ग्राम ९. १. ३५२. १) इति मन्द्रादिकम् । प्रत्यस्मैपिपीषताइ (ग्राम. ९.१. ३५२.२) इति मन्द्रमन्द्रादिकम् । एते द्वे कौन्मलबहिये। प्रत्यस्मैपिपी (ग्राम. ९. १. ३५२.३) इति तृतीयचतुर्थादिकम् इन्द्रस्य नानदम् । अथवा आङ्गिरसस्य नदतः ॥ १॥

शाकपूतम् ॥४.१.२॥

आ नो वयो वयः शयम् (सा. ३५३) इत्यत्रैक साम । आनो- वयोवयःशायाम् (ग्राम. ९. १. ३५३. १) इति मन्दमन्द्रादिक शाकपूतम् । शाकपूतो नाम ऋषिः ॥ २॥

कौल्मलबर्हिषे चैव ॥४.१.३ ॥

आ त्वा रथम् (सा. ३५४) इत्यत्र सामद्वयम् । आत्वारथंयथौ- होवा (ग्राम. ९. १. ३५४.१) इति मन्द्रचतुर्थादिकम् । आत्वारथं यथो (ग्राम. ९. १. ३५४. २) इति तृतीयचतुर्थादिकम् । एते द्वे कौल्मलबर्हिषे चैव ॥ ३ ॥

प्रजापतेश्च मधुश्विन्निधनम् ॥ ४.१.४ ॥

स पूर्यो महोनाम् (सा. ३५५) इत्यत्रैकं साम । सपूर्व्योमहोआर्षेयग्राह्मणम् १२४

नामे (ग्राम. ९. १. ३५५.१) इति मन्द्रमन्द्रादिकं प्रजापतेश्च मधुश्चि- निधनम् । अस्य सानो मधुश्चुता इति निधनम् ॥ ४ ॥

उषसश्च साम ॥ ४.१.५॥

यदी वहन्त्याशवः (सा. ३५६) इत्यत्रैक साम । यदीवहन्त्या- शवः (ग्राम. ९.१.३५६.१) इति चतुर्थमन्द्रादिकम् उषसः साम ॥ ५॥

भारद्वाजं च ॥ ४.१.६॥

त्यमु वो अप्रहणम् (सा. ३५७) इत्यत्रैक साम । त्यमुव(वो!) (ग्राम. ९. १. ३५७.१) इति तृतीयचतुर्थादिक भारद्वाजम् ॥ ६ ॥

अग्नेश्च दधिक्रम् ॥ ४.१.७ ॥

दधिक्राव्ण (सा. ३५८) इत्यत्रैक साम । ओहाइ । दधिक्राव्णो- अकारिषम् (ग्राम. ९. १. ३५८.१) इति चतुर्थमन्द्रादिकम् अग्नेश्च दधिक्रम् ॥ ७॥

मारुतं च । माधुच्छन्दसं वा ॥ ४.१.८ ॥

पुगं भिन्दुर्युवा कविः (सा. ३५९) इत्यतैकं साम । पुराभिन्दु- युवाकवीः (ग्राम. ९. १. ३५९.१) इति मन्द्रतृतीयादिकं मारुतम् । मारुतं भवति मासा वै रश्मयो मरुतो वै रश्मयो मरुतो वै देवानां भूयिष्ठा [भूयिष्ठा अ]साम (तां. ब्रा. १४. १२. ८-९) इत्यादि ब्राक्षण- मनुसंधेयम् । अथवा माधुच्छन्दसं मधुच्छन्दा नाम ऋषिः तेन दृष्टम् ॥८॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये प्रथमः खण्डः ॥ १॥ द्वितीयः खण्डः

वामदेव्यं च ॥४.२.१॥

प्रप्र वस्त्रिष्टुभम (सा. ३६०) इत्यत्रैक साम । प्रप्रवस्त्रिष्टुभमि- पमोहाओहाए ( ग्राम. ९.२. ३६०.१) इति मन्द्रादिमन्द्रादिकं वामदेव्यम् । वामदेवेन दृष्टम् ॥ १॥

काश्यपं चाप्सरसं वा ॥४.२.२॥

कश्यपस्य स्वर्विदः (सा. ३६१) इत्यत्रैक साम । कश्यपस्या --- विदाए (ग्राम. ९. २. २६१.१) इति मन्द्रमन्द्रादिकं काश्यप कश्यप- शब्दयुक्तम् । अथवा आप्सरसम् एतन्नामधेयम् ॥ २ ॥

प्रैयमेधं च ॥ ४.२.३॥

अर्चत प्रार्चता (सा. ३६२) इत्यत्रैक साम । अर्चतप्रार्चतानाराः - (प्राम. ९.२. ३६२.१) इति द्वितीयतृतीयादिकं प्रेयमेधम् । प्रियमेधो नाम ऋषिः ॥ ३॥

बार्हदुक्थं च ॥ ४.२.४॥

उकथमिन्द्राय शस्यम् (सा. ३६३) इत्यत्रैक साम । उक्थ- मिन्द्रा (ग्राम. ९. २. ३६३. १) इति मन्द्रादिकं बाहदुक्थम् ॥ ४ ॥

अग्नेर्वैश्वानरस्य सामनी द्वे ॥४.२.५॥

विश्वानरस्य वस्पतिम् (सा. ३६४) इत्यत्र सामद्वयम् । विश्वा- नरा (ग्राम. ९. २. ३६४.१) इति मन्द्रादिकम् । विश्वानरस्यवौ (ग्राम. ९.२. ३६४. २) इति तृतीयद्वितीयादिकम् । एते वैश्वानरस्य अग्नेः सामनी ॥ ५॥ आर्षेयब्राह्मणम्

शाकपूते द्वे ॥ ४.२.६॥

स घा यस्ते दिवो नरः (सा. ३६५) इत्यत्र सामद्वयम् । सघा- यस्ताइ (ग्राम. ९.२. ३६५ १) इति द्वितीयक्रुष्टादिकम् । सघायस्ताइ (ग्राम. ९. २. ३६५.२) इति मन्द्रादिकम् । एते द्वे शाकपूते ॥ ६ ॥

वरुणान्याः साम ॥ ४.२.७ ॥

विभोष्ट इन्द्र राधसः (सा. ३६६) इत्यत्रैक साम । विभोष्टइन्द्र- राधासाः (ग्राम. ९. २. ३६६.१) इति मन्दमन्द्रादिकं वरुणान्याः साम । इन्द्रवरुण (पा. ४.१.४९) इति वरुणशब्दात् ङीपानुकौ ॥ ७ ॥

औषसं च ॥ ४.२.८॥

वयश्चित्ते पतत्रिणः (सा. ३६७) इत्यत्रैक साम । वयश्चाइत्ते. पतत्रिणाः (ग्राम. ९. २. ३६७.१) इति मन्द्रद्वितीयादिकम् औषसम् ॥ ८॥

देवानां च रुचिरुचेर्वा रोचनम् ॥ ४.२.९॥

अमी ये देवा स्थन (सा. ३६८) इत्यत्रैकं साम | अमीयेदेवा- स्थाना (ग्राम. ९.२. ३६८. १) इति मन्द्रचतुर्थादिकं देवानां रोचनम् । अथवा रुचिरुचेः एतत्संज्ञकस्य रोचनं साम ॥ ९॥

ऋक्साम्नोः सामनी द्वे ॥ ४.२.१० ॥

ऋचः पूर्व साम साम्नः उत्तरम् इति ऋचः साम । ऋचश्याम यजा- महे (सा. ३६९) इत्यत्र सामद्वयम् । ऋचरपाम यजा (ग्राम. ९.२. १३१ चतुर्थ : अध्यायः (२)

३६९.१) इति चतुर्थमन्द्रादिकं प्रथमम् ऋकसाम । ऋचश्सामा यजामहाइ (ग्राम. ९.२.२६९.२) इति मन्द्रद्वितीयादिकं साम्नः द्वितीयं साम । कसानोरित्यत्र समासान्तप्रत्ययस्य विकल्पितत्वात्तदभावः ।। १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषयब्राह्मणभाष्ये चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ तृतीयः खण्डः

