अथर्ववेदः/काण्डं २०/सूक्तम् ०४८

विकिस्रोतः तः
← सूक्तं २०.०४७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४८
खिलम्, ४-६ सर्पराज्ञी।
सूक्तं २०.०४९ →
दे. सूर्यः, गौः । गायत्री।

अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।
अभि वत्सं न धेनवः ॥१॥
ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।
जातं जनिर्यथा हृदा ॥२॥
वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।
मह्यमायुर्घृतं पयः ॥३॥
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥४॥
अन्तश्चरति रोचना अस्य प्राणादपानतः ।
व्यख्यन् महिषः स्वः ॥५॥
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
प्रति वस्तोरहर्द्युभिः ॥६॥