१४ आर्षेयब्राह्मणम्
वत्सस्य काण्वस्य सामनी द्वे ॥ ८ ॥
आ ते वत्सो मनो यमत् (सा. ८) इत्यत्र सामद्वयमुत्पन्नम् । अत्र आ ते वत्साः (ग्राम. १. १. ८. १) इत्यादि मन्द्रस्वरादिकं प्रथमं साम वत्सस्य साम । आ ते वत्सो मनो यमत् (ग्राम. १. १. ८. २) इति चतुर्थमन्द्रस्वरादिकं द्वितीयम् । [एते द्वे] कण्वनामक [स्य] ऋषेः पुत्रस्य वत्सनामकस्य स्वभूते सामनी ॥ ८ ॥
अग्नेश्च वैश्वानरस्यार्षेयम् ॥ ९॥
त्वमाग्ने पुष्करादधि (सा. ९) इत्यस्यामेकं सामोत्पन्नम् । त्वामग्ने पूष्कारादधी (ग्राम. १. १. ९. १) इत्यादि मन्द्रादिकं साम अग्नेरार्षेयनामकम् । अस्य साम्नोऽग्नि्र्द्ष्टेत्यर्थः ॥ ९॥
सुमित्रस्य च वाध्र्यश्वेः साम ॥ १० ॥
अग्ने विवस्वदा भर (सा. १०) इत्यत्रैकं सामोत्पन्नम् । तच्च अग्ने विवस्वदाभरो वाहाइ (ग्राम. १. १. १०. १) इत्यादि चतुर्थमन्द्रस्वरादिकम् एकं साम । वाध्यश्वनामकस्य ऋषेः पुत्रस्य [सु] मित्रस्य स्वभूतं साम । तेन दृष्टम् ॥ १० ॥
अत्र ऋषिविकल्पं दर्शयति ---
वाध्र्यश्वस्य वानूपस्य ॥ ११ ॥
वा-- शब्दो विकल्पार्थः । अनृपशब्दाद् अपत्यार्थे ऋष्यन्धकं - (पा. ४. १. ११४) त्यण् । अनृपनामकस्य ऋषेः पुत्रस्य वाध्यश्वस्य साम ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषेयब्राह्मणे प्रथमाध्याये द्वितीयः खण्डः ॥ २॥