त्रैशोकम् ॥ ४.३.१॥

विश्वाः पृतना अभिभूतरं नरः (सा. ३७०) इत्यत्रैक साम । विश्वोहाइ (ग्राम. ९. ३. ३७०.१) इति मन्द्रचतुर्थादिकं शोकनामधेयम् । त्रैलोक्यस्य शोकापहरणकारणम् । तथा च ब्राह्मणम् – इमे वै लोकाः सहा- संस्तेऽशोचस्तेषामिन्द्र एतेन साम्ना शुचमपाहन्यत् त्रयाणां शोचता- मपाहंस्तस्मात् त्रैशोकम् (ता. ब्रा. ८. १. ९) इंति ॥ १ ॥

शैखण्डिने द्वे । अत्रेर्विवर्ती द्वौ । महासावेतसे द्वे । महाशैरीषे द्वे ॥४.३.२॥

श्रत्ते दधामि (सा. ३७१) इत्यत्र अष्टौ सामान्युत्पन्नानि । श्रत्तेहोइ (ग्राम. १०.३. ३७१.१) इति तृतीयद्वितीयादिकम् । अत्ताइ (ग्राम. १०.३.३७१.२) इति [च] तथा । एते आये द्वे शैखण्डिने। अयोवा (ग्राम. १०.३.३७३. ३) इत्यादि तृतीयद्वितीयादिकम् । इयोवा (ग्राम. १०. ३. ३७१. ४) इत्यादि [च] तथा । एते द्वे अत्रेर्विवर्तनामधेये । आयाम् । श्रत्ताइ (ग्राम. १०. ३. ३७१. ५) इति क्रुष्टद्वितीयादिकम् । अयंया। श्रत्ताइ (ग्राम. १०.३.३७१. ६) इति द्वितीयतृतीयादिकम् । एते द्वे महा- सावेतसनामके। औहोहोहाइ । श्रत्ताइ (ग्राम. १०. ३. ३७१.७) इति मन्द्रचतुर्थादिकम् । श्रत्ताओहोहोहाइ (ग्राम. १०. ३. ३७१. ८) इति च तथा । एते अन्तिमे द्वे महाशैरीपनामके ॥ २ ॥ चतुर्थः अध्यायः (३)

इन्द्रस्य प्रियाणि त्रीणि । वसिष्ठस्य वा ॥ ४.३.३ ॥

समेत विश्वा ओजसा (सा. ३७२) इत्यत्र त्रीणि सामानि । समा- हाउ (ग्राम. १०.३.३७२.१) इति चतुर्थमन्द्रादिकम् । समेतविश्वाओ- जसापतिम् । एपातीम् । दियया (ग्राम. १०. ३. ३७२ २) इति मन्द्र- चतुर्थादिकम् । समेतविश्वाओजसापतिम् । एपातिम् । दाइबाया (ग्राम. १०. ३. ३७२.३) इति [च] तथा। एतानि त्रीणि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य प्रियाणि ॥३॥

इन्द्रस्य वैरूपाणि त्रीणि । वसिष्ठस्य वा ॥ ४.३.४॥

इमे त इन्द्र ते वयं पुरुष्टुन (सा. ३७३) इत्यत्र सामत्रयमुत्पन्नम् । इमेतश्रा (ग्राम. १०.३.३७३.१) इति मन्द्रद्वितीयादिकम् । इमेतआ। द्रतेवयंपुरु (ग्राम. १०.३. ३७३.२) इति मन्द्र [ द्वितीया] दिकम् । इमेता- इन्द्रतेवयंपुरुष्टुतोवा (ग्राम. १०.३. ३७३. ३) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि इन्द्रस्य वैरूपाणि । अथवा वसिष्ठस्य वैरूपाणि ॥ ४ ॥

बार्हदुक्थं च ॥ ४.३.५॥

चर्षणी धृतं मघवानम् (सा. ३७४) इत्यत्रक साम । चर्षणी- धृतःहाउ (ग्राम. १०. ३. ३७४.१) इति मन्द्रादिकं बाहदुकथम् ॥ ५ ॥

त्रासदस्यवे च ॥ ४.३.६॥

अच्छाव इन्द्रम् (सा. ३७५) इत्यत्र सामद्वयम् । अच्छापइन्द्रं- मतयःसुवर्युवाए (ग्राम. १०. ३. ३७५.१) इति मन्द्रमन्द्रादिकम् । आच्छावइन्द्रंम (ग्राम. १०. ३. ३७५. २) इति क्रुष्टद्वितीयादिकम् । एते द्वे त्रासदस्यवे । त्रसदस्युर्नाम ऋषिः ॥ ६॥

सौभरे द्वे । सोमसाम वैनयोः पूर्वम् ॥ ४.३.७ ॥ १३४ आर्षेयब्राह्मणम्

अभि त्यं मेषम् (सा. ३७६) इत्यत्रैकं साम । अभित्यांमेषं (ग्राम. १०. ३. ३७६. १) इति मन्द्रद्वितीयादिकम् । त्यꣳ सु मेषम् (सा. ३७७) इत्यत्रैकं साम । त्यꣳसूमेषंमहया (ग्राम. १०. ३. ३७७.१) इति मन्द्रद्वितीयादिकम् । एते ऋग्द्वयाश्रिते सामनी मौभरे द्वे। सुभरिणा दृष्टे । अत्रैव विकल्पः । वा अथवा अ (ए?) नयोः ऋग्द्वयाश्रितयोः साम्नोः पूर्वं प्रथमं सोमसाम ॥ ७॥

द्यावापृथिव्योः सामनी द्वे । वरुणसामनी वा ॥४.३.८॥

घृतवती भुवनानाम् (सा. ३७८) इत्यत्र सामद्वयम् । घृतव (ग्राम. १०.३. ३७८.१) इति चतुर्थतृतीयादिकम् आद्यम् । घृतवतीभुवनानाम् (ग्राम. १०. ३. ३७८.२) इति मन्द्रचतुर्थादिक द्वितीयम् । एते द्वे द्यावा- पृथिव्योः सामनी । अथवा वरुणसामनी ॥ ८ ॥

इन्द्रस्य च श्येनः ॥ ४.३.९॥

उभे यदिन्द्र रोदसी (सा. ३७९) इत्यत्रैकं साम । उभेयदिन्द्र- रोदसाइ (ग्राम. १०. ३. ३७९.१) इति मन्द्रचतुर्थादिकम् इन्द्रस्य श्येनः एतन्नामधेयं साम ॥ ९॥

वैरूपं च । च्यावनं वा ॥ ४.३.१० ॥

प्र मन्दिने पितुमर्चता (सा. ३८०) इत्यत्रैकं साम । प्रमंदाइने (ग्राम. १०. ३. ३८०. १) इति द्वितीयतृतीयादिकं वैरूपं यद्वा च्यावनम् । च्यवनो दाधीचः ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ।। अनुष्टुब्भाष्यं समाप्तम् ॥ चतुर्थः खण्डः

इन्द्रस्य क्रोशानुक्रोशे द्वे । कौत्सं तृतीयम् । वसिष्ठस्य कोशानि ॥४.४.१॥

इन्द्र सुतेषु (सा. ३८१) इत्यत्र सामत्रयम् । तत्र इन्द्रा (ग्राम, १०. ४. ३८१.१) इति मन्द्रचतुर्थादिकम् । इन्द्राहोइ (ग्राम. १०. ४. ३८१.२) इति तृतीयद्वितीयादिकम् । एते द्वे इन्द्रस्य क्रोशानुक्रोशे । आद्य क्रोशनामकम् । तथा च ब्राह्मणम् क्रोशं भवत्येतेन वा इन्द्र इन्द्रकोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत् (ता. बा. १३. ५. १४-१५) इति । इन्द्रसुतेषुसोमेषु (ग्राम. १०. ४. ३८१. ३) इति मन्द्र- चतुर्थादिकं तृतीय साम कौत्सम् । अथवा वसिष्ठस्य क्रोशसंज्ञकानि त्रीणि ॥१॥

