८६ आर्षेयवाह्मणम्
आभीशवं च ॥ २.१०.६॥
अरं त इन्द्र श्रवसे (सा. २०९) इत्यत्रैक साम । अरंतइन्द्र- श्रवसेए । ए (ग्राम. ६.१०.२०९.१) इति मन्द्रादिकम् आभीशवम् । आमीशवं यदेवाभीशवस्य । देवस्थानं भवति । (ता. बा. १५. ३. २७-२८) इति ब्राह्मणम् अनुसंधेयम् ।। ६ ॥
पौषं च ॥ २.१०.७॥
धानावन्तं करम्भिणम् (सा. २१०) इत्यत्रैक साम । धानावन्तं- करम्भिणाम् (ग्राम. ६. १०. २१०.१) इति मन्द्रतृतीयादिक पौषम् ॥ ७॥
इन्द्रस्य क्षुरपवि ॥ २.१०.८॥
अपां फेनेन नमुचेः (सा. २११) इत्यत्रैक साम । अपांफेने (ग्राम. ६. १०. २११.१) इति मन्द्रचतुर्थादिकम इन्द्रस्य क्षुरपवि । [इन्द्रस्य] वृष्णः । क्षुरः तीक्ष्णः । एतन्नामधेयं साम ॥ ८ ॥
सौमित्रे द्वे ॥२.१०.९॥
इमे त इन्द्र सोमाः (सा. २१२ ) इत्यत्रक साम । इमेतआ (ग्राम. ६. १०. २१२.१) इति मन्द्रादिकम् । तुभ्य५ सुतासः (सा. २१३) इत्यत्रैक साम । तुभ्यः हाउ (ग्राम. ६. १०. २१३.१) इति चतुर्थमन्द्रादि- कम् । एते द्वे सामनी सौमित्रे । सुमित्रः कुत्सः तेन दृष्टे । दृष्टं साम (पा. २.३.४७) इत्यणप्रत्ययः ॥ ९॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणे द्वितीयाध्याये दशमः खण्डः ।। १० ।।