पृष्ठम्:Dvisandhanam kavya.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम् । उद्यतः, असहोऽसहिष्णुरिव कः सोऽकनिष्ठो महान् स्वयम् अस्तम् एति ॥ भारतीये- तत्र भुवि कोकनिष्ठश्चक्रवाकतत्परः, सहजपरिपीडनो निसर्गपरिपीटकः, तपनपरिताप- गुणः सूर्यस्य सर्वजगण्यापी तापगुणः अभवत् । स खयं एवं कं विनाशं नेष्यामीत्यङ्गीकारे उद्यतः अस्तमसह एति ॥ विनिवार्य तं निजकरेण निशि गुरुतमोऽमिमातुलम् । प्राप विधुरपटुरभ्युदयं महसाञ्जनोऽस्य स तुतोष सङ्गतः ॥ ३९ ॥ विनिवेति ॥ गुरुतमो गरिष्ठो विधुरपटुवुःखस्फोटनदक्ष आझनो हनुमान् निजकरण स्वहस्तेन तं भरतं विनिवार्य संबोध्य अभिमातुलं मातुलं द्रोणाचलं अभिलक्ष्य निशि महसा तेजसा अभ्युदयं प्राप । स द्रोणश्च अस्य सङ्गत आञ्जनेयसङ्गात् तुतोष ॥ भार- तीये-अपटुरपूर्णः विधुश्चन्द्रः अभिमा परिच्छेदकेन ('आतो धासोः' इत्याकारलोपः)निज- करेण स्वीयकिरणेन गुरु गरिष्ठं तमोऽन्धकारं विनिवार्य तं महसां तेजसाम् अभ्युदयम् प्राप । स जनः, अस्य चन्द्रस्य सङ्गतः सङ्गात् तुतोष ॥ स वामसान्द्रोणोरुचितमुदयात्संमुखगते विधौ रागोद्रेकं धृतवति तमोवैकनिलयः । कथंचिच्चित्तस्य स्थितिमिव विशल्यां प्रहितवा- विहातुं शक्यात्मप्रकृतिरनुबद्धा नहि सुखम् ॥ ४० ॥ स इति ॥ ओधैकनिलयो जलरयैकस्थानं स द्रोणः, उदयात् संमुखगते विधौ दैवे रुचितं शोभितं तं रागोद्रेकं धृतवति सति, विशल्यां सुन्दरी चित्तस्य स्थितिम् इव, मह शीघ्र वा एव प्रहितवान् ॥ भारतीये-अधैकनिलयः पापैकमन्दिरम् स क्षइस्तस्क- रजनोऽणोः स्वल्पात उदयात् उचितं योग्यं वामं प्रतिकूलं धृतवति विधौ चन्द्र सैमु- खगते सति चित्तस्य विशल्यां शङ्ककर्मरहितां स्थिति तम इव प्रहितवान् । युक्तमेतत् हि यतः अनुबद्धा आत्मप्रकृतिः सुखं यथा स्यात्तथा विहातुं न शक्या ॥ शिखरिणी ॥ विधुतोऽभ्युदितो दिगन्तरं परितस्ताररुचा तया ततः । निशि शत्युदयः पराद्युतिः कियती नाम न हन्त्युपप्लवम् ॥ ११ ॥ विधुत इति ॥ ततोऽनन्तरं परितः सामस्त्येन ताररुचा शुभ्रदीप्त्या तया विशल्यया विधुतो निराकृतः शतयुदयः शक्तरायुधविशेषस्योदयः निशि तस्यामेव दिगन्तरमाशा- न्तरालमभ्युदितः लक्ष्मणं त्यक्त्वा गतवान् । युक्तमेतत् । कियती परोत्कृष्टा युतिः कान्तिरुपलवमन्धतमसं न हन्ति ॥ भारतीये- ततस्तस्माश्लोकोप्सरादू विधुतश्चन्द्राद- भ्युदितः समुत्पन्नः शत्युदयः सामथ्योदयस्तया लोकोत्तरया रुचा कान्या निशि रात्री दिगन्तरं परितस्तार प्रच्छादितवान् ॥ वैतालीयं छन्दः॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९७&oldid=234714" इत्यस्माद् प्रतिप्राप्तम्