दैवोदासे द्वे । प्रहितोः संयोजने द्वे । ओकोनिधनं वैनयोः पूर्वम् ॥ ४.४.२॥

तमु अभि प्र गायत (सा. ३८२) इत्यत्र चत्वारि सामान्युत्पन्नानि । हाउतभूवभी (ग्राम. १०. ४. ३८२.१) इति मन्द्रादिकम् । तामूवभी (प्राम. १०. ४. ३८२. २) इति तृतीयचतुर्थादिकम् । एते आये द्वे देवो- दासे । तमूअभिप्रगायता (ग्राम. १०. ४. ३८२. ३) इति मन्द्रचतुर्था- दिकम् । तमूअभिप्रगायतेदाम् (ग्राम. १०. ४. ३८२. ४) इति मन्द्र- चतुर्थादिकम् । एते द्वे प्रहितोः संयोजने। अथवा एनयोः पूर्वम् ओको- निधनम् । अस्य निधनमोकाः इति हि ॥ २ ॥

हारिवर्णानि चत्वारि ॥ ४.४.३॥

तं ते मदं गृणीमसि (सा. ३८३) इत्यत्र चत्वारि सामानि उत्पन्नानि । तंतेमेदम् (ग्राम. १०. ४. ३८३.१) इति चतुर्थमन्द्रादिकम् । आर्षेयब्राह्मणम्

तांते (ग्राम. १०. ४. ३८३. २) इति तृतीयचतुर्थादिकम् । तंतेमदंगृणी- मसीए (ग्राम. १०. ४. ३८३. ३) इति मन्दमन्द्रादिकम् । तंतेमदांगृणी- मसाइ (ग्राम. १०.४.३८३.४) इति चतुर्थमन्द्रादिकम् । एतानि वत्वारि हारिवर्णानि हरिवणेन दृष्टानि । हरिवों वा एतत्पशुकामः सामापश्यत् (ता. ब्रा. ८. ९. ४) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ३ ॥

वैतानि चत्वारि ॥ ४.४.४ ॥

यत्सोममिन्द्र विष्णवि (सा. ३८४ ) इत्यत्र चत्वारि सामान्युत्पन्नानि । यत्सोममिन्द्रविष्णावी (ग्राम. १०.४.३८४.१) इति मन्द्रचतुर्थादिकम् । यत्सोममाइन्द्रविष्णवाइ (ग्राम. १०. ४. ३८४.२) इति चतुर्थमन्द्रादिकम् । हाओहायत्सोममा (ग्राम. १०.४. ३८४.३) इति मन्द्रादिकम् । औहोइ । औहोइवा । यसोममीन्द्राविष्णा (प्ण ?) बी (वाइ ?) (ग्राम. १०. ४. ३८४. ४) इति तृतीयद्वितीयादिकम् । एतानि चत्वारि नैतानि । तो नाम ऋषिः ॥ ४ ॥

सुराधसश्च प्राधसश्चाहिरसयोस्त्रीणि सामानि । मारुतं वैषां तृतीयम् ॥ ४.४.५॥

मधोमदिन्तरम् (सा. ३८५) इत्यत्र सामद्वयम् । एदुमधोः (ग्राम. १०.४.३८५.१) इति तृतीयचतुर्थादिकम् । एदुमघौहोर्मदिन्तराम् (ग्राम. १०. ४. ३८५. २) इति चतुर्थमन्द्रादिकम् । एन्दुमिन्द्राय सिञ्चत (सा. ३८६) इत्यत्रैक साम। एंदुमि (ग्राम. १०. ४. ३८६.१) इति तृतीयमन्द्रादिकम् । एवं ऋद्वयाश्रितानि त्रीणि सामानि । आङ्गिर-योः सहापेक्षया द्विवचनम् । सुराधसश्च प्रराधसश्च एतत्संज्ञकयोः त्रीणि सामानि । अथवा एषां मध्ये तृतीयं द्वितीयस्यामृच्युत्पन्न साम मारुतम् ॥५॥ १३७ चतुर्थः अध्यायः (४)

वैश्वमनसम् ॥ ६॥

एतोन्विन्द्र स्तवाम (सा. ३८७) इत्यत्र सामैकम् । एतोन्विन्द्र स्तवामा (ग्राम. १०. ४. ३८७.१) इति मन्द्रमन्द्रादिकं वैश्वमनसम् । विश्वमना नाम ऋषिः ॥ ६॥

सौमित्राणि त्रीणि ॥ ७॥

इन्द्राय साम गायत (सा. ३८८) इत्यत्र त्रीणि सामान्युत्पन्नानि । इन्द्रायसा (ग्राम. १०.४.३८८.१) इति मन्द्रादिकम् । इन्द्रा । यसाम (ग्राम. १०. ४. ३८८.२) इति तृतीयद्वितीयादिकम् । औहौहोइ । औहोइ । ओवा । इन्द्रायसामगायत (ग्राम. १०.४.३८८.३) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि सौमित्राणि ॥ ७ ॥

त्रैककुभानि त्रीणि ॥ ८॥

य एक इद्विदयते (सा. ३८९) इत्यत्र सामत्रयमुत्पन्नम् । यएक- इदिहाहाउ (ग्राम. १०.४.३८९.१) इति मन्द्रादिकम् । याए । काईत । चिदयताइ (ग्राम. १०. ४.३८९.२) इति तृतीयद्वितीयादिकम् । यएकइ- द्विदायातइ (ग्राम. १०. ४.३८९.३) इति मन्दमन्द्रादिकम् । एतानि त्रैककुभानि ॥ ८॥

औक्ष्णोनियानानि त्रीणि । औक्ष्णोरन्घ्राणि वा ॥ ९॥

सखाय आ शिषामहे (सा. ३९०)इत्यत्र सामत्रयम् । सखाय- आहाउ (ग्राम. १०.४.३९०.१) इति मन्द्रादिकम् । सखायआशिपाम । १३४ आर्षेयब्राह्मण हाइ (ग्राम. १०.४. ३९०.२) इति चतुर्थमन्द्रादिकम् । सखायः (ग्राम. १०. ४.३९०.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि औक्ष्णोनियानानि । अथवा औक्षणोरन्ध्राणि । उक्ष्णोरन्ध्रो नाम ऋषिः ॥ ९॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आपर्यंब्राह्मणभाष्ये चतुर्थाध्याये चतुर्थः खण्डः ॥ ४ ॥ पञ्चमः खण्डः

प्रयस्वच्च प्राजापत्यमक्षरं चाक्षारं वा प्रयस्वच्चैव ॥४.५.१॥

गृणे तदिन्द्र ते शवः (सा. ३९१) इत्यत्र सामत्रयम् । हाउगृणाइ (ग्राम. १०. ५. ३९१.१) इति चतुर्थमन्द्रादिकं प्रथम प्राजापत्यं प्रजापतिसंबन्धि प्रयस्वन्नामधेयम् । गृणेतदा (ग्राम.१०.५.३९१. २) इति मन्द्रतृतीयादिकं द्वितीयम् अक्षरसंज्ञम् । अथवा आक्षारनामधेयम् । गृणेतदोहोइन्द्रतेशवाः (ग्राम. १०. ५. ३९१. ३) इति चतुर्थमन्द्रादिक तृतीयं प्रयस्वन्नामधेयम् एव ॥१॥

दैवोदासानि चत्वारि ॥४.५.२॥

यस्य त्यच्छम्बरं मदे (सा. ३९२) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र यस्या (ग्राम. १०. ५. ३९२. १) इति तृतीयद्वितीयादिकम् । यस्यत्य- च्छांबरंमदाइ (ग्राम. १०. ५. ३९२. २) इति चतुर्थमन्द्रादिकम् । यस्य- त्याच्छांबरमन्दाइ (ग्राम. १०. ५. ३९२. ३) इति मन्द्रद्वितीयादिकम् । यास्यत्यत् (ग्राम. १०. ५. ३९२. ४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि दैवोदासानि । दिवोदासो नाम ऋषिः ॥ २ ॥

इन्द्रस्य सांवर्ते द्वे । संवर्तस्य वाङ्गिरसस्य ॥ ४.५.३ ॥

एन्द्र नो गधि प्रिय (सा. ३९३) इत्यत्र सामद्वयम् । एन्द्रनाः (ग्राम. १०. ५. ३९३. १) इति चतुर्थमन्द्रादिकम् । एन्द्रनोगधिप्राया (ग्राम. १०. ५. ३९३. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य सांवतें रक्षःसंवर्तनहेतुभूते । अथवा आङ्गिरसस्य संवर्तस्य सामनी ॥ ३ ।।

