प्रथमः अध्यायः
प्रथमः खण्डः
तत्र अथ खल्वयमार्षः प्रदेशो भवति इत्यादिकमार्षेयब्राह्मणं क्रमप्राप्तं व्याख्यायते । तत्रादौ ब्राह्मणार्थं संगृह्य प्रदर्शयति -
अथ खल्वयमार्षः प्रदेशो भवति ॥१.१.१॥
अथ इत्यानन्तर्ये । खल्विति प्रसिद्धौ। अयमनेन ब्राह्मणेन प्रतिपाद्योऽर्थः । आर्षः ऋषिसंबन्धी । प्रदेशः उपदेशो भवति ॥१॥
कः पुनरसौ तमाह -
ऋषीणां नामधेयगोत्रोपधारणम् ॥ १.१.२॥
ऋषीणां नामधेयगोत्रैश्च । उपलक्षणमेतत् । ऋषीणां नामधेयगोत्रच्छन्दोदेवतादिवाचकेन च शब्देन साम्नां वाच्यत्वज्ञानमवधारणम् । यादृशेऽर्थोऽनेन ब्राह्मणेन प्रतिपाद्यत इत्यर्थः ॥२॥
नन्वेवमर्थस्य ब्राह्मणप्रतिपादितत्वात् तदध्ययनार्थज्ञानयोः पुरुषेण प्रवृत्तिः कथमित्याशङ्कयाह -
स्वर्ग्यं यशस्यं धन्यं पुण्यं पुत्र्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम् ॥ १.१.३ ॥
एतद् ब्राह्मणाध्ययनमर्थज्ञानं वा स्वर्ग्यं स्वर्गाय हितं, यशस्यं यशसे हित, धन्यं धनाय हितं, पुण्यमदृष्टकरं, पुत्र्यं पुत्राय हितं, पशव्यं पशुभ्यो हितं,