अथर्ववेदः/काण्डं ६/सूक्तम् ०१२
← सूक्तं ६.०११ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०१२ ऋषिः - गरुत्मान् |
सूक्तं ६.०१३ → |
दे. तक्षकः। अनुष्टुप्। |
परि द्यामिव सूर्योऽहीनां जनिमागमम् ।
रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥
यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा ।
यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥
मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु ।
मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥
सायणभाष्यम्
परि॒ द्यामि॑व॒ सूर्यो ऽही॑नां॒ जनि॑मागमम्।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात्तेना॑ ते वारये वि॒षम् ।।१।।
परि । द्याम्ऽइव । सूर्यः । अहीनाम् । जनिम । अगमम् ।
रात्री । जगत्ऽइव । अन्यत् । हंसात् । तेन । ते । वारये । विषम् ॥ १ ॥
सूर्यो द्यामिव अन्तरिक्षमिव अहीनाम् सर्पाणां जनिम्' कृत्स्नं जन्म सर्पकुलम् अहं पर्यागमम्' परिप्राप्तवान् अस्मि रात्री जगदिव । 'रात्रेश्चाजसौ' (पा ४,१,३१) इति ङीप् । यथा रात्रिः स्वकीयेन तमसा कृत्स्नं जगद् व्याप्नोति एवम् हंसात् हन्ति गच्छति व्याप्नोतीति हंस आत्मा तस्माद् अन्यत् कृत्स्नं शरीरं यद् विषं व्याप्नोति हे विषग्रस्त ते त्वदीयं तद् विषं तेन प्रसिद्धेन भैषज्येन वारये निवारयामि ।
यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा।
यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ।।२।।
यत् । ब्रह्मऽभिः । यत् । ऋषिऽभिः । यत् | देवैः । विदितम् । पुरा ।
यत् । भूतम् । भव्यम् । आसन्ऽवत् । तेन । ते । वारये । विषम् ॥ २ ॥
यद् भैषज्यं ब्रह्मभिः मन्त्रैर्ब्राह्मणैर्वा साध्यं यत् च ऋषिभिः अतीन्द्रियार्थदर्शिभिः अगस्त्यवसिष्ठप्रमुखैः परिज्ञातं यत् च भैषज्यं पुरा पुरातनकाले देवैः इन्द्रादिभिः विदितम् ज्ञातं यत् च भूतम् भूतकालावच्छिन्नं भव्यम् भावि भविष्यत्कालावच्छिन्नम् आसन्वत् आस्ययुक्तम् । तेनोच्चार्यमाणमन्त्रसहितम् इत्यर्थः । ‘पद्दन्' (पा ६,१,६३ ) इत्यादिना आस्यशब्दस्य मतौ आसन् आदेशः । तेन सर्वेण भैषज्येन ते त्वच्छरीरस्थं विषं वारये निवारयामि।
मध्वा॑ पृञ्चे न॒द्य॑१ः॒ पर्व॑ता गि॒रयो॒ मधु॑।
मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ।।३।।
मध्वा । पृञ्चे । नद्यः । पर्वताः । गिरयः । मधु ।
मधु । परुष्णी । शीपाला । शम् । आस्ने । अस्तु । शम् । हृदे ॥ ३ ॥
मधु मधुरं विषहरम् अमृतम् आ पृञ्चे आ समन्तात् त्वच्छरीरे संपृक्तं करोमि । पृची संपर्के । नद्यः गङ्गाद्याः पर्वताः हिमवदाद्या महाशैलाः गिरयः पर्यन्तपर्वताश्च विषहरं मधु त्वच्छरीरे आसिञ्चन्तु इति विशेषतो विषहरत्वात् प्रार्थ्यते । परुष्णी नाम नदी शीपाला शीपालः शैवालं तद्युक्ता । मत्वर्थीयः अकारः । ईदृशी परुष्णी नाम नदी मधु आसिञ्चतु । ईदृशं मधु विषहरम् अमृतम् आस्ने आस्याय शम् सुखकरम् अस्तु । पूर्ववद् आस्यशब्दस्य आसन् आदेशः। हृदे हृदयाय च शम् सुखकरम् अस्तु ।
इति षष्ठकाण्डे द्वितीयानुवाके प्रथम सूक्तम् ।