अथर्ववेदः/काण्डं ६/सूक्तम् ०८७
दिखावट
← सूक्तं ६.०८६ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०८७ ऋषिः - अथर्वा |
सूक्तं ६.०८८ → |
दे. ध्रुवः.। अनुष्टुप्। |
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