सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः

त्रैशोकम् ॥ ४.३.१॥

विश्वाः पृतना अभिभूतरं नरः (सा. ३७०) इत्यत्रैक साम । विश्वोहाइ (ग्राम. ९. ३. ३७०.१) इति मन्द्रचतुर्थादिकं शोकनामधेयम् । त्रैलोक्यस्य शोकापहरणकारणम् । तथा च ब्राह्मणम् – इमे वै लोकाः सहा- संस्तेऽशोचस्तेषामिन्द्र एतेन साम्ना शुचमपाहन्यत् त्रयाणां शोचता- मपाहंस्तस्मात् त्रैशोकम् (ता. ब्रा. ८. १. ९) इंति ॥ १ ॥

शैखण्डिने द्वे । अत्रेर्विवर्ती द्वौ । महासावेतसे द्वे । महाशैरीषे द्वे ॥४.३.२॥

श्रत्ते दधामि (सा. ३७१) इत्यत्र अष्टौ सामान्युत्पन्नानि । श्रत्तेहोइ (ग्राम. १०.३. ३७१.१) इति तृतीयद्वितीयादिकम् । अत्ताइ (ग्राम. १०.३.३७१.२) इति [च] तथा । एते आये द्वे शैखण्डिने। अयोवा (ग्राम. १०.३.३७३. ३) इत्यादि तृतीयद्वितीयादिकम् । इयोवा (ग्राम. १०. ३. ३७१. ४) इत्यादि [च] तथा । एते द्वे अत्रेर्विवर्तनामधेये । आयाम् । श्रत्ताइ (ग्राम. १०. ३. ३७१. ५) इति क्रुष्टद्वितीयादिकम् । अयंया। श्रत्ताइ (ग्राम. १०.३.३७१. ६) इति द्वितीयतृतीयादिकम् । एते द्वे महा- सावेतसनामके। औहोहोहाइ । श्रत्ताइ (ग्राम. १०. ३. ३७१.७) इति मन्द्रचतुर्थादिकम् । श्रत्ताओहोहोहाइ (ग्राम. १०. ३. ३७१. ८) इति च तथा । एते अन्तिमे द्वे महाशैरीपनामके ॥ २ ॥