द्वितीयः अध्यायः (७) ७९
इन्द्रस्य च माया ॥ २.७.७॥
आ तु न इन्द्र वृत्रहन् (सा. १८१) इत्यत्रैकं साम । आतूऔहो (ग्राम. ५. ७. १८१. १) इति तृतीयद्वितीयादिकम् इन्द्रस्य माया । एतन्नामकम् ॥ ७॥
इन्द्रस्य सांविर्ते द्वे । संवर्तस्य वाङ्गिरसस्य ॥ २.७.८॥
ओजस्तदस्य तित्विपे (सा. १८२) इत्यत्र सामव्यमुत्पन्नम् । हा। हाउवा । ओजस्तदस्यतित्विषे (ग्राम. ५. ७. १८२.१) इति मन्द्रद्वितीयादिकं प्रथमम् । ओजस्तदास्पतित्विषाइ (ग्राम. ५. ७. १८२. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य सांवते रक्षःसंवर्तन- हेतुभूते । तथा च ब्राह्मणम् – देवानां वै यज्ञं रक्षास्यजिघांसंस्तान्येते- नेद्रः संवर्तमुपावपद्यत् संवर्तमुपावपत् तस्मात् सांवर्तम् (ता. ब्रा. १४. १२. ७) इति । यद्वा एते सामनी आङ्गिरसस्य संवर्तस्य स्वभूते ॥ ८ ॥
शौनःशेपं च च्यावनं वा ॥ २.७.९ ॥
अयमु ते समतसि (सा. १८३) इत्यत्रैकं साम । अयामु (ग्राम. ५. ७. १८३. १) इति चतुर्थतृतीयादिकं शौनःशेपम् । वा अथवा च्यावन च्यवनदृष्टं साम ।। ९ ।।
प्रतीचीनेडं च काशीतम् ॥ २.७.१० ॥
बात आ वातु (सा. १८४) इत्यत्रैक साम वातआवातु (ग्राम. ५. ७. १८४. १) इति चतुर्थमन्द्रादिकं प्रतीचीनेडं काशीतम्