पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

सायणाचार्यविरचितेन वेदार्थप्रकाशेन समन्वितम्


वागीशाद्याः सुमनसः सर्वार्थानामुपऋमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥

तत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।
आदिशत्सायणाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥

ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यों वेदार्थं वक्तुमुद्यतः ॥ ४ ॥

व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता ।
व्याख्याता ब्राह्मणस्याथ व्याख्यानं संप्रवर्तते ॥ ५ ॥

अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम् ।
षड्विंशाख्यं द्वितीयं स्यात्ततः सामविधिर्भवेत् ॥ ६॥

आर्षेयं देवताध्यायो भवेदुपनिषत्ततः ।
संहितोपनिषद्वंशो ग्रन्थावष्टावितीरिताः ॥ ७ ॥