आक्षारं चैव यामं वा ॥ ४.५.४ ॥ १४० आर्षेय ब्राह्मणम्

य इन्द्र सोम (सा. ३९४.) इत्यत्रैक साम । यइन्द्रसो (ग्राम. १०.५.३९४.१) इति मन्द्रादिकं (चतुर्थमन्द्रादिकम् ?) आक्षारमेव आक्षरण- साधनं साम । तथा च ब्राह्मणम् – एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापतिराक्षारेणाक्षारयद्यदाक्षारयत् तदाक्षारस्याक्षारत्वम् (ता. बा. ११. ५. १०) इति । अथ वा एतत्साम यामम् ॥ ४ ॥

प्रजापतेश्च दीर्घायुष्यम् ॥ ४.५.५॥

तुचे तुनाय तत्सु नः (सा. ३९५) इत्यत्रैक साम । तुचेतुना (ग्राम. १०. ५. ३९५.१) इति चतुर्थतृतीयादिकं प्रजापतेश्च दीर्घायुष्यम् ॥५॥

भरद्वाजस्य च शुन्ध्युः ॥ ४.५.६॥

वेत्था हि निर्धतीनाम् (सा. ३९६) इत्यत्रैक साम. । वेत्थाहि (ग्राम. १०. ५. ३९६. १) इति चतुर्थमन्द्रादिक भरद्वाजस्य शुन्ध्युः, एतच्छब्दयुक्तं साम । अहरहः शुन्ध्युः परिपदामिव (सा. ३९६) इति विद्यमानत्वात् ॥ ६॥

आदित्यस्यापामीव[म्] ॥ ४.५.७ ॥

अपामीवामप (सा. ३९७) इत्यत्रैकं साम । अपामीवामपा (ग्राम, १०. ५. ३९७.१) इति चतुर्थमन्द्रादिकम् आदित्यस्यापामीवम् । एत- च्छब्दयुक्तं साम ॥ ७॥

इन्द्रस्य वैराजे द्वे । वसिष्ठस्य वा प्रजापतेर्वा सहोदैर्घतमसे वा ॥ ४.५.८॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्र सामद्वयम् । पिबा (ग्राम. १०. ५. ३९८.१) इति मन्द्रचतुर्थादिकम् । हाउपिया (ग्राम. १०. ५. ३९८. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य बैराजे । विराट्छन्दस्सामनी। अथवा बसिष्ठस्य वैराजे । प्रजापतेर्वा सहोदैर्घतमसे । एतत्संज्ञकस्य ऋषेर्वा वैराजे ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः

इन्द्रस्याभ्रातृव्यम् ॥४.६.१॥

अभ्रातृव्यो अना त्वम् (सा. ३९९) इत्यत्रैकं साम । अभ्रातृव्यो अनातुवाम् (ग्राम. १०. ६. ३९९. १) इति चतुर्थमन्द्रादिकम् इन्द्रस्या भ्रातृव्यम् । [अभ्रातृशब्दयुक्तमेतन्नामधेयम् ॥ १॥

शार्करे द्वे ॥४.६.२॥

यो न इदमिदं पुरा (सा. ४००) इत्यत्र सामद्वयम् । योनोहउ (ग्राम. १०.६. ४००. १) इति चतुर्थमन्द्रादिकम् । योनाइदमिदंपुरा (ग्राम. १०. ६. ४००. २) इति मन्द्रचतुर्था(तृतीया )दिकम् । एते द्वे शार्करे । शर्करो नाम ऋषिः तेन दृष्टे । स शर्करं शिशुमारमृषिमुपेत्याब्रवीत्। स्तुहि मा इत्यादि । स एतत्सामापश्यत् (तां.ब्रा.१४.५.१५) इत्यादि ब्राह्मणमनुसंधेयम् ॥२॥

बृहत्कम् ॥ ४.६.३ ॥

आ गन्ता मा रिषण्यत (सा. ४०१) इत्यत्रैकं साम । आगन्ता (ग्राम. ११. ६. ४०१. १) इति चतुर्थमन्द्रादिकं बृहत्कम् । एतन्नामधेयं साम । [तथा च ब्राह्मणम् -] बृहत्कं भवति । सामार्षेयेण (तां. ब्रा. १२. ११. १३-१४) इति ॥ ३ ॥

सौयवसानि त्रीणि ॥ ४.६.४॥

आ याह्ययमिन्दवे (सा. ४०२) इत्यत्र सामत्रयम् । आयाही (ग्राम. ११. ६. ४०२. १) इति चतुर्थमन्द्रादिकम् । आयाहिया (ग्राम. ११. ६. ४०२. २) इति चतुर्थमन्द्रादिकम् । आयाह्ययमिन्दावाइ (ग्राम. ११. ६. ४०२. ३) इति मन्द्रादिकम् । एतानि त्रीणि सौयवसानि ॥ ४ ॥

मरुतां च धेनु ॥ ४.६.५॥

त्वया ह स्विद्युजा (सा. ४०३) इत्यत्रैकं साम । त्वयाहस्वीत् (ग्राम. ११. ६. ४०३. १) इति मन्द्रादिकं मरुतां धेनु एतत्संज्ञम् ॥ ५ ॥ १४२ आर्षेय ब्राह्मणम्

मरुतां संवेशीयम् । सिन्धुषाम वा ॥ ४.६.६ ॥ गावश्चिद्धा समन्यतः (सा. ४०४) इत्यत्रैक साम । गावश्चिद्धासा- मन्यवाः (ग्राम. ११. ६. ४०४.१) इति मन्दमन्द्रादिक मरुतां च संवेशीयम् । सिन्धुषाम वा ॥ ६॥

इन्द्रस्याभरे द्वे । वसिष्ठस्य वा ॥ ४.६.७ ॥

त्वं न इन्द्र आभर (सा ४०५) इत्यत्र सामद्वयम् । त्वंनई (ग्राम. ११. ६. ४०५. १) इति चतुर्थमन्द्रादिकम् । त्वंनइन्द्रा (ग्राम. ११. ६. ४०५.२) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्याभरे । [आ]भरशब्दयुक्त । अथवा वसिष्ठस्य वा आभरे ॥ ७ ॥

वायोरैषिराणि त्रीणि । ऐषिरस्य वा प्रैयमेधस्य ॥ ४.६.८॥

अधा हीन्द्र गिर्वणः (सा. ४०६) इत्यत्र सामत्रयम् । अधाहिया (ग्राम. ११. ६. ४०६. १) इति चतुर्थमन्द्रादिकम् । अधाहीन्द्रगिर्वाणाः (ग्राम. ११. ६. ४०६. २) इति मन्दमन्द्रादिकम् । अधाहीन्द्रगिर्वणाए (ग्राम. ११. ६. ४०६. ३) इति मन्दमन्द्रादिकम् । एतानि त्रीणि वायोषि- राणि । अथवा ऐषिरस्य वा। इषिरो नाम ऋषिः । तदपत्यस्य प्रेयमेधस्य सामानि ।। ८ ।।

प्रजापतेः सीदन्तीये द्वे ॥४.६.९॥

सीदन्तस्ते वयो यथा ( सा. ४०७.) इत्यत्र सामद्वयम् । साइ । दन्तस्तेव (ग्राम. ११. ६. ४०७.१) इति द्वितीयतृतीयादिकम् । सीदन्तस्तेवयः (ग्राम. ११: ६. ४०७.२) इति तृतीयचतुर्थादिकम् । एते द्वे प्रजापतेः सीदन्तीये सीदन्तयुक्त सामनी ॥ ९॥ चतुर्थः अध्यायः (६) १४३

पक्थस्य सौभरस्य सामनी द्वे । पथो वा पक्थस्य वा सौभरे वा सौभ्रवे वा ॥ ४.६.१० ॥

वयमु त्वामपूर्व्य (सा. ४०८ ) इत्यत्र सामद्वयम् । वयमुत्वाम- पूर्विया (ग्राम. ११. ६. ४०८.१) इति मन्द्रद्वि(तृ?)तीयादिकम् । वयम- वामपूर्व्यस्थूरनकञ्चिद्भरन्तः (ग्राम. ११. ६. ४०८. २) इति मन्द्रचतुर्था- दिकम् । एते द्वे सौभरस्य सुभरेरपत्यस्य पक्थस्य सामनी । अथवा पथः सामनी । यद्वा अन्यगोत्रस्य पक्थस्य सामनी । एते सौभरिणा दृष्टे । वा सौभ्रवे । सुर्धर्नाम ऋषिः ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये पष्ठः खण्डः ॥ ६ ॥ सप्तमः खण्डः

