पृष्ठम्:Dvisandhanam kavya.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कृतेति ॥ तमसा यत्पूर्वम् उच्छ्रितमुचं तदनुदात्तमधरतरम् यदधरतरं तदुश्चमा- दृतं कृतम् । तथा कापि विवेकमतिर्मंदमति जनि। तथा च तमः कुम्पैकचेष्टित. मिवाभवत् ॥ पुरतः स्थितं परिचितं च निकटतिमिराहतेक्षणः । जात इव धनमदान्ध इव वचनापि कोऽपि न जनोऽभ्यचायत ॥३४॥ पुरत इति ॥ कोऽपि जनः कचन अपि 'निकटतिमिराहतेक्षण आसन्नतिमिराभिभू. तलोचनो जात इव, धनमदान्ध इव' परिचितमपि पुरतः स्थितं न अभ्यचायत ईक्षितवान् । इति दिग्विमूढमिव तत्र गिरिषु दरिषु स्खलत्पतत् । व्याप हृतमिव तमस्तमसा तदशेषमग्रजवपूरणोद्यतम् ॥ ३५ ॥ इतीति ॥ तदशेष तमः इत्येवंप्रकारेण तत्र रणे दिग्विमदं भ्रान्तमिव गिरिष स्खलत् दरिषु गर्तासु पतत् भ्रंसमान रणोद्यतम् अग्रजवपू रामशरीरं तमसा कोपेन हृतं गृहीतमिव व्याप॥मारतीये-अप्रजवपूरणोद्यतम् प्रधानवेगस्य पूरणे उद्यतमुद्यमो यस्य तत् अशेषम् ।। मिलिताङ्गदंपतिसुखाय सहितजनकीयनन्दनम् । व्योम्नि गमनमकृत त्वरितः स शनैरवाल्लघुरयाच मारुतः ॥ ३६ ॥ मिलितेति ॥ स मारतो हनुमास्त्वरितः सन् शनैरवान्मन्दध्वनेः, लघुरयात्क्षिप्रवेगात् च पतिसुखाय लक्ष्मणसुखनिमित्तं मिलिताद मिलितोऽङ्गदो यत्र तत् सहितजनकीय- नन्दनं सहितौ मिलितो हितसहितो वा जनकीयनन्दनो भामण्डलो यत्र तद् व्योनि गमनम् अकृतभारतीये-मारुतो वायुमिलितादंपतिसुखाय आलिङ्गितशरीरखीपुंस. सुखनिमित्तं सहितजनकीयनन्दन सहित सप्रेम जनकीय नन्दनमालादनं यस्मात् तत् ।। भरतः स्थितः स खलु यत्र तदिदमथवातिरागतः । स्थानमसुखमलिनो न्यगदन्नलिनोदरं निशि निबद्धमीलनम् ॥ ३७ ।। भरत इति ॥ यत्र खलु भरतः कैकयीपुत्रः स्थितः तदिदं स्थानम् असुखमलिनो दुःखम्लानो वातिईनुमान् आगतः । निवद्धमीलनं नलिनोदरं लक्ष्मणं न्यगदत् कथित- वान् । भारतीये-(स मारतः) यत्र अतिरागतोऽत्यन्तप्रीतेः सोऽलिभ्रमरः, भरतः तत्परतया स्थितः तदिदं अलिनो भ्रमरस्य स्थान निशि निबद्धमीलनं प्राप्तसंकोचम् , नलिनोदरं कमलकोशम्, असुखं यथा स्यात्तथा न्यगदत् ॥ भुवि कोकनिष्ठ इव तत्र सहजपरिपीडनोऽभवत् । यः स तपनपरितापगुणः स्वयमस्तमेत्यसह एवमुद्यतः ॥ ३८॥ भुवीति ॥ तत्र भुवि समरमुवि यः सहजपरिपीडनो भ्रातपरिपीडनः, तपनपरिताप- गुणः तपनस्य सूर्यस्येव परितापगुणः, अभवत् । एवं सहजपीडां नाशं नेष्यामीत्यहीकारे Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९६&oldid=234713" इत्यस्माद् प्रतिप्राप्तम्