अथर्ववेदः/काण्डं ६/सूक्तम् ०१३

विकिस्रोतः तः
← सूक्तं ६.०१२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०१३
ऋषिः - अथर्वा (स्वस्त्ययनकामः)
सूक्तं ६.०१४ →
दे. मृत्युः। अनुष्टुप्।

नमो देववधेभ्यो नमो राजवधेभ्यः ।
अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥
नमस्ते अधिवाकाय परावाकाय ते नमः ।
सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