यामम् ॥४.७.१॥ स्वादोरित्था विषूवतः (सा. ४०९) इत्यक साम । स्वादोरित्वा- विषू (ग्राम. ११. ७. ४०९. १) इति चतुर्थतृतीयादिकं यामम् ॥१॥

गृत्समदस्य मदौ द्वौ ॥४.७.२॥

इत्था हि सोम (सा. ४१०) इत्यत्र सामद्वयम् । इत्थाहिसो (ग्राम. ११. ७. ४१०. १) इति मन्द्रादिकम् । इत्थाहिसोमइन्मदाः (ग्राम. ११. ७. ४१०. २) इति चतुर्थमन्द्रादिकम् । एते द्वे गृत्समदस्य मदौ । एतन्नामधेये ॥ २॥

आभीके द्वे । आभीशवे द्वे । बार्हद्गिराणि त्रीणि ॥४.७.३॥

इन्द्रो मदाय वावृधे (सा. ४११.) इत्यत्र सप्त सामान्युत्पन्नानि । तत्र इन्द्रोमदायवा । वार्धाइ (ग्राम. ११. ७. ४११. १) इति द्वितीयतृतीयादिकम् । इन्द्रोमदायवावृधाइ (ग्राम. ११. ७. ४११. २) इति चतुर्थमन्द्रादिकम् । एते द्वे आभीके एतन्नामधेये। इन्द्रोमदायवावृधाइ (प्राम. ११.७.४११.३) इति चतुर्थमन्द्रादिकम् । इन्द्रोमदायवावृधेशवसेव (प्राम. ११.७. ४११. ४) इति चतुर्थमन्द्रादिकम् । एते द्वे आभीशवे । इन्द्रोमदा (ग्राम. ११. ७. ४११. ५) इति तृतीयद्वितीयादिकम् । इन्द्रोमदाय (ग्राम. ११.७. ४११. ६) इति तृतीयद्वितीयादिकम् । ओहाइ इन्द्रोमदाय (ग्राम. ११. ७. ४११. ७) इति मन्द्रतृतीयादिकम् । एतानि त्रीणि बार्हद्रािणि ॥ ३ ॥

इन्द्रस्य च स्वाराज्यम् ॥ ४.७.४॥

इन्द्र तुभ्यमिदद्रिवः (सा. ४१२) इत्यत्रैक साम । इन्द्रतुभ्यमिद- द्रिवाए (ग्राम. ११.७.४१२.१) इति मन्द्रमन्द्रादिकम् इन्द्रस्य च स्वाराज्यम् । स्वराज्यशब्दयुक्तम् । अर्चन्ननु स्वराज्यम् (४१२) इति विद्यमानत्वात् ॥४॥ चतुर्थः अध्यायः (७) १४५

कश्यपस्य च धृष्णु । यामं वा ॥४.७.५॥

प्रेह्यभीहि धृष्णुहि (सा. ४१३) इत्यत्रैकं साम । प्राईही (ग्राम. ११.७. ४१३. १) इति क्रुष्टद्वितीयादिकं कश्यपस्य च धृष्णु । धृष्णुपदयुक्तमेतत्साम । अथवा यामम् ॥ ५॥

मरुतां च संवेशीयम् । सिन्धुषाम वा ॥४.७.६॥

यदुदीरत (सा. ४१४) इत्यत्रैकं साम । यदुदीरातआजयाः (ग्राम. ११. ७. ४१४. १) इति चतुर्थमन्द्रादिकॆ मरुतां च संवेशीयम् । एतन्नामधेयं साम । अथवा सिन्धुषाम तत्साम ॥ ६ ॥

यामे चैव ॥ ४.७.७॥

अक्षन्नमीमदन्त (४१५) इत्यत्रैकं साम । अक्षन्नमीमद (ग्राम. ११.७. ४१५. १) इति तृतीयचतुर्थादिकम् । उपो षु शृणुही गिरः (सा. ४१६) इत्यत्रैक साम । उपोषुशृणुहीगिरः (ग्राम. ११. ७. ४१६. १) इति तृतीयचतुर्थादिकम् । एते द्वे ऋग्द्वयाश्रिते सामनी यामे चैव ॥ ७ ॥

त्रैतानि त्रीणि । सौपर्णे द्वे ॥४.७.८॥

चन्द्रमा अप्स्वन्तरा (सा. ४१७) इत्यत्र पञ्च सामान्युत्पन्नानि । चन्द्रमाआउवा (ग्राम. ११. ७. ४१७.१) इति द्वितीयक्रुष्टादिकम् । चन्द्रमाआ (ग्राम. ११. ७. ४१७. २) इति चतुर्थमन्द्रादिकम् । चन्द्रमाआप्सु- वन्तरा (ग्राम. ११. ७. ४१७. ३) इति मन्द्रद्वितीयादिकम् । एतानि त्रीणि त्रैतानि । त्रितो नाम ऋषिः तेन दृष्टानि । चन्द्रमाअप्सुवा (ग्राम. ११.७. ४१७. ४) इति मन्द्रचतुर्थादिकम् । चन्द्रौहोमाअप्सुवन्तरा (ग्राम. ११.७.४१७.५) इति मन्द्रचतुर्थादिकम् । एते अन्तिमे द्वे सौपणे सुपर्णशब्दयुक्ते सामनी ॥ ८॥

लौशम् ॥ ४.७.९॥

प्रति प्रियतमम् (सा. ४१८) इत्यत्रैकं साम । प्रातिप्रियतमम् (ग्राम. ११. ७. ४१८. १) इति क्रुष्टद्वितीयादिकं लौशम् एतन्नामधेयं साम ॥ ९ ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये सप्तमः खण्डः ॥ ७ ॥ अष्टमः खण्डः

इन्द्रस्य संजये द्वे । सौते वा । सौग्मते वा। द्विहिंकारं वा वामदेव्यं द्वितीयम् ॥४.८.१॥

आ ते अग्न इधीमहि (सा. ४१९) इत्यत्र सामद्वयम् । आतेअग्न (ग्राम. ११. ८. ४१९. १) इति क्रुष्टद्वितीयादिकम् आतेअनइधी (प्राम. ११. ८. ४१९. २.) इति तृतीयचतुर्थादिकम् । एते द्वे इन्द्रस्य संजये असुराभि- हननहेतुभूते । तथा च ब्राह्मणम् -देवाश्च वा असुराश्च समदधत यतरे नः संजयांस्तेषां नः पशवोऽसानिति ते देवा असुरान् संजयेन [समजयन् यत्] समजयंस्तस्मात् संजयम् (ता. ब्रा. १३. ६. ७) इति । अथवा एते सामनी सौते सौग्मते वा । अथवा द्वितीयं साम द्विहिंकारं हिंकारद्वययुक्तं वामदेव्यं । हिं हिं (हुम्हुम् !) द्यावा इति साम्नि द्विः पठितत्वात् ॥ १॥

अङ्गिरसां चोत्सैधनिषेधौ ॥४.८.२॥

अग्निं न स्ववृक्तिभिः (सा. ४२०) इत्यत्र सामद्वयोत्पत्तिः । हाउ- औहोवा अग्निनस्ववृक्तिभीः (प्राम. ११. ८. ४२०. १) इति द्वितीयतृतीया- दिकम् । अग्निंनस्ववृक्तिभिर्हइहाहाइ (ग्राम. ११. ८. ४२०. २) इति मन्द्रा- दिकम् । अनयोर्द्वयोः अङ्गिरसां च उत्सेधनिषेधौ इति संज्ञे ॥ २ ॥ सत्यश्रवसश्च वाय्यस्य साम ॥ ३ ॥ महे नो अद्य बोधय (सा. ४२१) इत्यत्रक साम । महाइमहेनो अद्य (ग्राम. ११. ८. ४२१.१) इति तृतीयद्वितीयादिकं सत्यश्रवसः एतत्संज्ञकस्य वाय्यस्य ऋषेः साम ॥ ३॥

