अथर्ववेदः/काण्डं ६/सूक्तम् ०९४

विकिस्रोतः तः
← सूक्तं ६.०९३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९४
अथर्वाङ्गिराः।
सूक्तं ६.०९५ →
दे. सरस्वती। अनुष्टुप्, २ विराड् जगती।

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥
ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