अथर्ववेदः/काण्डं ६/सूक्तम् ०८८

विकिस्रोतः तः
← सूक्तं ६.०८७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८८
ऋषिः - अथर्वा
सूक्तं ६.०८९ →
दे. ध्रुवः.। अनुष्टुप्, ३ त्रिष्टुप्।

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।
ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।
सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