पौषं च ॥४.८.४॥

भद्रं नो अपि वातय (सा. ४२२) इत्यत्रै साम । भद्रनोअपिवातया (ग्राम. ११. ८. ४२२. १) इति द्वितीयक्रुष्टादिकम् । एतत् पौषम् पूष्णः संबन्धि ॥ ४ ॥ १४७ चतुर्थ : अध्यायः

औषसं च ॥ ४.८.५॥

क्रत्वा महा५ अनुष्वधम् (सा. ४२३) इत्यत्रैकं साम । क्रत्वा- महा५ अनुष्वधामे (ग्राम. ११. ८. ४२३. १) इति मन्द्रमन्द्रादिकम् औषसम् ॥ ५॥

लौशं च यामं वा ॥ ४.८.६॥

स घा तं वृषणम् (सा. ४२४) इत्यत्रैक साम। सघातंवृषणम् (ग्राम. ११. ८. ४२४. १) इति तृतीयचतुर्थादिकं लौशम् एतन्नामधेयम् । अत्रैव विकल्पः । अथवा एतत्साम यामम् ॥ ६ ॥

अङ्गिरसां चैव निषेधः ॥ ४.८.७ ॥

अग्नि तं मन्ये यो वसुः ( सा. ४२५) इत्यत्रैक साम । अग्नितां- मन्येयोवसूः (ग्राम. ११. ८. ४२५.१) इति मन्द्रद्वितीयादिकम् । एतस्य अङ्गिरसा निषेध इति संज्ञा ॥ ७ ॥

गौराङ्गिरसस्य साम । अंहोमुचो वा ॥ ४.८.८ ॥

न तम हो न दुरितम् (सा. ४२६) इत्यत्रैक साम । नतम होन- दुरितम् (ग्राम. ११. ८. ४२६. १) इति चतुर्थमन्द्रादिकम् आङ्गिरसस्य गौरेः साम । अथवा अंहोमुचः एतत्संज्ञस्य साम ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आपर्यंब्राझणभाष्ये चतुर्थाध्याये अष्टमः खण्डः ॥ ८॥ इति पाङ्क्तम् ॥ नवमः खण्डः

इन्द्रस्य संक्रमे द्वे । वसिष्ठस्य वा सौहविषाणि त्रीणि । सर्वाणि वा सौहविषाणि ॥४.९.१॥

परि प्र धन्व (सा. ४२४) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र परिप्रधन्वा (ग्राम. ११. ९. ४२७.१) इति चतुर्थमन्द्रादिकम् । परिप्रधन्वा । इन्द्रायसोमा । ओहा (ग्राम. ११. ९. ४२७. २) इति चतुर्थमन्द्रादिकम् । एते आद्ये द्वे इन्द्रस्य संक्रमे अथवा वसिष्ठस्य संक्रमे । परिहोइ (ग्राम. ११. ९. ४२७. ३) इति तृतीयद्वितीयादिकम् । हाहाइ। परिप्रधान्वा (ग्राम. ११. ९. ४२७. ४) इति द्वितीयतृतीयादिकम् । पार्येपारी (ग्राम. ११.९. ४२७. ५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सौहविषाणि । सुहविर्वाङ्गिरस ऋषिः तेन दृष्टानि ॥१॥

बाकानि त्रीणि ॥४.९.२॥

पर्यू षु प् रधन्व (सा. ४२८) इत्यत्र सामत्रयम् । पर्युषुप्रधन्वावाजासा (ग्राम. ११. ९. ४२८. १.) इति द्वितीयतृतीया(चतुर्था ?)दिकम् । पर्यूषू (ग्राम. ११. ९. ४२८. २) इति मन्द्रादिकम् । पर्येपारी (ग्राम. ११. ९. ४२८. ३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि बाकानि ॥ २ ॥

प्रजापतेर्धर्मविधर्माणि चत्वारि ॥ ४.९.३ ॥

पवस्व सोम महान् (सा. ४२९) इत्यत्र सामद्वयम् । पवस्वसोमा (ग्राम. ११. ९. ४२९. १) इति चतुर्थमन्द्रादिकम् । औहोवा (ग्राम. ११.९. ४२९. २) इति मन्द्रातिस्वारमन्द्रादिकम् । एते द्वे प्रजापतेर्धर्मणी । [अत्र] द्वितीयं ('यस्य ?) साम(म्नः?) धर्मा इति हि निधनान्तत्वेनोक्तत्वात् १४९

चतुर्थः अध्यायः (९)

[उभे अपि धर्मयुक्ते इत्यभिधीयते । प्राणभृते प्राणभृत उपदधातीतिवत् । एवमुत्तरत्रापि द्रष्टव्यम् । पवस्व सोम महे दक्षाय (सा. ४३०) इत्यत्र सामद्वयम् । ओहोवा (ग्राम. ११.९.४३०.१) इत्यादि मन्द्रादिकम् । पवस्वसोमा (ग्राम.११.९.४३०.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्रजापतेर्विधर्मणी। अत्र द्वितीयस्य साम्नो विधर्म(1) इति हि निधनम् । एतानि धर्मविधर्मनिधनयुक्तानि ऋग्द्वयाश्रितानि चत्वारि सामानीत्यर्थः ॥ ३ ॥

भागं च ॥४.९.४॥

इन्दुः पविष्ट (सा. ४३१) इत्यत्रैकं साम । इन्दुः पविष्टा (ग्राम. ११.९. ४३१. १) इति चतुर्थमन्द्रादिकं भागम् । भगो नाम ऋषिस्तेन दृष्टम् ॥ ४ ॥

वाजिनां साम ॥४.९.५॥

अनु हि त्वा (सा. ४३२) इत्यत्रैकं साम । अनु। अनू (ग्राम. ११.९. ४३२. १) इति चतुर्थमन्द्रादिक वाजिनांसामनामकम् । वाजाꣳ अभि पवमान प्रगाहसे (४३२) इत्यत्र वाजशब्दः पठ्यते । तद्युक्तानां साम्नामित्यर्थः ॥ ५॥

प्रजापतेर्हिकविकनिकानि त्रीणि । विकनिकहिकानि वा । निकविकहिकानि वा ॥ ४.९.६॥

कईं व्यक्ता नरः सनीडा (सा. ४३३) इत्यत्र सामत्रयम् । कईंव्यक्ताः (ग्राम. ११. ९. ४३३. १) इति चतुर्थमन्द्रादिकम् । कईं वियक्ताः (ग्राम. ११. ९. ४३३. २) इति तृतीयद्वितीयादिकम् । काईम् (ग्राम. ११.९.४३३.३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि प्रजापतेः हिकविकनिकसंज्ञानि । अत्र वर्णविपर्यासेन उक्तं विकल्पद्वयम् । विकनिकहिकानि वा । निकविकहिकानि वा इति ॥ ६॥ १५० आर्षेयब्राह्मणम्

आश्वे द्वे । ऐटते वा ॥ ४.९.७ ॥

अग्ने तमद्याश्वं न (सा. ४३४) इत्यत्र सामद्वयम् । अग्ने तमाद्या (ग्राम. ११. ९. ४३४. १) इति मन्द्रचतुर्थादिकम् । अग्ने। होइ। तमद्य (ग्राम. ११. ९. ४३४. २) इति मन्द्रद्वितीयादिकम् । एते द्वे आश्वे अश्व- शब्दयुक्ते सामनी । अथवा ऐटते । इटतो नाम ऋषिः तेन दृष्टे वा ॥७॥

वाजिनां चैव साम ॥ ४.९.८॥

आविर्या आ वाजम् (सा. ४३५) इत्यत्रैक साम । आविर्मार्याः (ग्राम. ११. ९. ४३५. १) इति द्वितीयक्रुष्टादिकं वाजिनां च सामैव ॥ ८॥

आदित्यानां च पवित्रम् ॥ ४.९.९॥

पवस्व सोम द्युम्नी सुधारः (सा. ४३६) इत्यत्रैकं साम । पवस्व सोमा (ग्राम. ११. ९. ४३६. १) इति चतुर्थमन्द्रादिकम् आदित्यानां च पवित्रनामधेयम् ॥ ९॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये नवमः खण्डः ॥ ९ ॥ दशमः खण्डः

