अष्टमः खण्डः
सौमित्रं च ॥ २.८.१॥
य रक्षन्ति (सा. १८५) इत्यत्रैकं साम । यक्षन्तिप्रचेतसाः (ग्राम. ५. ८. १८५.१) इति चतुर्थमन्द्रादिकं सौमित्रम् । सुमित्रः कुत्सः तेन दृष्टम् । सुमित्रः कुत्सः कन्याण आस इत्यादि । स तपोऽतप्यत । स एतत्सौमित्रमपश्यत् । (तां. वा. १३.६.९-१०)इति [अन्तं] हि ब्राह्मणम् ॥ १
श्यावाश्वे च ॥२.८.२॥
गव्यो षु णो यथा पुरा (सा. १८६) इत्यत्र सामद्वयोत्पत्तिः । गव्योपुणोयथापुरा (ग्राम. ५.८.१८६.१) इति मन्द्रचतुर्थादिकमाद्यम् । गव्योषुणोयथापुराए (ग्राम. ५.८.१८६.२) इति मन्द्रमन्द्रादिकं [द्विती- यम् । एते द्वे श्यावाशे । श्यावाश्वो नाम ऋषिः ॥ २॥
शैखण्डिनं च ॥ २.८.३ ॥
इमास्त इन्द्र (सा. १८७.) इत्यत्रैक साम । इमास्तई (ग्राम. ५. ८. १८७.१) इति मन्द्रादिकं शैखण्डिनम् ।। ३ ।।
वैतहव्यं च ॥ २.८.४ ॥
अया धिया च गव्यया (सा. १८८) इत्यत्रैक साम । आया- धियाचगव्याया (ग्राम. ५.८.१८८.१) इति मन्द्रादिकं वैतहव्यम् । वीतहव्यो नाम ऋषिः ॥ ४ ॥
भारद्वाजं च ॥ २.८.५॥
पावका नः सरस्वती (सा. १८९) इत्यत्रैक साम । पावकानईया (ग्राम. ५. ८. १८९. १) इति मन्द्रचतुर्थादिकं भारद्वाजं भरद्वाजेन दृष्टम् ॥ ५॥