अथर्ववेदः/काण्डं २०/सूक्तम् ०५०
दिखावट
← सूक्तं २०.०४९ | अथर्ववेदः - काण्डं २० सूक्तं २०.०५० मेध्यातिथिः। |
सूक्तं २०.०५१ → |
दे. इन्द्रः। प्रगाथः(विषमा बृहती - समा सतोबृहती) |
कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