इन्द्रस्याभरे द्वे । वसिष्ठस्य वा ॥४.१०.१॥

विश्वतो दावन् विश्वतो न आभर (सा. ४.३७) इत्यत्र सामद्वयम् । विश्वतोहाउ (ग्राम. ११. १०. ४३७. १) इति मन्द्रादिकम् । विश्वतोदाव- न्विश्वतोनआ (ग्राम. ११. १०. ४३७. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्याभरे आभरशब्दयुक्त सामनी । अथवा वसिष्ठस्याभरे ॥१॥

वासुमन्दे द्वे । कावषाणि त्रीणि ॥ ४.१०.२ ॥

एष ब्रह्मा य ऋत्विय (सा. ४३८) इत्यत्र पञ्च सामान्युत्पन्नानि । एषाः (ग्राम. ११. १०. ४३८. १) इति चतुर्थमन्द्रादिकम् । एषाएषाः (ग्राम. ११.१०. ४३८.२) इति चतुर्थमन्द्रादिकम् । एते आये द्वे वासुमन्दे । वसुमन्दो नाम ऋषिः । तेन दृष्टे । एषाः । ओ। ओवा (ग्राम. ११.१०. ४३८. ३) इति चतुर्थमन्द्रादिकम् । ओहा ओहा। एषाब्रह्मा (ग्राम. ११. १०. ४३८. ४) इति द्वितीयतृतीयादिकम् । एषब्रह्मोहो (ग्राम. ११. १०.४३८. ५.) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि कावषाणि ॥ २ ॥

प्रजापतेः श्लोकानुश्लोकानि चत्वारि ॥ ४.१०.३ ॥

ब्रह्माण इन्द्रं महयन्तः (सा. ४३९) इत्यत्र सामद्वयम् । हाउस्वरता (ग्राम. १२.१०. ४३९.१) इत्यादि मन्द्रादिकम् । हाउ। अभि । स्वरता (प्राम. १२.१०. ४३९. २) इत्यादि मन्द्रादिकम् । एतयोः श्लोकयता-श्लोका इति क्रमेण निधने । अनवस्ते रथम् (सा. ४४०) इत्यत्रैक साम । हाउ- खरता (ग्राम. १२.१०. ४४०. १) इत्यादि मन्द्रद्वितीयादिकं स्वरातेति निधनयुक्तम् । शं पदम् (सा. ४४१) इत्यत्रै साम । औहोइ । शम्पदाम् (ग्राम. १२.१०. ४४१.१) इति तृतीयद्वितीयादिकम् ओइडेति निधनयुक्तम् । १५२ आर्षेयब्राह्मणम्

एतानि ऋक्त्रयाश्रितानि चत्वारि सामानि प्रजापतेः श्लोकानश्लोक संज्ञकानि ॥३॥

वाचःसामनी द्वे ॥ ४.१०.४ ॥

सदा गावः शुचयः (४४२) इत्यत्रैकं साम । सादा। (ग्राम. १२.१०. ४४२. १) इति चतुर्थमन्द्रादिकम् । आ याहि वनसा सह (सा. ४४३) इत्यत्रैकं साम । औहोइ । आयाहि (ग्राम. १२. १०. ४४३.१) इति तृतीयद्वितीयादिकम् । एते ऋग्द्वयाश्रिते वाचःसामनी द्वे ॥ ४ ॥

मारुतं च । माधुच्छन्दसं वा ॥४.१०.५॥

उप प्रक्षे मधुमति (सा. ४४४) इत्यत्रैकं साम । ओवा। उप- प्रक्षेमधुमतिक्षियन्तः (ग्राम. १२. १०. ४४१. १) इति चतुर्थमन्द्रादिकं मारुतम् । अथवा माधुच्छन्दसम् एतत् ॥ ५ ॥

मारुतं चैव ॥ ४.१०.६॥

अर्चन्त्यक मरुतः (सा. ४४५) इत्यत्रै साम । अर्चन्तिया (ग्राम. १२.१०.४४५.१) इति चतुर्थमन्द्रादिकं मारुतमेव ॥ ६॥

उद्वंशपुत्रश्च ('पुत्रस्य च ?) ॥ ४.१०.७॥

प्र व इन्द्राय वृत्र (सा. ४४६) इत्यत्रैक साम । प्रवाः (ग्राम.१२. १०.४४६.१) इति मन्द्रचतुर्थादिकम् उद्वंशपुत्रश्च(पुत्रस्य च?) साम ॥ ७॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्रामणभाष्ये चतुर्थाध्याये दशमः खण्डः ॥ १० ॥ एकादशः खण्डः

धुरोः शाम्ये द्वे ॥४.११.१॥

अचेत्यग्निश्चिकितिः (सा. ४४७) इत्यत्र सामद्वयम् । अचेति (ती:?) (ग्राम. १२.११.४४७.१) इति चतुर्थमन्द्रादिकम् । अचेतिया (ग्राम. १२. ११. ४४७.२) इति चतुर्थमन्द्रादिकम् । एते द्वे धुराः शाम्ये एतन्नाम- धेये ॥१॥

प्रजापतेश्च गूढः । कूहों वा । विश्वामित्रस्य चात्यईः । प्रजापतेश्चैव गृहर्दो विश्वामित्रस्य चात्यदः ॥ ४.११.२ ॥

अग्ने त्वं नो अन्तमः (सा. ४४८) इत्यत्र चत्वारि सामान्युत्प- नानि । ओग्नाइ (ग्राम. १२. ११. ४४८.१) इति चतुर्थमन्द्रादिकं प्रजापतेश्च गूईः । गूर्दो भवति । गोपायनानां वै सत्रमासीनानाम् (तां. ब्रा. १३. १२. ४-५) इत्यादि ब्राह्मणम् । अथवा कूर्दः । अग्नौ होइ (ग्राम. १२. ११. ४४८.२) इति मन्द्रद्वितीयादिकम् । विश्वामित्वस्य चात्यईनामधेयम् । अग्नेतूवन्नो अन्तमाः (ग्राम. १२. ११. ४४८.३) इति मन्द्रद्वितीयादिकं प्रजापतेश्चैव गूर्दः । अग्नेहोइ (ग्राम. १२. ११. ४४८. ४) इति मन्द्रादिकं विश्वामित्रस्यात्यई एव ॥ २ ॥

प्रजापतेः सांतनिके द्वे ॥ ४.११.३ ॥

भगोन चित्रः (सा. ४४९) इत्यत्र सामद्वयम् । भागाः (ग्राम. १२.११. ४४९.१) इति चतुर्थमन्द्रादिकम् । भगोनचित्राः (ग्राम. १२. ११. ४४९.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्रजापतेः सांतनिक- नामधेये ॥ ३॥

प्रजापतेर्धनधर्मणी द्वे ॥ ४.११.४॥ आर्षेयब्राह्मणम् १५४ विश्वस्य प्रस्तोभ (सा. ४५०) इत्यत्र सामद्वयम् । विश्वस्या (ग्राम १२. ११. ४५०.१) इति मन्द्रादिकम् । औहोइ विश्वस्या (ग्राम. १२. ११. ४५०. २) इति मन्द्रादिकम् । एते द्वे प्रजापतेर्धनधर्मणी । धानाम् धार्मा इति क्रमेण निधनयुक्ते सामनी ॥ ४ ॥

उषसश्च साम ॥४.११.५॥ उषा अप स्वसुष्टमः (सा. ४५१) इत्यत्र सामैकम् । उषाअपा (ग्राम. १२. ११. ४५१.१) इति मन्द्रादिकम् उपसः साम। सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ ५॥

भारद्वाजं च ॥ ४.११.६॥

इमा नु के भुवना (सा. ४५२) इत्यत्र सामैकम् । इमानुकम् (प्राम. १२. ११. ४५२.१) इति मन्द्रचतुर्थादिक भारद्वाजं च ॥ ६ ॥

इन्द्रस्य च राति ॥ ४.११.७॥

विस्रुतयो यथा (सा. ४५३) इत्यत्रैक साम । विस्रविस्तू (ग्राम. १२.११.४५३.१) इति चतुर्थमन्द्रादिकम् इन्द्रस्य च राति एतत्संज्ञकम् ॥ ७॥

