द्वितीयः अध्यायः (५) ७१
ब्राह्मणोऽतिरिक्तमपश्यमुद्गौरीवितं भवति । (ता. ब्रा. ११. ५.१४) इति हि ब्राह्मणम् । यद्वा सर्वाणि षट् सामानि शाकत्यसामानि । यद्वा सर्वाणि गौरीवितानि ॥ २ ॥
काण्वे द्वे ॥ २.५.३ ॥
क्यमु त्वा तदिदर्थाः (सा. १५७) इत्यस्यां सामद्वयमुत्पन्नम् । वयंवायाम् (ग्राम. ४. ५. १५७.१) इति मन्द्रचतुर्थादिकम् । वयमूत्वा- तदिदर्थाः (ग्राम. ४. ५. १५७. २) इति मन्द्रद्वितीयादिकम् । ते उभे काण्वे कण्वेन दृष्टे ।। ३ ॥
गोरीविते द्वे । श्रौतकक्षं तृतीयम् ॥ २.५.४ ॥
इन्द्राय मद्वने सुतम् (सा. १५८) इत्यत्र सामत्रयमुत्पन्नम् । इन्द्रायमद्वनाइ (ग्राम. ४.५.१५८.१) इति चतुर्थमन्द्रादिकम् । इन्द्राय- मद्वनेहाउ (ग्राम. ४. ५. १५८. २) इति मन्द्रादिकम् । एते द्वे गौरी- विते एतन्नामधेये। इन्द्रायमद्वनेसुतम् । इन्द्रायमोवा (ग्राम. ४. ५. १५८. ३) इति चतुर्थमन्द्रादिकं तृतीयम् । श्रौतकक्षं श्रुतकक्षो नाम ऋषिः तेन दृष्टम् ॥ ४॥
सौमित्रे द्वे । इहवर्द्दैवोदासं तृतीयम् ॥२.५.५॥
अयं त इन्द्र सोमः (सा. १५९.) इत्यत्र सामत्रयमुत्पन्नम् । अयंत आ (ग्राम. ४. ५. १५९. १) इति मन्द्रस्वरादिकम् । अयंतइन्द्र सोमाः (ग्राम. ४.५, १५९, २) इति मन्द्रचतुर्थादिकम् । एते द्वे सौमित्रे एतन्नाम- धेये । अयंत इन्द्रसोमः (ग्राम, ४, ५.१५९.३) इति चतुर्थतृतीयादिकं तृतीयं साम इहवदैवोदासम् । दिवोदासेन दृष्टम् । अत्र ईहेति हि निधनम् ॥ ५॥ .