भारद्वाजं च ॥ ४.११.८॥

अया वाजं देवहितम् (सा. ४५४) इत्यत्रैक साम । अयावाजाम् (ग्राम. १२.११.४५४.१) इति मन्द्रादिकं भारद्वाजम् एव ॥ ८॥ चतुर्थः अध्यायः (११) १५५

ऍषं च ॥ ४.११.९॥

ऊर्जा मित्रो वरुणः (सा. ४५५) इत्यत्र सामैकम् । ऊर्जा (ग्राम. १२. ११.४५५.१) इति चतुर्थमन्द्रादिकम् ऐषं च इषशब्दयुक्तमेतन्नामकम् । पीवरीमिषं कृणुही न इन्द्र (४५५०) इति विद्यमानत्वात् ॥९॥

इन्द्रस्य वैराजे द्वे । वसिष्ठस्य वा प्रजापतेर्वा विशां वा सामनी ॥ ४.११.१०॥

इन्द्रो विश्वस्य राजति (सा. ४५६) इत्यत्र सामद्वयम् । इन्द्रो विश्वस्य रा (ग्राम. १२.११.४५६.१) इति तृतीयद्वितीयादिकम् । इन्द्रा होइ (ग्राम. १२. ११.४५६.२) इति क्रुष्टद्वितीयादिकम् । एते द्वे इन्द्रस्य वैराजे । अथवा वसिष्ठस्य वैराजे । प्रजापतेर्वा विशां वा सामनी । विश्वशब्दस्य च तद्वाचकस्य विद्यमानत्वात् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषयेब्राह्मणभाष्ये चतुर्थाध्याय एकादशः खण्डः ॥ ११ ॥ द्वादशः खण्डः प्रजापतेश्च वाजजित् ॥ ४.१२.१॥

त्रिकद्रुकेषु महिषः (सा. ४५७) इत्यत्रैक साम । ओइत्रिक (ग्राम. १२.१२ ४५७.१) इति द्वितीयतृतीयादिकं प्रजापतेर्वाजजिन्नाम- धेयम् ॥१॥

गोराङ्गिरसस्य सामनी द्वे ॥४.१२.२॥

अयश्सहस्रमानवः (सा. ४५८) इत्यत्र सामद्वयम् । अय सहोहाइ (ग्राम. १२. १२.४५८.१) इति मन्द्रचतुर्थादिकम् । अयमहस्र- मानावाः (ग्राम. १२. १२.४५८.२) इति मन्द्रमन्द्रादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य गोनामधेयस्य ऋषेः सामनी ॥ २ ॥

प्रयस्वच्च प्राजापत्यम् ॥ ४.१२.३ ॥

एन्द्र याद्युप नः परावतः (सा. ४५९) इत्यत्रैक साम । एन्द्र- या पनाः (ग्राम. १२.१२. ४५९.१) इति चतुर्थमन्द्रादिकं प्राजापत्यं प्रयस्वत् । प्रजापतिसंबन्धि प्रयस्वच्छब्दयुक्तमेतत्संज्ञ साम । प्रयस्वन्तः सुतेष्वा (४५९) इति सान्नि विद्यमानत्वात् ॥ ३ ॥

अक्षय्यं च रेवत् ॥ ४.१२.४॥

तमिन्द्रं जोहवीमि मघवानम् (सा. ४६०) इत्यत्रैक साम । तमिन्द्रंजोहवीमिमघवानाम् (ग्राम. १२.१२. ४६०.१) इति चतुर्थमन्द्राचतुर्थः अध्यायः (१२) १५७ दिकं रेवत् । रायेशब्दयुक्तमेतत् । रेशब्देन धनवाचकः शब्दोऽभिधीयते । तदक्षय्यमेतत्संज्ञं साम । मघवानमिति राये नो विश्वेति च धनवाचकशब्दो विद्यते ॥ ४ ॥

याज्ञतुरं च ॥ ४.१२.५॥

अस्तु श्रौषट् (सा. ४६१) इत्यतैकं साम । अस्तु श्रौषाट् (ग्राम. १२. १२. ४६१. १) इति मन्द्रादिकं याज्ञतुरम् । यज्ञतुरः यज्ञस्य तरिताग्निः, तत्संबन्धि । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ।। ५॥

एवयामारुतस्य साम ॥४.१२.६॥

प्र वो महे मतयः (सा. ४६२ ) इत्यत्रैकं साम । प्रावोमहेमतयोयन्तुविष्णवो (ग्राम. १२. १२. ४६२. १) इति क्रुष्टद्वितीयादिकम् एवयामारुतस्य एतत्संज्ञकस्य ऋषेः स्वतन्त्रं साम । ६॥

भरद्वाजस्य विषमाणि त्रीणि । इन्वकानि वा सैन्धुक्षितानि वा ॥ ४.१२.७॥

अया रुचा हरिण्या (सा. ४६३) इत्यत्र सामत्रयमुत्पन्नम् । आया (ग्राम. १२.१२. ४६३.१) इति चतुर्थमन्द्रादिकम् । अयारुचाहरिण्या (ग्राम. १२. १२. ४६३.२) इति मन्द्रतृतीयादिकम् । अयारुचाहरिण्या (ग्राम. १२. १२. ४६३.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि भरद्वाजस्य विषमाणि । प्रथमद्वितीययोरर्धर्च एव साम । तृतीयस्य सर्वस्याआर्षेयब्राह्मणम् अथवा इन्वकनामधेयानि । अथवा सैन्धुक्षि- मृचि इति वैषम्यम् । तानि ॥ ७॥

सवितुश्च साम ॥ ४.१२.८॥

अमि त्यं देवम् (सा. ४६४) इत्यत्रैक साम । अभियंदेव सवि तारम् (ग्राम. १२. १२. ४६४. १) इति मन्द्रचतुर्थादिकं सवितुश्च साम ॥ ८॥

भारद्वाजे द्वे। पारुच्छेपे वा । अग्नेर्वैश्वानरस्य रक्षोघ्ने द्वे । बार्हस्पत्ये वा । अवभृथसाम वैनयोः पूर्वम् । प्रवर्ग्यं सामोत्तरम् ॥ ४.१२.९॥

अग्नि होतारं मन्ये दास्वन्तम् (सा.४६५) इत्यत्र सामचतुष्टयमुत्पन्नम् । तत्र अग्रि होता (ग्राम. १२. १२. ४६५.१) इति मन्द्रादिकम् । अग्नि होतारं मन्ये (ग्राम. १२.१२.४६५.२) इति चतुर्थतृतीयादिकम् । [एते आये द्वे भारद्वाजे। अथवा पारुच्छेपे। परुच्छेपो नाम ऋषिः । अहावोहावाः (ग्राम. १२. १२. ४६५.३) इत्यादि तृतीयद्वितीयादिकम् । त्यग्नाइः (ग्राम. १२. १२.४६५. ४) इत्यादि द्वितीयतृतीयादिकम् । एते अन्तिमे द्वे वैश्वानरस्याग्नेः रक्षोने रक्षोहननकारणे । अत्र विकल्पत्रयम् । अथवा एते सामनी बार्हस्पत्ये । यद्वा एनयोः पूर्व प्रथम अवभृथसामनामकम् । तथा उत्तरं द्वितीय प्रवर्दीसामनामधेयम् ॥ ९॥

ऐषं च ॥ ४.१२.१० ॥

तव त्यचर्यम् (सा. ४६६) इत्यबैक साम। तावत्यनारियन्नृ- ताउ (ग्राम. १२. १२. ४६६.१) इति क्रुष्टद्वितीयादिकम् ऐषम्, इषशब्द१५९ चतुर्थः अध्यायः (१२)

युक्तमेतत्साम । शतक्रतुर्विदेदिपम् इति मानि इषशब्दस्य विद्यमानत्वात् । चकारो वाक्यभेदद्योतनार्थः ।। १० ।। इति श्रीमायणाचार्यविरचिते माधवीय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्था याये द्वादशः खण्डः ।। १२ ।। यस्य निःश्वसितं वेदा यो वेदेभ्योऽग्विलं जगत् । निर्म मे तमहं वन्द विद्यातीर्थ महेश्वरः ।। ॥ इन्द्रपुच्छभाप्यं समाप्तम् ।। इति चतुर्थोऽध्यायः ।। १।।